Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.119

🌷
मूलम्--
अदृष्टिदानं कृतपूर्वनाशनम्
अमाननं दुश्चरितानुकीर्तनम् ।
कथाप्रसङ्गेन च नामविस्मृति-
र्विरक्तभावस्य जनस्य लक्षणम् ॥१.११९॥

🌺
पदविभागः--
अदृष्टिदानं कृतपूर्व-नाशनम् अमाननं दुश्चरित-अनुकीर्तनम् । कथा-प्रसङ्गेन च नाम-विस्मृतिः विरक्त-भावस्य जनस्य लक्षणम् ॥१.११९॥
🌸
अन्वयः--
विरक्त-भावस्य जनस्य लक्षणम्- अदृष्टिदानं, कृतपूर्व-नाशनम्, अमाननं, दुश्चरित-अनुकीर्तनम्, कथा-प्रसङ्गेन च नाम-विस्मृतिः (इति)॥१.११९॥
🌼
प्रतिपदार्थः--
अदृष्टिदानम् = अविलोकनम् ; कृतपूर्वनाशनम् = पूर्वोपकारादि-अचिन्तनम् ; अमाननम् = तिरस्कारः, सत्काराभावश्च ; दुश्चरितानुकीर्तनम् = दोषवर्णनम् ; कथाप्रसङ्गेन = कथावसरेणापि ; नामविस्मृतिः = नाम-अस्मरणम् ; विरक्तभातस्य = विरक्तस्य ; जनस्य = मनुष्यस्य ; लक्षणम् = सङ्केतः॥१.११९॥
🌻
तात्पर्यम्--
यः पूर्वानुरागी, अधुना रागरहितः विरक्तश्च सञ्जातः तस्य लक्षणानि एवं सन्ति- सः सहृदं न पश्यति । पूर्वकृतं सर्वं विस्मरति । मित्रं पराभवति । आचरितानां दोषानां वर्णनं करोति । वार्ताप्रसङ्गे नाम अपि विस्मरति ॥१.११९॥
🌿
हिन्द्यर्थः--
असन्तुष्ट होकर देखना, पूर्वकृत कार्यों (उपकारों) को भूल जाना, सत्कार न करना, दोषों को प्रकट करना, अक्सर (मौके) पर नाम तक भी भूल जाना, वे सब विरक्त मनुष्य के लक्षण है ॥१.११९॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.118

🌷
मूलम्--
मुखं प्रसन्नं विमला च दृष्टिः
कथानुरागो मधुरा च वाणी ।
स्नेहोऽधिकः सम्भ्रमदर्शनं च
सदानुरक्तस्य जनस्य लक्ष्म ॥१.११८॥

🌺
पदविभागः--
मुखं प्रसन्नं विमला च दृष्टिः कथानुरागः मधुरा च वाणी । स्नेहः अधिकः सम्भ्रम-दर्शनं च सदा अनुरक्तस्य जनस्य लक्ष्म ॥१.११८॥
🌸
अन्वयः--
सदा अनुरक्तस्य जनस्य लक्ष्म (इत्थं भवति)- प्रसन्नं मुखं, विमला च दृष्टिः, कथानुरागः, मधुरा च वाणी, अधिकः स्नेहः, सम्भ्रम-दर्शनं च ॥१.११८॥
🌼
प्रतिपदार्थः--
मुखं = वदनं ; प्रसन्नं = सन्तुष्टियुक्तं ; विमला = स्वच्छा, रागशून्या ; दृष्टिः = दर्शनम् ; कथानुरागः = वार्ताश्रवणादरः ; मधुरा वाणी = श्रवणानन्दकरी वाक् ; स्नेहः = सुहृद्भावः ; सम्भ्रमर्दनं = आगमने सत्कारादिषु च त्वरादर्शनम् ; सदा = नित्यं ; अनुरक्तस्य = प्रीतिभावयुक्तस्य ; लक्ष्म = लक्षणम् ॥१.११८॥
🌻
तात्पर्यम्--
यः सदा अनुरागयुक्तः भवति तस्य लक्षणानि उच्यन्ते- तद्वदनम् आनन्दितं, दृष्टिः स्वच्छा च भवति । तस्मिन् सुहृदः वार्तां श्रोतुम् उत्साहः दृश्यते । तस्य वाक् मधुरा । अधिकं सुहृद्भावं च दर्शयति । मित्रे आगते सति सानन्दाश्चर्यं दर्शयति ॥१.११८॥
🌿
हिन्द्यर्थः--
प्रसन्न मुख, विमल नेत्र, बातों में प्रेम, मधुर वाणी, अधिक स्नेह, आने पर संभ्रम से (हडबडाकर, उत्सुकतापूर्वक) देखना- ये सब अनुरक्त मनुष्यों के लक्षण हैं ॥१.११८॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.117

