Showing posts with label Hitopadesha. Show all posts
Showing posts with label Hitopadesha. Show all posts

Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.162

🌷
मूलम्--
परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः ।
अपरिच्छेदकर्तॄणां विपदः स्युः पदे पदे ॥१.१६२॥

🌺
पदविभागः--
परिच्छेदः हि पाण्डित्यं यद्-आपन्ना विपत्तयः । अपरिच्छेद-कर्तॄणां विपदः स्युः पदे पदे ॥१.१६२॥
🌸
अन्वयः--
पाण्डित्यं (तु) यदापन्ना विपत्तयः परिच्छेदः हि । अपरिच्छेदकर्तॄणां पदे पदे विपदः स्युः ॥१.१६२॥
🌼
प्रतिपदार्थः--
परिच्छेदः = सदसतोः सम्यक् ज्ञानं, विचारः ; पाण्डित्यं = विद्वत्ता, कौशलम् ; आपन्नाः = प्राप्ताः । अपरिच्छेदकर्तॄणाम् = अविचार्य कार्यमाचरताम्, अविवेकिनाम् = असन्तुष्टानां वा ॥१.१६२॥
🌻
तात्पर्यम्--
यदा  आपत्तयः आपतन्ति, तदानीं विचार्य कार्यकरणं विज्ञत्वमिति जानीयात्। ये विचारशीलाः न, तेषां तु मुहुर्मुहुः विपत्तयः भवन्ति  ॥१.१६२॥
🌿
हिन्द्यर्थः--
विपत्ति आने पर, विचार कर कार्य करना ही पाण्डित्य (बुद्धिमत्ता) है। विना विचारे काम करने वाले प्राणियों पर तो पद-पद में विपत्तियाँ आती है ॥१.१६२॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.161

🌷
मूलम्--
को धर्मो भूतदया किं सौख्यं नित्यमरोगिता जगति ।
कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥१.१६१॥

🌺
पदविभागः--
कः धर्मः भूत-दया किं सौख्यं नित्यम् अरोगिता जगति । कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥१.१६१॥
🌸
अन्वयः--
कः धर्मः? भूत-दया। किं सौख्यं? जगति नित्यम् अरोगिता । कः स्नेहः? सद्भावः। किं पाण्डित्यं? परिच्छेदः ॥१.१६१॥
🌼
प्रतिपदार्थः--
कः धर्मः = किं कर्तव्यम् इति ; भूतदया = जीवेषु अनुकम्पा ; सौख्यम् = सुखम् ; नित्यम् अरोगिता = सदा आरोग्यं ; जगति = लोके ; स्नेहः = मित्रत्वम् ; सद्भावः = सहृदयभावः ; पाण्डित्यं = विद्वत्ता ; परिच्छेदः = विभागोपभागपूर्वकं ज्ञानं, सदसद्विवेको वा ॥१.१६१॥
🌻
तात्पर्यम्--
प्राणिकोटिषु दाक्षिण्यभावः एव धर्मः। लोके सदा स्वस्थता एव सुखम्। सौजन्यभावः एव मित्रत्वम्। विभज्य सदसतोः सूक्ष्मं ज्ञानम् एव विज्ञता भवति ॥१.१६१॥
🌿
हिन्द्यर्थः--
धर्म क्या है ? प्राणियों पर दया । संसार में सुख क्या है ? नीरोग रहना । स्नेह क्या है ? सद्भाव अनुराग, प्रेम । पाण्डित्य क्या है? सत् असत् का विवेक । अर्थात्- उचित अनुचित का ठीक ठीक समझना ॥१.१६१॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.160

🌷
मूलम्--
न योजनशतं दूरं वाह्यमानस्य तृष्णया ।
सन्तुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः ॥१.१६०॥

🌺
पदविभागः--
न योजन-शतं दूरं वाह्यमानस्य तृष्णया । सन्तुष्टस्य करप्राप्ते अपि अर्थे भवति न आदरः ॥१.१६०॥
🌸
अन्वयः--
न योजन-शतं दूरं वाह्यमानस्य तृष्णया । सन्तुष्टस्य करप्राप्ते अपि अर्थे भवति न आदरः ॥१.१६०॥
🌼
प्रतिपदार्थः--
तृष्णया = आशया ; वाह्यमानस्य = प्रेर्यमाणस्य ; योजनशतमपि न दूरम् = शतं योजनेषु अपि समीपभावः एव ; सन्तुष्टस्य तु = तृप्तिंगतस्य ; करप्राप्ते = हस्तगतेऽपि ; अर्थे = धने, वस्तुनि वा ; न आदरो = उन्नतभावः न भवतीत्यर्थः ॥१.१६०॥
🌻
तात्पर्यम्--
यः अतिलोभात् पीडितः सः शतयोजनस्थानमपि अल्पं मन्यते। यः सन्तृप्तिवान् भवति सः करमितेन धनेनापि महद्भावम् आवहति ॥१.१६०॥
🌿
हिन्द्यर्थः--
जो मनुष्य तृष्णा के वश में हो रहा है, उसके लिये तो १०० सौ योजन (चार सौ कोश) भी दूर नहीं है, पर जो प्राणी सन्तुष्ट है, उसको तो हाथ में आए हुए धन पर भी आदर नहीं होता है, किन्तु उसमें भी उसे उपेक्षा ही होती है ॥१.१६०॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.159

