Friday, June 10, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.24



मूलम्-
शङ्काभिः सर्वमाक्रान्तमन्नं पानं च भूतले ।
प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा ? ॥१.२४॥

पदविभागः-
शङ्काभिः सर्वम् आक्रान्तम् अन्नं पानं च भूतले । प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा ? ॥१.२४॥

अन्वयः-
भूतले सर्वम् अन्नं पानं च शङ्काभिः आक्रान्तम् । कुत्र प्रवृत्तिः कर्तव्या? कथं नु वा जीवितव्यं? ॥१.२४॥

प्रतिपदार्थः-
भूतले = लोके ; सर्वं = अशेषं ; अन्नं = भक्ष्यम्, भोजनम् ; पानं = पातुं योग्यं पदार्थं जलादिः ; शङ्काभिः = (अत्र भोजन-सम्बन्धि-शङ्काः इति) वात-पित्त-कफादि-जन्य-रोगादि-शङ्काभिः ; आक्रान्तं = व्यापृतं ; कुत्र = कस्मिन् भोज्ये पदार्थे ; प्रवृत्तिः कर्तव्या = (अत्र) खादितव्यम् ; कथं नु = केन प्रकारेण? ; जीवितव्यम् = लोके स्थातव्यम् ;॥१.२४॥

तात्पर्यम्-
जगति यत्किञ्चित् खाद्यं, पानयोग्यं च वस्तु वर्तते, तत् समस्तं (वस्तुनः गुण-प्रभावादिषु) नानाविधसन्देहैः आपृतं वर्तते। (अनेन कारणेन) किं खादनीयं, किं न (इति भ्रान्ताः), कथं वा जीवनयात्रां यापयाम इति (विचारयामश्च)।

हितोपदेश-सुभाषित-श्लोकाः - 1.23



मूलम्-
वृद्धानां वचनं ग्राह्यमापत्काले ह्युपस्थिते ।
सर्वत्रैवं विचारे च भोजनेऽप्यप्रवर्तनम्** ॥१.२३॥

पदविभागः-
वृद्धनां वचनं ग्राह्यम् आपत्-काले हि उपस्थिते । सर्वत्र एवं विचारे च भोजने अपि अप्रवर्तनम् ॥१.२३॥

अन्वयः-
वृद्धानां वचनं आपत्-काले हि उपस्थिते ग्राह्यम् । सर्वत्र एवं विचारे च भोजने अपि अप्रवर्तनम् ॥१.२३॥

प्रतिपदार्थः-
ग्राह्यं = स्वीकार्यम् ; आपत्काले = विपत्तिसमये ; उपस्थिते = प्राप्ते सति ; सर्वत्र = सर्वेषु कार्येषु ; एवं विचारे = वृद्धवचनानुसारेणैव सुविचार्यैव प्रवृत्तौ तु ; अप्रवर्तनम् = अप्रवृत्तिः स्यादित्यर्थः ; 'विचारेणेति पाठान्तरम् ॥१.२३॥

तात्पर्यम्-
यदा विपत्तिः सम्भवति, तदा एव ज्येष्ठानाम् उपदेशकथनानुसारम् आचरणीयम्। अन्यथा- यत्रकुत्रचित् तेषाम् उपदेशनेनैव कार्ये प्रवर्ते इति विचिन्तनेन भोजनमपि न खादेत्॥ [**अस्मात् वाक्यात् पूर्वं कपोतः सदर्पमाह- इत्यस्ति। दर्पस्यात्र सन्दर्भः। अतः दर्पवन्तः एवं विचिन्तयन्ति  इति यावत् ग्राह्यमत्र।]

हितोपदेश-सुभाषित-श्लोकाः - 1.22



मूलम्-
सुजीर्णमन्नं सुविचक्षणः सुतः
सुशासिता स्त्री नृपतिः सुसेवितः ।
सुचिन्त्य चोक्तं सुविचार्य यत् कृतं
सुदीर्घकालेऽपि न याति विक्रियाम् ॥१.२२॥

पदविभागः-
सुजीर्णम् अन्नं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः । सुचिन्त्य च उक्तं सुविचार्य यत् कृतं सुदीर्घ-काले अपि न याति विक्रियाम् ॥१.२२॥

अन्वयः-
सुजीर्णम् अन्नं, सुविचक्षणः सुतः, सुशासिता स्त्री, सुसेवितः नृपतिः, सुचिन्त्य च उक्तं, सुविचार्य यत् कृतं, (तत्) सुदीर्घ-काले अपि विक्रियाम् न याति ॥१.२२॥

प्रतिपदार्थः-
सुजीर्णं = सुपक्वम् ; सुविचक्षणः = नितरां शिक्षितो विद्वान् ; सुतः = पुत्रः ; सुशासिता = सुष्ठु आत्मना अनुशासिता, आत्मनः वशे या अस्ति, सा; सुदीर्घकालेऽपि = गतेऽपि बहुतिथे काले ; विक्रियां = विकारम्। न याति = विकृतं न भवति ॥१.२२॥

तात्पर्यम्-
भोजनं सुपक्वं, पुत्रः कार्याकार्यविचारशीलः, आत्मनः अनुशासनेन सन्मार्गगामिनी स्त्री, मन्त्रि-सेनापत्यादिभिः सम्यक् अनुगतः राजा, विचार्य उक्तं वचनं, कृतं कार्यं च एतानि सर्वाणि बहुकालानन्तरमपि दुष्टानि न भवन्ति।