🌷
मूलम्--
उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः ।
पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥१.११७॥

🌺
पदविभागः--
उत्तमस्य अपि वर्णस्य नीचः अपि गृहम् आगतः । पूजनीयः यथायोग्यं सर्व-देवमयः अतिथिः ॥१.११७॥
🌸
अन्वयः--
उत्तमस्य अपि वर्णस्य नीचः अपि गृहम् आगतः । पूजनीयः यथायोग्यं सर्व-देवमयः अतिथिः ॥१.११७॥
🌼
प्रतिपदार्थः--
उत्तमस्य वर्णस्य = ब्राह्मण-क्षत्रियादेः अपि ; नीचोऽपि = शूद्रादिरपि ; गृहम् = स्वनिवासम् ; आगतः = मेलनाय समागतः ; पूजनीयः = सत्कारयोग्यः ; यतायोग्यं = यावच्छक्ति ; सर्वदेवमयः = सकलदेवस्वरूपः ; सः = अतिथिः ॥१.११७॥
🌻
तात्पर्यम्--
अग्रवर्णस्य गृहम् आयातः अनत्यवर्णस्थोऽपि यावच्छक्ति पूज्यः एव। (तिरस्कारः न कार्यः। सत्कारः एव कार्यः) यतो हि गृहमायातः यः कोपि भवतु स देवस्वरूपः भवति (अनेन वर्णव्यवस्था काचित् वृत्तिकार्यालयव्यवस्था इव आसीदिति ज्ञायते) ॥१.११७॥
🌿
हिन्द्यर्थः--
और उत्तम वर्ण (ब्राह्मण आदि) के घर पर यदि अपने से नीच (क्षत्रिय वैश्य या शूद्र आदि) भी कोई आवे तो भी उसकी भी यथायोग्य पूजा करनी चाहिए, क्यों कि अतिथि में सब देवताओं का निवास रहता है ॥१.११७ ॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.116

🌷
मूलम्--
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥१.११६॥

🌺
पदविभागः--
गुरुः अग्निः द्विजातीनां वर्णानां ब्राह्मणः गुरुः । पतिः एकः गुरुः स्त्रीणां सर्वत्र अभ्यागतः गुरुः ॥१.११६॥
🌸
अन्वयः--
गुरुः अग्निः द्विजातीनां वर्णानां ब्राह्मणः गुरुः । पतिः एकः गुरुः स्त्रीणां सर्वत्र अभ्यागतः गुरुः ॥१.११६॥
🌼
प्रतिपदार्थः--
द्विजातीनां = ब्राह्मणादीनां त्रैवर्णिकानाम् ; अग्निः = वैश्वानरः ; गुरुः पूज्यः ; वर्णानां = ब्राह्मणादीनां चतुर्णा वर्णानां ; गुरुः = श्रेष्ठः ; एकः = केवलः, नान्यः ; स्त्रीणां = पत्नीसम्बन्धेन नारीणां ; सर्वस्य = सर्वस्यापि लोकस्य ; अभ्यागतः = आह्वानेन गृहमागतः ; गुरुः = सत्कारार्हः॥१.११६॥
🌻
तात्पर्यम्--
कस्य कस्य कः कः पूज्यः इति कीर्तयति- चतुर्षु वर्षेणु प्रथमत्रयेभ्यः अग्निः आराध्यः। सर्ववर्णास्थेभ्यः ब्राह्मणः सत्क्रियार्हः। स्त्रीणां कृते पतिः एव गुरुः। समस्तलोकाय अतिथिः पूज्यः भवति॥१.११६॥
🌿
हिन्द्यर्थः--
अग्नि- द्विजाति (ब्राह्मण, क्षत्रिय, वैश्य इन तीनों) का गुरु (पूज्य) हैं । वर्णों (ब्राह्मण क्षत्रिय, वैश्य, शूद्र इन चारों को, ब्राह्मण गुरु हैं । स्त्री का पति ही गुरु है और अभ्यागत (अतिथि) सभी का गुरु है ॥१.११६॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.115

🌷
मूलम्--
बालो वा यदि वा वृद्धो युवा वा गृहमागतः ।
तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः ॥१.११५॥