🌷
मूलम्--
असेवितेश्वरद्वारमदृष्टविरहव्यथम् ।
अनुक्तक्लीबवचनं धन्यं कस्यापि जीवनम् ॥१.१५९॥

🌺
पदविभागः--
असेवित-ईश्वर-द्वारम् अदृष्ट-विरह-व्यथम् । अनुक्त-क्लीब-वचनं धन्यं कस्य अपि जीवनम् ॥१.१५९॥
🌸
अन्वयः--
असेवितेश्वरद्वारम् अदृष्टविरहव्यथम् । अनुक्त-क्लीब-वचनं धन्यं कस्य अपि जीवनम् ॥१.१५९॥
🌼
प्रतिपदार्थः--
(जीवनम् इत्यस्य विशेषणानि सर्वाणि पदानि) असेवितेश्वरद्वारम् ~ न सेवितं ईश्वरस्य द्वारं यस्मिन् जीवने = राजादिधनिगृहद्वारं न सेवितम् यस्मिन् जीवने; अदृष्टविरहव्यथम् ~ अदृष्टा विरहव्यथा यस्मिन् तत् तादृक् = प्रियविरहं न अनुभूतं यस्मिन् जीवने ; अनुक्तक्लीबवचनम् ~ नोक्तं क्वीबवचनं यस्मिन् जीवने = दीनवाक्यं मुखात् न निःसृतं ; जीवनम् = जीवितम् ; कस्यापि = सन्तुष्टस्य, विरक्तस्य च ; धन्यम् = सम्पन्नम् ॥१.१५९॥
🌻
तात्पर्यम्--
यः राज्ञां, धनिकानां वा गृहेषु सेवां न कृतवान्, यः कस्यचित् इष्टजनस्य अभावजनितां पीडां न अनुभूतवान्, यः कस्यचित् पुरतः गत्वा दीनभावं न व्यञ्जयति, तादृशस्य पुरुषस्य जीवनं सम्पन्नम् अस्ति॥१.१५९॥
🌿
हिन्द्यर्थः--
जिसने धनिको के द्वार की सेवा नहीं की, जिसने विरह की व्यथा नहीं सही, और जिसने कहीं अपनी दीनता प्रगट नहीं की, उसी मनुष्य का जीवन धन्य हैं ॥१.१५९॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.158

🌷
मूलम्--
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।
येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम् ॥१.१५८॥

🌺
पदविभागः--
तेन अधीतं श्रुतं तेन तेन सर्वम् अनुष्ठितम् । येन आशाः पृष्ठतः कृत्वा नैराश्यम् अवलम्बितम् ॥१.१५८॥
🌸
अन्वयः--
येन आशाः पृष्ठतः कृत्वा नैराश्यम् अवलम्बितं, तेन अधीतम्, तेन श्रुतम्, तेन सर्वम् अनुष्ठितम् ॥१.१५८॥
🌼
प्रतिपदार्थः--
अधीतम् = अध्ययनं कृतम्, शास्त्रं पठितम् ; श्रुतम् = गुरुमुखतः आकर्णितम् ; अनुष्ठितम् = सर्वं यज्ञादिकं शुभं कर्म कृतम् ; नैराश्यं = लोभाभावः, सन्तोषः ; अवलम्बितम् = स्वस्मिन् विहितम् ॥१.१५८॥
🌻
तात्पर्यम्--
यः अतितृष्णां त्यक्त्वा मनसि सन्तुष्टिं गतवान्, स एव अधीती, बहुश्रुतः, आचारवान् च ॥१.१५८॥
🌿
हिन्द्यर्थः--
जिसने आशा को लात मार कर नैराश्य (निराशा) का ही अवलम्बन किया है, उसीने सब शास्त्रों को ठीक २ पढा है, और उसी ने शास्त्रों को ठीक२ सुना है और उसी ने सब कुछ कर्त्तव्य कार्य किया है ॥१.१५८॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.157

🌷
मूलम्--
सन्तोषामृततृप्तानां यत् सुखं शान्तचेतसाम् ।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥१.१५७॥

🌺
पदविभागः--
सन्तोष-अमृत-तृप्तानां यत् सुखं शान्त-चेतसाम् । कुतः तद्धन-लुब्धानामितश्चेतश्च धावताम् ॥१.१५७॥
🌸
अन्वयः--
सन्तोषामृततृप्तानां शान्तचेतसां यत् सुखं तत् कुतः धनलुब्धानाम् इतश्च इतश्च धावताम् ?॥१.१५७॥
🌼
प्रतिपदार्थः--
सन्तोषामृततृप्तानां ~ सन्तोषः एव अमृतं, तेन तृप्तानाम् इत्यर्थः = आनन्दभावेन सन्तुष्टानाम् ; शान्तचेतसां = प्रशान्तं चित्तं येषां तेषां ; सुखं = धनलुब्धानाम् = वित्तेन आकृष्टानां ; इतश्च इतश्च धावताम् = दिशं विना धावन्ति ये तेषां॥१.१५७॥
🌻
तात्पर्यम्--
ये सन्तोषकारणात् तृप्तिभावयुक्ताः, येषां मनांसि शान्तानि भवन्ति, ते नन्दन्ति। तादृशं नन्दनं द्रविणलोलुपानां, दिशाहीनं गच्छतां न भवति ॥१.१५७॥
🌿
हिन्द्यर्थः--
सन्तोषरूपी अमृत से तृप्त एवं शान्त चित्तवालों को जो सुख है, वह सुख धन के लोभ से इधर-उधर दौड़ने वाला को कहाँ से हो सकता है? ॥१.१५७॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.156

