Friday, June 10, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.21

मूलम्-
स हि गगनविहारी कल्मषध्वंसकारी
दशशतकरधारी ज्योतिषां मध्यचारी ।
विधुरपि विधियोगाद् ग्रस्यते राहुणासौ
लिखितमपि ललाटे प्रोज्झितुं कः समर्थः ॥१.२१॥

पदविभागः-
सः हि गगन-विहारी कल्मष-ध्वंस-कारी दश-शतकर-धारी ज्योतिषां मध्यचारी । विधुः अपि विधि-योगाद् ग्रस्यते राहुणा असौ लिखितम् अपि ललाटे प्रोज्झितुं कः समर्थः ॥१.२१॥

अन्वयः-
सः (विधुः) हि गगन-विहारी, कल्मष-ध्वंस-कारी, दश-शतकर-धारी, ज्योतिषां मध्यचारी, (अस्ति, तथापि तादृशः) असौ विधुः अपि विधि-योगाद् राहुणा ग्रस्यते । ललाटे लिखितम् अपि प्रोज्झितुं कः समर्थः ॥१.२१॥

प्रतिपदार्थः-
सः = त्रिलोकीप्रसिद्धः ; गगन-विहारी = आकाश-सञ्चारी ; कल्मष-ध्वंस-कारी = अन्धकार-विनाशकः ; दशशत-कर-धारी = सहस्र-किरणः ; ज्योतिषां = ताराणां ; मध्यचारी = मध्यवर्ती ; असौ विधुरपि = चन्द्रोऽपि ; विधियोगात् = दैवविपर्ययात् ; ग्रस्यते = गृह्यते ; राहुणा = ग्रहविशेषेण ; लिखितं = विधात्रा लिखितम् ; ललाटे = फालभागे ; प्रोज्झितुं = त्यक्तुं, परिहर्तुं, पारं गन्तुं ॥१.२१॥

तात्पर्यम्-
चन्द्रः आकाशे विहरति, तमः विनाशयति, अनन्तकिरणान् धरति, ताराणां मध्ये भ्रमति। तथापि सः राहुग्रहेण प्रतिगृह्यते। भाग्यं अतिक्रान्तुं कः वा शक्नोति? 💥

No comments:

Post a Comment