Friday, June 10, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.21

मूलम्-
स हि गगनविहारी कल्मषध्वंसकारी
दशशतकरधारी ज्योतिषां मध्यचारी ।
विधुरपि विधियोगाद् ग्रस्यते राहुणासौ
लिखितमपि ललाटे प्रोज्झितुं कः समर्थः ॥१.२१॥

पदविभागः-
सः हि गगन-विहारी कल्मष-ध्वंस-कारी दश-शतकर-धारी ज्योतिषां मध्यचारी । विधुः अपि विधि-योगाद् ग्रस्यते राहुणा असौ लिखितम् अपि ललाटे प्रोज्झितुं कः समर्थः ॥१.२१॥

अन्वयः-
सः (विधुः) हि गगन-विहारी, कल्मष-ध्वंस-कारी, दश-शतकर-धारी, ज्योतिषां मध्यचारी, (अस्ति, तथापि तादृशः) असौ विधुः अपि विधि-योगाद् राहुणा ग्रस्यते । ललाटे लिखितम् अपि प्रोज्झितुं कः समर्थः ॥१.२१॥

प्रतिपदार्थः-
सः = त्रिलोकीप्रसिद्धः ; गगन-विहारी = आकाश-सञ्चारी ; कल्मष-ध्वंस-कारी = अन्धकार-विनाशकः ; दशशत-कर-धारी = सहस्र-किरणः ; ज्योतिषां = ताराणां ; मध्यचारी = मध्यवर्ती ; असौ विधुरपि = चन्द्रोऽपि ; विधियोगात् = दैवविपर्ययात् ; ग्रस्यते = गृह्यते ; राहुणा = ग्रहविशेषेण ; लिखितं = विधात्रा लिखितम् ; ललाटे = फालभागे ; प्रोज्झितुं = त्यक्तुं, परिहर्तुं, पारं गन्तुं ॥१.२१॥

तात्पर्यम्-
चन्द्रः आकाशे विहरति, तमः विनाशयति, अनन्तकिरणान् धरति, ताराणां मध्ये भ्रमति। तथापि सः राहुग्रहेण प्रतिगृह्यते। भाग्यं अतिक्रान्तुं कः वा शक्नोति? 💥

Tuesday, May 24, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.20



मूलम्-
सर्वस्य हि परीक्ष्यन्ते स्वभावो नेतरे गुणाः ।
अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥१.२०॥

पदविभागः-
सर्वस्य हि परीक्ष्यन्ते स्वभावः न इतरे गुणाः । अतीत्य हि गुणान् सर्वान् स्वभावः मूर्ध्नि वर्तते ॥१.२०॥

अन्वयः-
सर्वस्य हि स्वभावः (परीक्ष्यते) न इतरे गुणाः परीक्ष्यन्ते । सर्वान् गुणान् अतीत्य हि स्वभावः मूर्ध्नि वर्तते ॥१.२०॥

प्रतिपदार्थः-
सकलस्यापि = गुणिनः, निर्गुणस्य वा, स्वभावाः = प्रकृतिः, संस्कारादयः ; इतरे = विद्वत्त्-औदार्य- कुशलत्वादयः गुणाः ; 'न परीक्ष्यन्ते' इति शेषः ; कुत एतदत आह- अतीत्येति ; सर्वान् गुणान् = सल्लक्षणान् ; अतीत्य = अतिक्रम्य ; स्वभावः = प्रकृतिरेव ;मूर्ध्नि = सर्वेषां गुणानामुपरि, वर्तते = प्रभवतीत्यर्थः ॥१.२०॥

तात्पर्यम्-
सर्वेषां मनुष्याणां स्वभावः परीक्ष्यते। इतरे गुणाः न परीक्ष्यन्ते। सर्वान् गुणान् अतिक्रम्य स्वभावः शिरःस्थायी विराजते।

Sunday, May 22, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.18

मूलम्-
अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया ।
दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥१.१८॥

पदविभागः-
अवश-इन्द्रिय-चित्तानां हस्ति-स्नानम् इव क्रिया । दुर्भग-आभरण-प्रायः ज्ञानं भारः क्रियां विना ॥१.१८॥

अन्वयः-
अवश-इन्द्रिय-चित्तानां क्रिया हस्ति-स्नानम् इव । क्रियां विना ज्ञानं भारः। दुर्भग-आभरण-प्रायः। ॥१.१८॥

प्रतिपदार्थः-
अवशेन्द्रिय-चित्तानां ~ अवशानि इन्द्रियाणि, चित्तं च येषान्ते, तेषाम्-अवशेन्द्रिय-चित्तानाम् = निरवग्रहेन्द्रिय-स्वान्तानां पुंसाम् ; क्रिया = धर्माचरणादिकं कर्म ; हस्तिस्नानम् इव = गजस्नानमिव, निष्फलम् ; दुर्भगाया आभरणानीव- दुर्भगाभरणप्रायः = दुष्ट-दुर्भाग्य-स्त्रीधारित-भूषणवत्, ज्ञानं = विद्या ; क्रियां विना = तद्विहिताचरणं विना, भार एव ॥१.१८॥

तात्पर्यम्-
येषां चित्तं स्वाधीनं नास्ति, तैराचरितं धर्माचरणादिकं कर्म व्यर्थं भवति। यथा- गजाः स्नानं कृत्वा स्नानानन्तरमेव धूलिप्रक्षेपादिना पुनरात्मनो मलिनतामापादयन्ति। अपि च- आचरणं विना शुष्कज्ञानं भारभूतं भवति। यथा- दुर्भाग्यवत्याः स्त्रियः आभरणैः शोभा न वर्धते, केवलं भारवत्त्वमेव तथा।

[दुर्भगाधृताभरणैः पत्यादिमनोरञ्जनाऽभावाद् भारवत्तत्सर्वं तस्याः क्लेशप्रदमेव । यथा नानाभरणभूषिताऽपि खलु वन्ध्या, दुष्टा कुरूपा वा स्त्री न शोभते, न वा सा पत्युर्मनः प्रीणाति, एवं ज्ञानवानपि तदुक्ताचारशून्यो नैव शोभते, इत्याशयः । अत्र प्रायश्शब्दो बाहुल्येऽव्ययम्। अकारान्तो वा प्रायशब्दः पुंसि । दुर्भगाया भरणं पालन, तत्तुल्यं निष्फलमिति वाऽर्थः।]☘