🌷
मूलम्--
सर्वाः सम्पत्तयस्तस्य सन्तुष्टं यस्य मानसम् ।
उपानद्गूढपादस्य ननु चर्मावृतेव भूः ॥१.१५६॥

🌺
पदविभागः--
सर्वाः सम्पत्तयः तस्य सन्तुष्टं यस्य मानसम् । उपानद्-गूढ-पादस्य ननु चर्म-आवृता इव भूः ॥१.१५६॥
🌸
अन्वयः--
यस्य मानसं सन्तुष्टं तस्य सर्वाः सम्पत्तयः (भवन्ति) । (अत्रोदहरणम्) ननु उपानद्गूढपादस्य भूः चर्मावृता इव ॥१.१५६॥
🌼
प्रतिपदार्थः--
सम्पत्तयः = धनानि ; सन्तुष्टं = तृप्तियुतं ; मानसम् = चित्तम् ; उपानद्गूढपादस्य = पादुकाबद्धपादस्य ; चर्मावृतेव = चर्मास्तृतेव ; भूः = (कण्टकादियुतापि) धरित्री निष्कण्टकैव ॥१.१५६॥
🌻
तात्पर्यम्--
यस्य मनः सन्तृप्तं भवति, तस्य सविधे सर्वविधसम्पदाः भवन्ति। यस्य पादयोः पादरक्षे भवतः, तस्मै भूमिः चर्मणा आवृता इव निष्कण्टका भवति॥१.१५६॥
🌿
हिन्द्यर्थः--
जिसका मन सन्तुष्ट है, उसके पास सब सम्पत्ति है । जैसे जिस मनुष्य के पैर में जूता है, उसके लिये मानो सब पृथ्वी ही चर्म से अच्छा दिए है ॥१.१५६॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.155

🌷
मूलम्--
धनलुब्धो ह्यसन्तुष्टोऽनियतात्माजितेन्द्रियः ।
सर्वा एवापदस्तस्य यस्य तुष्टं न मानसम् ॥१.१५५॥

🌺
पदविभागः--
धनलुब्धः हि असन्तुष्टः अनियतात्मा अजितेन्द्रियः । सर्वाः एव आपदः तस्य यस्य तुष्टं न मानसम् ॥१.१५५॥
🌸
अन्वयः--
धनलुब्धः हि असन्तुष्टः अनियतात्मा अजितेन्द्रियः सर्वाः एव आपदः तस्य यस्य मानसं तुष्टं न (भवति) ॥१.१५५॥
🌼
प्रतिपदार्थः--
धनलुब्धः = वित्ते दत्तैकचित्तः, धनलोभाक्रान्तः ; हि = निश्चयेन ; असन्तुष्टः = सन्तोषरहितः ; अनियतात्मा = यः स्ववशे नास्ति, चञ्चलमानसः ; अजितेन्द्रियः = इन्द्रियाणि यस्य स्वामिनः भवन्ति ; सर्वाः एव आपदः = समस्तविधाः विपत्तयः ; मानसं तुष्टं न = अन्तः सन्तुष्टिः नास्ति ॥१.१५५॥
🌻
तात्पर्यम्--
यः वित्तसक्तः, सन्तोषहीनः, अवशात्मा, अवशेन्द्रियः अथवा , नियमनरहितः, अतुष्टमनाः भवति- तस्य सर्वाः विपत्तयः भवन्ति ॥१.१५५॥
🌿
हिन्द्यर्थः--
जो मनुष्य धन का लोभी, असंतोषी, चञ्चल चित्तवाला, इन्द्रियों के वश में रहनेवाला है, तथा जिसका मन सन्तुष्ट नहीं है, ऐसे मनुष्य को सब प्रकार की आपत्तियों आकर घेर लेती हैं ॥१.१५५॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.154

🌷
मूलम्--
लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् ।
तृषार्तो दुःखमाप्नोति परत्रेह च मानवः ॥१.१५४॥

