Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.48


मूलम्

मांसमूत्रपुरीषास्थिपूरितेऽस्मिन् कलेवरे ।

विनश्वरे विहायास्थां यशः पालय मित्र मे ॥१.४८॥



पदविभागः--

मांस-मूत्र-पुरीष-अस्थि-पूरिते अस्मिन् कलेवरे । विनश्वरे विहाय आस्थां यशः पालय मित्र मे ॥१.४८॥



अन्वयः--

मित्र, अस्मिन् मांस-मूत्र-पुरीष-अस्थि-पूरिते विनश्वरे कलेवरे, आस्थां विहाय मे यशः पालय ॥१.४८॥



प्रतिपदार्थः--

मित्र = हे सुहृत् ;
मांसं = पिशितम् ;
मूत्रं = मेहनम्
;
पुरीषं = विष्ठा ;
अस्थि = कीकसम् ;
निर्मिते = विरचिते
, परिपूर्णे च ;
विनश्वरे = विनाशशीले ;
कलेवरे = शरीरे
;
आस्थां = आलम्बनं, आदरं वा ;
मे यशः = मम कीर्तिम्
;
पालय = रक्ष ; ॥१.४८॥



तात्पर्यम्--

हे सखे, कायः विण्मूत्रादिना निर्मितः अशाश्वतः। अतः त्वं (तत् परित्यज्य) मम अपेक्षां विहाय (शाश्वतस्थायिनं) ख्यातिं अव॥१.४८॥

हितोपदेश-सुभाषित-श्लोकाः - 1.47



मूलम्--
विना वर्तनमेवैते न त्यजन्ति ममान्तिकम् ।
तन्मे प्राणव्ययेनापि जीवयैतान् ममाश्रितान् ॥१.४७॥

पदविभागः--
विना वर्तनम् एव एते न त्यजन्ति मम अन्तिकम् । तत् मे प्राण-व्ययेन अपि जीवय एतान् मम आश्रितान् ॥१.४७॥

अन्वयः--
एते वर्तनं विना एव न मम अन्तिकं न त्यजन्ति । तत् एतान् मम आश्रितान् मे प्राण-व्ययेन अपि जीवय ॥१.४७॥

प्रतिपदार्थः--
वर्त्तनं = जीविकां, वेतनं ;
विनैव = (वेतनादिग्रहणं) विनाऽपि ;
मम अन्तिकं = मत्सान्निध्यं ;
न त्यजन्ति = न परिहरन्ति ;
तत् = तस्मात् ;
प्राण-व्ययेनापि = मत्प्राणोपयोगेन अपि
;
जीवय = पाशच्छेदेन एनान् परिपालय ॥१.४७॥

तात्पर्यम्--
(कपोतानां कथायां मूषकेन कपोत राजा इत्थं वदति-) एतेभ्यः कपोतेभ्यः मासिकभृतिः कापि न दीयते, तथापि एते सदा मम सन्निधावेव वसन्ति, मां न परित्यजन्ति। अतः मम प्राणः अपगच्छेत् तथापि इमान् मम अधीने स्थितान् पूर्वं रक्ष- इति॥१.४७॥ 

हितोपदेश-सुभाषित-श्लोकाः - 1.45



मूलम्--
धनानि जीवितञ्चैव परार्थे प्राज्ञ उत्सृजेत् ।
सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥१.४५॥

पदविभागः--
धनानि जीवितं च एव परार्थे प्राज्ञः उत्सृजेत् । सन्निमित्ते वरं त्यागः विनाशे नियते सति ॥१.४५॥

अन्वयः--
प्राज्ञः धनानि जीवितं च एव परार्थे उत्सृजेत् । विनाशे नियते सति सन्निमित्ते त्यागः वरम् ॥१.४५॥

प्रतिपदार्थः--
प्राज्ञः = विद्वान् ;
जीवितं = प्राणान्
;
परार्थे = परोपकाराय ;
उत्सृजेत् = दद्यात्
;
विनाशे = मरणे ;
नियते = निश्चिते सति
;
सन्निमित्ते = सत्कार्यसिद्धये
, परोपकाराय ;
त्यागः = प्राणपरित्यागः ;
वरं = किञ्चित् श्रेष्ठः ॥१.४५॥

तात्पर्यम्--
बुधजनः परेषामुपयोगाय वित्तं जीवनं चार्पयति। नाशनमेव यदि (अशाश्वतेऽस्मिन्) लोके नियमः भवति, तर्हि सत्कार्याचरणार्थं धनप्राणयोः उपयोगः एव श्रेष्ठः॥१.४५॥