Tuesday, May 17, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.16




मूलम्-
दातव्यमिति यद् दानं दीयतेऽनुपकारिणि ।
देशे काले च पात्रे च तद्दानं सात्त्विकं विदुः ॥१.१६॥

पदविभागः-
दातव्यम् इति यद् दानं दीयते अनुपकारिणि । देशे काले च पात्रे च तद् दानं सात्त्विकं विदुः ॥१.१६॥

अन्वयः-
यद् दानं अनुपकारिणि ‘दातव्यम्’ इति देशे काले च पात्रे च दीयते, तद् सात्त्विकं दानं विदुः ॥१.१६॥

प्रतिपदार्थः-
दातव्यमिति = मया अवश्यमिदं कस्मैचन सत्पात्राय देयम् ; इति = इति बुद्ध्या ; दीयते = अर्पयते ; अनुपकारिणि = यस्मिन् पुरुषे आत्मनः लाभप्रत्यपेक्षा नास्ति, यस्मात् न किमपि स्वार्थं न साध्यते ; देशे = तीर्थादौ, सुक्षेत्रेषु ; काले = सूर्येन्दुग्रहणादौ, सत्काले ; पात्रे = योग्ये, सत्पात्रे, विदुषि ; (यद्दानं दीयते) तत् सात्त्विकमित्यन्वयः ॥१.१६॥

तात्पर्यम्-
‘मया अवश्यं कस्मैचन सत्पात्राय धनं देयम्’ इति (निःस्वार्थबुद्ध्या) प्रतिफलानापेक्षया साधुस्थले, साधुकाले, साधुपुरुषाय दत्तं दानं सात्विकं दानमिति व्यपदिश्यते॥🌻

हितोपदेश-सुभाषित-श्लोकाः - 1.15



मूलम्-
दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् ।
व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥१.१५॥

पदविभागः-
दरिद्रान् भर कौन्तेय मा प्रयच्छ ईश्वरे धनम् । व्याधितस्य औषधं पथ्यं नीरुजस्य किम् औषधैः ॥१.१५॥

अन्वयः-
कौन्तेय, दरिद्रान् भर। ईश्वरे धनं मा प्रयच्छ । व्याधितस्य औषधं पथ्यं (भवति)। नीरुजस्य किम् औषधैः (प्रयोजनम्?)॥१.१५॥

प्रतिपदार्थः-
कौन्तेय = हे कुन्ती-पुत्र, युधिष्ठिर ; दरिद्रान् = धनहीनान् ; भर = पालय ; ईश्वरे = धनिनि, ऐश्वर्यवति ; धनं = वित्तं ; मा प्रयच्छ = मा देहि ;व्याधितस्य = रुग्णस्य, शरीरबाधया पीडितस्य ; पथ्यं = हितकारकम् ; नीरुजस्य = रोगशून्यस्य, स्वस्थस्य तु ; औषधैः = भैषजैः, अगदैः ; किं = किं फलं ; न किमपीत्यर्थः ॥१.१५॥

तात्पर्यम्-
हे कुन्तीपुत्र, निर्धनान् (धनेन) पोषय। यः पूर्वमेव धनवान्, तस्मै धनं मा देहि। अस्य उदाहरणं दीयते। यथा- यः रोगपीडितः सः औषधेन हितं प्राप्नोति। यः पूर्वमेव स्वस्थः तस्य औषधसेवनं कुतः?

Monday, May 16, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.14



मूलम्-
मातृवत् परदारेषु परद्रव्येषु लोष्टवत् ।
आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः ॥१.१४॥

पदाविभागः-
मातृवत् परदारेषु परद्रव्येषु लोष्टवत् । आत्मवत् सर्वभूतेषु यः पश्यति सः पण्डितः ॥१.१४॥

अन्वयः-
परदारेषु मातृवत्, परद्रव्येषु लोष्टवत्, सर्वभूतेषु आत्मवत् (च) यः पश्यति सः पण्डितः ॥१.१४॥

प्रतिपदार्थः-
परदारेषु = परकलत्रेषु, परेषां भार्याविषये ; मातृवत् = मातृभावेन यः पश्यति ; लोष्टवत् = मृत्खण्डवत्, पाषाणपिण्डवत् वा ; पश्यतीति शेषः ; पण्डितः = तत्त्वज्ञः ॥१.१४॥

