Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.8



मूलम्-
यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत् ।
कथाच्छलेन बालानां नीतिस्तदिह कथ्यते॥८॥
पदविभागः-
यत् नवे भाजने लग्नः संस्कारः न अन्यथा भवेत् । कथा-छलेन बालानां नीतिः तद् इह कथ्यते॥८॥
अन्वयः-
यत्, नवे भाजने लग्नः संस्कारः अन्यथा न भवेत्, तद् इह कथा-छलेन बालानां नीतिः (मया) कथ्यते॥८॥
प्रतिपदार्थः-
यत् = यस्मात् कारणात्;  
नवे = नवीने, अपक्वे बाले; 
भाजने = शरावादौ पात्रे, पुंसि च;  
लग्नः = संसक्तः; 
संस्कारः = गुणाधानम्;  
अन्यथा न भवेत् = दूरीभवेत्; 
तद् = तस्मात् कारणात्; 
इह = हितोपदेशे;  
कथा-छलेन = काककूर्मादि-कथाव्याजेन; 
बालानां = बालोपदेशार्थं;  
नीतिः = राजनीतिः व्यवहारनीतिश्च; 
कथ्यते = मया निबध्यते ॥८॥
तात्पर्यम्-
नवीने पात्रे परिवेषितं (?) भोजनं यथा न नश्यति, तथैव नववयस्केषु बालकेषु निक्षिप्तः संस्कारः नैव विनश्यति। अतः (हितोपदेश)कथामाध्यमेन नीतिव्यवहारादीनां ज्ञानं बालकान् उपदिशामि ।

No comments:

Post a Comment