Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.16



मूलम्-
दाने तपसि शौर्ये च यस्य न प्रथितं यशः ।
विद्यायामर्थलाभे च मातुरुच्चार एव सः॥१६॥
पदविभागः-
दाने तपसि शौर्ये च यस्य न प्रथितं यशः । विद्यायाम् अर्थलाभे च मातुः उच्चारः एव सः॥१६॥
अन्वयः-
दाने तपसि शौर्ये च विद्यायाम् अर्थलाभे च यस्य यशः न प्रथितं, सः मातुः उच्चारः एव ॥१६॥
प्रतिपदार्थः-
दाने = धनादिवितरणे ; 
तपसि = धर्माचरणादौ ; 
शौर्ये = वीरत्वे ; 
विद्यायाम् = ज्ञाने ; 
अर्थलाभे = धनोपार्जने ; 
यस्य = पुंसः ;  
यशः = कीर्तिः ;  
न प्रथितं = न प्रसृतम् ; सः ; 
मातुः = जनन्याः ; 
उच्चारः = विष्टा, मलं ; 
एव = मात्रम् ॥१६॥
तात्पर्यम्-
धनादिवितरणे, धर्माचरणादौ, वीरत्वे, ज्ञाने, धनोपार्जने यस्य पुंसः कीर्तिः न प्रसृतम्, सः जनन्याः  विष्ठामात्रम् । नासौ पुत्रः केषामपि उपयोगाय भवति। तस्य जन्म वृथा भवतीति अभिप्रायः ॥१६॥

No comments:

Post a Comment