🌺
पदविभागः--
लोभेन बुद्धिः चलति लोभः जनयते तृषाम् । तृषार्तः दुःखम् आप्नोति परत्र इह च मानवः ॥१.१५४॥
🌸
अन्वयः--
लोभेन बुद्धिः चलति । लोभः तृषां जनयते । तृषार्तः मानवः परत्र इह च दुःखम् आप्नोति ॥१.१५४॥
🌼
प्रतिपदार्थः--
लोभेन = अत्याकाङ्क्षया ; बुद्धिः चलति = मतिः नश्यति ; तृषाम् = तृष्णाम् ; तृषार्तः = तृष्णया आर्दितः, धनादितृष्णया आकुलः ; मानवः = मनुष्यः ; परत्र = परलोके ; इह = अस्मिन्लोके ; दुःखम् आप्नोति = पीडाम् अनुभवति ; ॥१.१५४॥
🌻
तात्पर्यम्--
(लोभात् काः हानयः भवन्तीति उच्यते-) अतिस्पृहया मतिभ्रमः भवति । अत्यभिलाषेण अतिलिप्सा जायते । तृष्णायुक्तः इहलोके परलोके च खेदमनुभवति । ॥१.१५४॥
🌿
हिन्द्यर्थः--
लोभ से मनुष्य की बुद्धि चञ्चल हो जाती है, और लोभ से मनुष्य को तृष्णा उत्पन्न होती है और तृष्णा से ही मनुष्य इस लोक में तथा परलोक में भी दुःख पाता है ॥१.१५४॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.153

🌷
मूलम्--
रोगी चिरप्रवासी परान्नभोजी परावसथशायी ।
यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥१.१५३॥

🌺
पदविभागः--
रोगी चिर-प्रवासी पर-अन्न-भोजी पर-आवसथ-शायी । यत् जीवति तत् मरणं यत् मरणं सः अस्य विश्रामः ॥१.१५३॥
🌸
अन्वयः--
रोगी चिरप्रवासी परान्नभोजी परावसथशायी । यत् जीवति तत् मरणं यत् मरणं सः अस्य विश्रामः ॥१.१५३॥
🌼
प्रतिपदार्थः--
रोगी = आतुरः ; चिरप्रवासी = अधिकसमयं यावत् अन्यदेशो यः निवसति ; परान्नभोजी = अन्येषां गृहे यः भोजनं गृह्णाति ; परावसथशायी = परगृहे यः शेते ; यज्जीवति तन्मरणं = तस्य जीवनं मरणतुल्यम् ; यन्मरणं सोऽस्य विश्रामः = मरणञ्च तस्य क्लेशनिर्मोक्षः ॥१.१५३॥
🌻
तात्पर्यम्--
[एतेषां चतुर्णां स्थितिः मृत्युतुल्या भवति इति उच्यते] रोगग्रस्तः, अधिककालं यावत् विदेशनिवासी, यः परेषाम् अन्नं खादति, परगृहे यः निद्राति- एतेषां जीवनं मृत्युतुल्यम्। मृत्युं प्राप्नुवन्ति, तेनैव समस्याविरामः भवति ॥१.१५३॥
🌿
हिन्द्यर्थः--
रोगी, सदा परदेश रहने वाले दूसरे का अन्न खाने वाले, और दूसरे के घर में रहनेवाले-पुरुष का जीवन तो मरने के तुल्य है, और उसका मरना उसके लिए विश्राम के ही समान है। अर्थात् जीने से उसका मरना ही अच्छा है ॥१.१५३॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.152

🌷
मूलम्--
पल्लवग्राहि पाण्डित्यं क्रयक्रीतञ्च मैथुनम्।
भोजनञ्च पराधीनं तिस्रः पुंसां विडम्बनाः ॥१.१५२॥

🌺
पदविभागः--
पल्लव-ग्राहि पाण्डित्यं, क्रयक्रीतं च मैथुनम्। भोजनं च पराधीनं, तिस्रः पुंसां विडम्बनाः ॥१.१५२॥
🌸
अन्वयः--
पाण्डित्यं पल्लवग्राहि, मैथुनं च क्रयक्रीतं, भोजनं च पराधीनं- तिस्रः पुंसां विडम्बनाः ॥१.१५२॥
🌼
प्रतिपदार्थः--
पल्लवग्राहि = अंशमात्रेण गृहीतम्, नानाशास्त्रेभ्यः कियतः अपि अंशस्य विशकलितस्य ग्रहणेन समुद्धतम् ; क्रयक्रीतं = वेश्यादितो भाटकेन लब्धम् ; मैथुनं = सुरतम् ; भोजनम् = अन्नग्रहणम् ; पराधीनं = स्ववशात् बहिः ; पुंसां = मनुष्याणाम् ; विडम्बनाः = कदर्थनानि, उपहासायैव ॥१.१५२॥
🌻
तात्पर्यम्--
(अत्र विडम्बनाजनकविषयाः त्रयः उक्ताः) अपूर्णा विद्वत्ता लेशमात्रं ज्ञानं वा, (वाराङ्गनायै पण्यस्त्रियै वा) धनं दत्त्वा उपभुक्तं रतिसुखं, अन्येभ्यः करणीयम् अशनं च प्रतारणकराः विषयाः एते त्रयः॥१.१५२॥
🌿
हिन्द्यर्थः--
क्यों कि-पल्लवग्राही पाण्डित्य-(थोडा थोडा सब कुछ पढ़ना, परन्तु किसी विषय को पूरा पूरा न जानना), द्रव्य देकर मैथुन करना, दूसरे के अधीन होकर पेट पालना (भोजन करना) ये तीनों बातें तो अत्यन्त कष्ट देने बाली और उपहासास्पद ही हैं, अर्थात् निस्सार (व्यर्थ) ही है ॥१.१५२॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.151