🌺
पदविभागः--
बालः वा यदि वा वृद्धः युवा वा गृहम् आगतः । तस्य पूजा विधातव्या सर्वत्र अभ्यागतः गुरुः ॥१.११५॥
🌸
अन्वयः--
गृहम् आगतः यदि बालः वा, वृद्धः वा, युवा वा, तस्य पूजा विधातव्या। अभ्यागतः सर्वत्र गुरुः ॥१.११५॥
🌼
प्रतिपदार्थः--
गृहम् = निवासस्थानम् ; आगतः = आयातः ; यदि = चेत् ; बालः = अल्वयस्कः ; वृद्धः = अधिकायुः ; युवा = युवकः ; पूजा = स्वागतसत्कारपूर्वक-वस्तुप्रदानादिभिः युक्तः समुचितव्यवहारः ; विधातव्या = कर्तव्या ; अभ्यागतः = विशेषेण गृहमागतः ; सर्वत्र = यत्र क्वचिदपि ; गुरुः = पूज्यः, सद्व्यवहारार्हः ॥१.११५॥
🌻
तात्पर्यम्--
गेहमागतः यः कोपि भवतु सः सत्कारार्हः एव। तस्य आदरः एव विहितव्यः। यतो हि सः सर्वेषां गौरवयोग्यो भवति॥१.११५॥
🌿
हिन्द्यर्थः--
बालक, या वृद्ध, या जवान कोई भी हो, वह यदि अपने घर पर आजाये तो उसका भोजन आदि से सत्कार और अतिथिपूजन अवश्य करना चाहिए, क्योंकि- अतिथि सबका पूज्य है ॥१.११५॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.114

🌷
मूलम्--
तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् ।
ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी ॥१.११४॥

🌺
पदविभागः--
तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् । ऋणदाता च वैद्यः च श्रोत्रियः सजला नदी ॥१.११४॥
🌸
अन्वयः--
मित्र ! यत्र चतुष्टयं नास्ति तत्र न वस्तव्यम् - ऋणदाता च वैद्यः च श्रोत्रियः सजला नदी ॥१.११४॥
🌼
प्रतिपदार्थः--
मित्र = हे सुहृत् ; न वस्तव्यं = निवासः न कार्यः ; चतुष्टयम् = चत्वारः ; ऋणदाता = यः धनं ददाति उपयोगाय, पुनः प्रत्यर्पणाय ; वैद्यः = चिकित्सकः ; श्रोत्रियः = वेदपारगः ब्राह्मणः, सजला नदी = जलपूर्णा नदी ॥१.११४॥
🌻
तात्पर्यम्--
हे सुहृत्, यत्र एते चत्वारः न भवन्ति, तत्र वासः न कार्यः- ऋणं ददाति यः, रोगनिवारकः, वेदज्ञः, जलयुक्ता नदी च ॥१.११४॥
🌿
हिन्द्यर्थः--
हे मित्र- जहाँ ऋणदाता धनी, वैद्य, श्रोत्रिय (वैदिक विद्वान्) और जल से पूर्ण नदी, ये चार चीज़े नहीं हों, वहाँ कभी नहीं रहना चाहिए ॥१.११४॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.113

🌷
मूलम्--
लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता ।
पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥१.११३॥

🌺
पदविभागः--
लोकयात्रा भयं लज्जा दाक्षिण्यं त्याग-शीलता । पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥१.११३॥
🌸
अन्वयः--
लोकयात्रा, भयं, लज्जा, दाक्षिण्यं, त्याग-शीलता (च इति) पञ्च यत्र न विद्यन्ते तत्र संस्थितिं न कुर्यात् ॥१.११३॥
🌼
प्रतिपदार्थः--
लोकयात्रा = जीवनोपायः ; भयं = राज-लोक-धर्म-भयम् ; लज्जा = लोके पापमाचरामः तेन जनाः निन्देयुः इति भीतिपूर्वका व्रीडा ; दाक्षिण्यं = अनुकूलता ; त्यागशीलता = निःस्वार्थबुद्धिः ; संस्थितिं = वासम् ॥१.११३॥
🌻
तात्पर्यम्--
यस्मिन् प्रदेशे एते पञ्च न वर्तन्ते, तत्र निवासः न कार्यः- जीविकायाः मार्गः, असाध्वाचरणेन भीतिः, लोकतः ह्री, कार्यानुकूलता, स्वार्थराहित्यं च ॥१.११३॥
🌿
हिन्द्यर्थः--
और जिस देश में जीविका का साधन, लोकभय, लोकलज्जा, सरलता, त्याग, (उदारता) ये पाँच बातें न हों, वहाँ कभी नहीं रहना चाहिए ॥१.११३॥
🙏