मूलम्-
सुजीर्णमन्नं सुविचक्षणः सुतः
सुशासिता स्त्री नृपतिः सुसेवितः ।
सुचिन्त्य चोक्तं सुविचार्य यत् कृतं
सुदीर्घकालेऽपि न याति विक्रियाम् ॥१.२२॥
पदविभागः-
सुजीर्णम् अन्नं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः
। सुचिन्त्य च उक्तं सुविचार्य यत् कृतं सुदीर्घ-काले अपि न याति विक्रियाम् ॥१.२२॥
अन्वयः-
सुजीर्णम् अन्नं, सुविचक्षणः सुतः, सुशासिता स्त्री,
सुसेवितः नृपतिः, सुचिन्त्य च उक्तं, सुविचार्य यत् कृतं, (तत्) सुदीर्घ-काले अपि विक्रियाम्
न याति ॥१.२२॥
प्रतिपदार्थः-
सुजीर्णं = सुपक्वम् ; सुविचक्षणः = नितरां शिक्षितो विद्वान् ; सुतः = पुत्रः ; सुशासिता = सुष्ठु आत्मना अनुशासिता,
आत्मनः वशे या अस्ति, सा; सुदीर्घकालेऽपि = गतेऽपि बहुतिथे काले ; विक्रियां =
विकारम्। न याति = विकृतं न भवति ॥१.२२॥
तात्पर्यम्-
भोजनं सुपक्वं, पुत्रः कार्याकार्यविचारशीलः, आत्मनः अनुशासनेन सन्मार्गगामिनी स्त्री, मन्त्रि-सेनापत्यादिभिः
सम्यक् अनुगतः राजा, विचार्य उक्तं वचनं, कृतं कार्यं च एतानि सर्वाणि बहुकालानन्तरमपि दुष्टानि न भवन्ति।
No comments:
Post a Comment