🌷
मूलम्--
सेवेव मानमखिलं ज्योत्स्नेव तमो जरेव लावण्यम् ।
हरिहरकथेव दुरितं गुणशतमप्यर्थिता हरति ॥१.१५१॥

🌺
पदविभागः--
सेवा इव मानम् अखिलं ज्योत्स्ना इव तमः जरा इव लावण्यम् । हरिहर-कथा इव दुरितं गुण-शतम् अपि अर्थिता हरति ॥१.१५१॥
🌸
अन्वयः--
सेवा अखिलं मानम् इव, ज्योत्स्ना तमः इव, जरा लावण्यम् इव, हरिहरकथा दुरितम् इव- अर्थिता गुणशतम् अपि हरति ॥१.१५१॥ 🌼
प्रतिपदार्थः--
सेवा = भृत्यकार्यम् ; मानम् = आत्मगौरवभावः ; अखिलं = सर्वम् ; हरति = न्यूनीकरोति ; जोत्स्ना = चन्द्रकान्तिः ; तमः = अन्धकारम् ; हरति = नाशयति ; जरा = वृद्धावस्था ; लावण्यं = सौन्दर्यम् ; हरति = अल्पीकरोति; हरिहरकथा = भगवत्कीर्तनम् ; दुरितं = पापं ; हरति = अपाकरोति ; अर्थिता = याच्ञा ; गुणशतम् अपि = अनुन्तान् अपि गुणान् ; हरति = विलोपयति ; ॥१.१५१॥
🌻
तात्पर्यम्--
सेवनं पूर्णं स्वाभिमानं लोपयति । चन्द्रिका तिमिरस्य अन्तं करोति । वार्धक्यं सुन्दरतां तनूकरोति । ईश्वरप्रसङ्गश्रवणं, चिन्तनं च अघं विनाशयति । तथैव याचना निखलान् अपि सद्गुणान् विलोपयति ॥१.१५१॥
🌿
हिन्द्यर्थः--
जैसे दूसरे की सेवा मान को, प्रकाश अन्धकार को, वृद्धता सौन्दर्य को और भगवत्कथा पाप को हरण करती है, वैसे ही याचना (माँगना) भी मनुष्यों के सभी गुणों को हर लेती है, (वह सभी गुणों का नाश कर देती है) ॥१.१५१॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.150

🌷
मूलम्--
वरं शून्या शाला न च खलु वरो दुष्टवृषभो
वरं वेश्या पत्नी न पुनरविनीता कुलवधूः ।
वरं वासोऽरण्ये न पुनरविवेकाधिपपुरे
वरं प्राणत्यागो न पुनरधमानामुपगमः ॥१.१५०॥

🌺
पदविभागः--
वरं शून्या शाला न च खलु वरः दुष्ट-वृषभः वरं वेश्या पत्नी न पुनः अविनीता कुलवधूः ।वरं वासः अरण्ये न पुनः अविवेक-अधिप-पुरे वरं प्राण-त्यागः न पुनः अधमानाम् उपगमः ॥१.१५०॥
🌸
अन्वयः--
शून्या शाला वरं, दुष्ट-वृषभः न च खलु वरः । वेश्या पत्नी वरं, अविनीता कुलवधूः न पुनः । अरण्ये वासः वरं, अविवेक-अधिप-पुरे न पुनः । प्राण-त्यागः वरं, अधमानाम् उपगमः न पुनः ॥१.१५०॥
🌼
प्रतिपदार्थः--
वरम् = श्रेष्ठ इत्यर्थः ; शाला = गोशाला, गृहं च ; वृषभः = गौः ; वासः = जीवनयापनाय निवासः ; अरण्ये = वने ;  अविनीता = अविनम्रा ; अविवेकाधिपपुरे = विवेकशून्यः यः नरपतिः तस्य नगर्याम् ; उपगमः = याच्ञा ; अधमानां = नीचानाम् ॥१.१५०॥
🌻
तात्पर्यम्--
(अत्र श्रेष्ठवस्तूनि, तदितराणि कतिपयानि अधमवस्तूनि च विवृतानि) गोशाला रिक्ता भवेत् इति तद्वरं, किन्तु अनियतः वृषः न भवेत्। वाराङ्गना वा भार्या युक्ता स्यात् किन्तु कुलाङ्गना यदि विनयशीला नास्ति, तत् न युज्यते। यत्र अवेविकी अधिपः वर्तते तत्र निवासात् कानने आवासः योग्यः । खलानां समीपं गमनात् मृत्युरेव श्रेयः॥१.१५०॥
🌿
हिन्द्यर्थः--
गोशाला का सूना रहना अच्छा है, परन्तु उनमें दुष्ट बैल रखना अच्छा नहीं है । वेश्या को पत्नी रूप से रख लेना अच्छा है, परन्तु कुलीन स्त्री यदि दुश्चरित्रा हो, तो वह अच्छा नहीं । वन में रहना अच्छा है, परन्तु अविवेकी राजा के राज्य में रहना अच्छा नहीं । प्राण का त्याग कर देना कहीं अच्छा है, परन्तु नीचो, की सेवा और उनका संग-साथ कभी अच्छा नहीं है ॥१.१५०॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.149

