Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.17



मूलम्-
वरमेको गुणी पुत्रो न च मूर्खशतान्यपि ।
एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च॥१७॥
पदविभागः-
वरम् एकः गुणी पुत्रः न च मूर्ख-शतानि अपि । एकः चन्द्रः तमः हन्ति न च तारा-गणः अपि च॥१७॥
अन्वयः-
एकः अपि गुणी पुत्रः वरम्। (किन्तु) न च मूर्ख-शतानि । एकः चन्द्रः तमः हन्ति। न च तारा-गणः अपि च॥१७॥
प्रतिपदार्थः-
एकः अपि ; 
गुणी = सुगुणसंयुक्तः ; 
पुत्रः = सुतः ; 
वरम् = श्रेष्ठः ; 
(किन्तु) न च ; 
मूर्ख-शतानि = जड-मन्दपुत्राणां शतमपि ;  
एकः चन्द्रः ; 
तमः = अन्धकारं ; 
हन्ति = नाशयति ; 
न च तारा-गणः अपि च = नक्षत्रकोटीरपि ॥१७॥
तात्पर्यम्-
गुणवता पुत्रेण एकेनापि अलम्। यदि एकशतं पुत्राः अपि मन्दबुद्धयः भवन्तु, तेन न कोऽपि लाभः। यथा–  रात्रौ चन्द्रः एक एव अन्धकारं अपनेतुं समर्थः। असङ्ख्यकानि नक्षत्राणि मिलित्वा अपि कान्तिं न कुर्वन्ति।


आङ्ग्लेय्यार्थः-

One virtuous son is better than a hundred stupid sons. The moon alone removes darkness, not the (whole) cluster of stars.

हिन्द्यर्थः-

सौ मूर्ख पुत्रों की अपेक्षा एक ही पुत्र गुणी श्रेष्ठ है। चन्द्रमा अकेला ही अन्धकार को दूर करता है, पर ताराओं का समूह नहीं ॥


No comments:

Post a Comment