🌷
मूलम्--
वरं मौनं कार्यं न च वचनमुक्तं यदनृतं
वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् ।
वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचि-
र्वरं भिक्षाशित्वं न च परधनास्वादनसुखम् ॥१.१४९॥
🌺
पदविभागः--
वरं मौनं कार्यं न च वचनम् उक्तं यद् अनृतं वरं क्लैब्यं पुंसां न च पर-कलत्र-अभिगमनम् । वरं प्राण-त्यागः न च पिशुन-वाक्येषु अभिरुचिः वरं भिक्षाशित्वं न च परधन-आस्वादन-सुखम् ॥१.१४९॥
🌸
अन्वयः--
मौनं कार्यं वरं, यद् अनृतं (तद्) वचनम् उक्तं न च। पुंसां क्लैब्यं वरं, पर-कलत्र-अभिगमनं न च । प्राण-त्यागः वरं, पिशुन-वाक्येषु अभिरुचिः न च । भिक्षाशित्वं वरं, परधन-आस्वादन-सुखं न च ॥१.१४९॥
🌼
प्रतिपदार्थः--
वरं = उत्तमम् ; मौनं कार्यं = तूष्णीभावस्य आचरणम् ; वचनं = वाणी ; अनृतं = मिथ्या ; क्लैब्यं = नपुंसकता ; परकलत्राभिगमनम् = परदाराणां प्रति असाधुवाञ्छा, तदाचरणं च ; प्राणत्यागः = जीवनस्य समापनम् ; पिशुनवाक्येषु = अनुपस्थितौ निन्दासु, दुर्जनखलवचनेषु ; अभिरुचिः=आदरः ; भिक्षाशित्वं = भिक्षाभोजनस्वीकारः ; परधनास्वादनसुखम् = परेषां धनस्य उपभोगे लम्पटता ॥१.१४९॥
🌻
तात्पर्यम्--
(अस्मिन् पद्ये श्रेष्ठाचारस्य कीर्तनं, तदितरस्य गर्हिताचरणस्य निन्दा च कृता ।) असत्यवचनात् न किमपि उक्तमेव साध्वाचारः । अन्येषां पत्नीषु आसक्तेः नपुंसकत्वमेव उत्तमम् । कस्यचित् अनुपस्थितौ दुर्वचनानां प्रयोगात् मृत्युरेव आचरणीयः । अन्येषां धनमुपयुज्य उपभोगेच्छया भिक्षाटनं साधुकार्यम्  ॥१.१४९॥
🌿
हिन्द्यर्थः--
चुप रहना कहीं अच्छा है, परन्तु मू बोलना अच्छा नहीं।  नपुंसकता अच्छा है, परन्तु परस्त्रीगमन अच्छा नहीं । मर जाना अच्छा है परन्तु दुष्ट व निन्दक के वचन में विश्वास करना अच्छा नहीं । भिक्षा माँगकर खाना अच्छा है, परन्तु क्रूर के धन पर आनन्द (मौज) करना कभी अच्छा नहीं है ॥१.१४९॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.148

🌷
मूलम्--
दारिद्र्याद्ध्रियमेति ह्रीपरिगतः सत्त्वात् परिभ्रश्यते
निःसत्त्वः परिभूयते परिभवान्निर्वेदमापद्यते ।
निर्विण्णः शुचमेति शोकनिहतो बुद्ध्या परित्यज्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥१.१४८॥

🌺
पदविभागः--
दारिद्र्याद् ह्रियम् एति ह्रीपरिगतः सत्त्वात् परिभ्रश्यते निःसत्त्वः परिभूयते परिभवान् निर्वेदम् आपद्यते । निर्विण्णः शुचम् एति शोक-निहतः बुद्ध्या परित्यज्यते निर्बुद्धिः क्षयम् एति अहो निधनता सर्व-आपदाम् आस्पदम् ॥१.१४८॥
🌸
अन्वयः--
दारिद्र्याद् ह्रियम् एति । ह्रीपरिगतः सत्त्वात् परिभ्रश्यते । निःसत्त्वः परिभूयते । परिभवान् निर्वेदम् आपद्यते । निर्विण्णः शुचम् एति । शोकनिहतः बुद्ध्या परित्यज्यते । निर्बुद्धिः क्षयम् एति । अहो निधनता सर्वापदाम् आस्पदम् ॥१.१४८॥
🌼
प्रतिपदार्थः--
दारिद्र्याद् = निर्धनत्वात् । ह्रियं = लज्जाम्। ह्रीपरिगतः = लज्जितः ; सत्त्वात् = शक्त्या, बलात्, ओजसः, पौरुषात्, धैर्याच्च ; परिभ्रश्यते = तेजसा विहीनो भवति ; निस्सत्त्वः = शक्तिहीनः ; परिभूयते = तिरस्क्रियते ; निर्वेदं = ग्लानिम्. मनस्तापञ्च ; आपद्यते = स्थितिं प्राप्नोति ; निर्विण्णः = खिन्नः ; शुचं= शोकम् ; एति = गच्छति ; शोकनिहतः = व्याकुलः ; बुद्ध्या = मत्या ; परित्यज्यते = त्यक्तो भवति ; निर्बुद्धिः = बुद्धिहीनः ; क्षयं = विनाशम् ; निधनता = निर्धनता, दरिद्रता ; सर्वापदां = सकलविपत्तीनाम् ; आस्पदं = स्थानम्, कारणञ्च ॥१.१४८॥
🌻
तात्पर्यम्--
(अस्मिन् पद्ये दरिद्रतायाः नरः परम्पराशृङ्खलया कां स्थितिम् आप्नोतीति दर्शयति) निर्धनः जनः लज्जामनुभवति, ततः कान्तिहीनः, ततः पराभवभाक् च भवति। तेन खेदं, ततश्च शोकं, पुनः बुद्धिहीनतां च समाप्नोति। अहो, वित्तहीनः सर्वदा आपद्भिः एव परिवृत्तो भवति ॥१.१४८॥
🌿
हिन्द्यर्थः--
दरिद्रता से मनुष्य लज्जित सा हो जाता है । लज्जित मनुष्य तेज से हीन हो जाता है! तेजहीन मनुष्य का सर्वत्र निरादर होता है। अनादर से खेद (उदासी) होता है । खिन्न मनुष्य शोक से व्याप्त हो जाता है । शोक ग्रस्त मनुष्य की बुद्धि नष्ट हो जाती है । और बुद्धिहीन मनुष्य का नाश निश्चित है । अतः दरिद्रता ही सब आपत्तियों का आधार स्थान (स्थ कारण) है ॥१.१४८॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.147

🌷
मूलम्--
वरं विभवहीनेन प्राणैः सन्तर्पितोऽनलः ।
नोपचारपरिभ्रष्टः कृपणः प्रार्थितो जनः ॥१.१४७॥

🌺
पदविभागः--
वरं विभव-हीनेन प्राणैः सन्तर्पितः अनलः । न उपचार-परिभ्रष्टः कृपणः प्रार्थितः जनः ॥१.१४७॥
🌸
अन्वयः--
विभवहीनेन प्राणैः सन्तर्पितः अनलः वरम्।  उपचारपरिभ्रष्टः कृपणः प्रार्थितः जनः (इति) न (वरम्) ॥१.१४७॥
🌼
प्रतिपदार्थः--
वरम् = श्रेष्ठम् ; विभवहीनेन = धनरहितेन पुंसा ; अनलः = वह्निः ; प्राणैः = जीवितेन ; सन्तर्पितः = तृप्तिं कारितः, वह्वौ शरीरं हुतं चेत् ; वरं = किञ्चित् श्रेष्ठम् ; उपचारपरिभ्रष्ठः = सत्कारवर्जितः ; कृपणो जनः = कदर्यः ;  प्रार्थितः=याचितः ; ॥१.१४७॥
🌻
तात्पर्यम्--
(अस्मिन् श्लोके निर्धनस्य मनुष्यस्य दुःस्थितिः वर्ण्यते-) सद्भावनारहितस्य परमलुब्धस्य पुरतः गत्वा याचनात् वरमिदं यत् धनहीनः वह्नौ स्वस्य शरीरं त्यजेत् ॥१.१४७॥
🌿
हिन्द्यर्थः--
दरिद्र मनुष्य अपने प्राण को अग्नि में समर्पण कर दे, तो वह बहुत अच्छा है। परन्तु विचार शून्य कृपण मनुष्यों से प्रार्थना करना (उनसे भिक्षा माँगना) यह तो अच्छा नहीं हैं ॥१.१४७॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.146

🌷
मूलम्--
कुसुमस्तबकस्येव द्वे वृत्ती तु मनस्विनः ।
सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वनेऽथवा ॥१.१४६॥
🌺
पदविभागः--
कुसुमस्तबकस्य इव द्वे वृत्ती तु मनस्विनः । सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वने अथवा ॥१.१४६॥
🌸
अन्वयः--
कुसुमस्तबकस्य इव द्वे वृत्ती तु मनस्विनः । सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वने अथवा ॥१.१४६॥
🌼
प्रतिपदार्थः--
कुसुमस्तबकस्य इव=पुष्पगुच्छकस्य इव ; वृत्ती = व्यवस्थिती ; मनस्विनः = मानधनिनः ; मूर्ध्नि = शिरसि ; विशीर्येत = म्लायेत् ; वने = अरण्ये ;  ॥१.१४६॥
🌻
तात्पर्यम्--
पुष्पमालेव उत्तममनस्काः द्वौ मार्गौ एव सरन्ति। सा यद्वा जनानां शिरसि तिष्ठति, नो चेत् वने म्लानीभवति । (तथैव मानिनः सर्वेषां हृदये स्थिताः नो चेत् जनसमाजात् बहिरेव भवन्ति)॥१.१४६॥
🌿
हिन्द्यर्थः--
फूल के गुच्छे की तरह मनस्वी मनुष्य की भी दो ही वृत्तियाँ होती हैं। या तो वह सब के (शिर के) ऊपर ही रहता है, अथवा वह वन में ही पड़ा-पड़ा नष्ट हो जाता है ॥१.१४६॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.145

🌷
मूलम्--
मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति ।
अपि निर्वाणमायाति नानलो याति शीतताम् ॥१.१४५॥

🌺
पदविभागः--
मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणम् आयाति न अनलः याति शीतताम् ॥१.१४५॥
🌸
अन्वयः--
मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणम् आयाति न अनलः याति शीतताम् ॥१.१४५॥
🌼
प्रतिपदार्थः--
मनस्वी = उन्नतचेतः ; कामं = इच्छया ; म्रियते=स्वप्राणान् जहाति ; कार्पण्यं = दैन्यम् ; गच्छति, आयाति, याति = स्थितिं प्राप्नोति ; निर्वाणं = शान्तिम् ; शीततां = शैत्यम् ; अनलः = वह्निः ॥१.१४५॥
🌻
तात्पर्यम्--
मानधनी नरः इच्छापूर्वकं मरणं प्राप्नोति किन्तु दीनस्थितिं न आप्नोति । (अस्योदाहरणम्) अनलः अन्ततो गत्वा उपशाम्यति किन्तु शीतो न भवति॥१.१४५॥
🌿
हिन्द्यर्थः--
मनस्वी मनुष्य मर भले ही जाता है, परन्तु वह किसी के सामने दीनता कभी नहीं प्रगट करता है। देखो, अग्नि बुझ तो जरूर जाता है, परन्तु वह कभी शीतल नहीं होता है ॥१.१४५॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.144

🌷
मूलम्--
अत्यन्तविमुखे दैवे व्यर्थे यत्ने च पौरुषे ।
मनस्विनो दरिद्रस्य वनादन्यत् कुतः सुखम् ॥१.१४४॥

🌺
पदविभागः--
अत्यन्त-विमुखे दैवे व्यर्थे यत्ने च पौरुषे । मनस्विनः दरिद्रस्य वनाद् अन्यत् कुतः सुखम् ॥१.१४४॥
🌸
अन्वयः--
दैवे अत्यन्तविमुखे (सति) यत्ने पौरुषे च व्यर्थे (सति) मनस्विनः दरिद्रस्य वनाद् अन्यत् कुतः सुखम् ॥१.१४४॥
🌼
प्रतिपदार्थः--
दैवे = अदृष्टे ; अत्यन्तं विमुखे = नितरां प्रतिकूले सति ; यत्ने = प्रयत्ने च ; पौरुषे = बले च ; व्यर्थे = व्यर्थतां गते सति ; मनस्विनः = मानधनस्य, उन्नतचित्तस्य ; दरिद्रस्य = धनहीनस्य ; वनाद् अन्यत् = स्वदेशं विहाय वनगमनं विना ; कुतः सुखं = क्व सुखं स्यात् ॥१.१४४॥
🌻
तात्पर्यम्--
यदा भाग्यं विमुखं, यदा आत्मबलः, प्रयत्नश्च व्यर्थतां यातः- तदानीम् उत्तममनसः वित्तहीनस्य वनं विहाय क्व सुखम्? नैव कुत्रापि सुखमित्यर्थः ॥१.१४४॥
🌿
हिन्द्यर्थः--
जब विधाता प्रतिकूल हो और जब सब यत्न भी निष्फल हो जाए, तो निर्धन मनस्वी मनुष्य के लिये वन को छोड़कर और काहाँ सुख हो सकता है ? अर्थात् इसे देश छोड़कर अन्यत्र कहीं वनमें चला जाना चाहिए ॥१.१४८॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.143

🌷
मूलम्--
आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् ।
तपो दानापमानञ्च नव गोप्यानि यत्नतः ॥१.१४३॥

🌺
पदविभागः--
आयुः वित्तं, गृहच्छिद्रं, मन्त्रमैथुनभेषजं, तपः, दानापमानं च नव गोप्यानि यत्नतः ॥१.१४३॥
🌸
अन्वयः--
यत्नतः गोप्यानि नव – आयुः, वित्तं, गृहच्छिद्रं, मन्त्रमैथुनभेषजं, तपो, दानापमानं च ॥१.१४३॥
🌼
प्रतिपदार्थः--
आयुः = जीवितकालः ; वित्तं = धनम् ; गृहच्छिद्रं = गृहे भवानि दुश्चरितानि ;  मन्त्रमैथुनभेषजम् = मन्त्रसुरतभेषजानि ; तपः = व्रतपूर्वकप्रयत्नः, दीक्षा ; दानम् = धनादीनां समर्पणम् ; अपमानञ्चेति = पराभवः च इति ; नव गोप्यानि = रहसि स्थाप्यानि, न प्रकाशनीयानि ॥१.१४३॥
🌻
तात्पर्यम्--
(मनुष्येन कतिपय विषयाः न प्रकटनीयाः, क्वचिदपि कस्यचित् अपि पुरतः न वक्तव्याः । ते) प्रयत्नपूर्वकं गोप्यविषयाः नव सन्ति- वयः, वेतनं, गेहे दोषाः, मन्त्रदीक्षादिकं, रतिसुखप्रस्तावः, औषधं, तपस्या, वित्ताद्यर्पणं चेति ॥१.१४३॥
🌿
हिन्द्यर्थः--
आयु, धन, गृह का कलंक, मन्त्र, मैथुन, औषध, तप, दान और अपमान, इन नौ बातों को सदा बहुत सावधानी से छिपाना चाहिए ॥१.१४३॥
🙏