तात्पर्यम्-
परनराणां पत्नीः स्वस्य जननी इति भावनया, परेषां धनानि पाषाणखण्डा इति धिया, सर्वान् प्राणिनः आत्मा इति बुद्ध्या- यः भावयति, सः विद्वान् भवति॥

हितोपदेश-सुभाषित-श्लोकाः - 1.13




मूलम्-
प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये ।
आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति ॥१.१३॥

पदविभागः-
प्रत्याख्याने च दाने च सुख-दुःखे प्रिय-अप्रिये । आत्मा-औपम्येन पुरुषः प्रमाणम् अधिगच्छति ॥१.१३॥

अन्वयः-
पुरुषः प्रत्याख्याने च दाने च सुख-दुःखे प्रिय-अप्रिये आत्मा-औपम्येन प्रमाणम् अधिगच्छति ॥१.१३॥

प्रतिपदार्थः-
प्रत्याख्याने = प्रार्थनाभङ्गे, परतिरस्कारे वा ; सुखे = सुखप्रदाने, दुःखे = क्लेशदाने, दुःखोत्पादने च । प्रिये = इष्टाचरणे, अप्रिये = अनिष्टाचरणे च ; आत्नौपम्येन = आत्मानमेव निदर्शनं कृत्वा ; प्रमाणं = निश्चयम् ; अधिगच्छति = लभते ; ॥१.१३॥

तात्पर्यम्-
परैः तिरस्कारे प्राप्ते, सुखे लब्धे, दुःखे अनुभूते वा, प्रिये घटिते, अप्रिये सम्भूते वा- किंविध अनुभवः भवतीति नरः कथं जानीयात्? तत्तदनुभवप्राप्तौ स्वस्मिन् यथा भावना जागर्ति, तथैवान्येषामपि भवतीति आत्मनः उपमानेन अवगच्छेत्। (इष्टात् सुखम् अनिष्टाद् दुःखञ्चोत्पद्यते इत्यादिकं स्वात्मौपम्येन ज्ञातुं शक्यते इति यावत्)॥

हितोपदेश-सुभाषित-श्लोकाः - 1.12




मूलम्
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ।
आत्मौपम्येन भूतानां दयां कुर्वन्ति साधवः ॥१.१२॥

पदविभागः-
प्राणाः यथा आत्मनः अभीष्टाः भूतानाम् अपि ते तथा । आत्मा-औपम्येन भूतानां दयां कुर्वन्ति साधवः ॥१.१२॥

अन्वयः-
यथा आत्मनः प्राणाः अभीष्टाः ते भूतानाम् अपि तथा । साधवः आत्मा-औपम्येन भूतानां दयां कुर्वन्ति ॥१.१२॥

प्रतिपदार्थः-
आत्मनः = स्वस्य ; अभीष्टाः = प्रियाः ; भूतानां = स्वातिरिक्तानां सर्वेषां जीवानामपि ; ते = प्राणाः ; तथा = तथैव प्रियाः ; अत आत्मौपम्येन = स्वात्मानम् उपमानं कृत्वा ; साधवः = सज्जनाः, दयालवः ; भूतानां = जीवानां, प्राणिनां ; दयां कुर्वन्ति = अनुकम्पां, करुणां, कृपां वा दर्शयन्ति॥१.१२॥

तात्पर्यम्-
यथा स्वस्य प्राणाः स्वस्य अत्यन्तमिष्टाः भवन्ति, तथैव अन्येषां जीवानामपि ते अभीप्सिता भवन्ति। अतः साधवः अन्यानपि जीवान् आत्मनः समानमेव पश्यन्ति।

Friday, May 13, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.11




मूलम्-

मरुस्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा ।

दरिद्रे दीयते दानं सफलं पाण्डुनन्दन ॥१.११॥



पदविभागः-

मरु-स्थल्यां यथा वृष्टिः क्षुधा-आर्ते भोजनं तथा । दरिद्रे दीयते दानं सफलं पाण्डु-नन्दन ॥१.११॥



अन्वयः-

पाण्डु-नन्दन, यथा मरु-स्थल्यां वृष्टिः, क्षुधा-आर्ते भोजनं, तथा दरिद्रे (यत्) दानं दीयते (तत्) सफलं (भवति) ॥१.११॥



प्रतिपदार्थः-

पाण्डुनन्दन = हे युधिष्ठिर! ; मरुस्थल्यां = मरुभूमौ, निर्जलप्रदेशे ; यथा वृष्टिः = यथा वृष्टिः सफला, नितरामुचिता ; क्षुधार्ते = बुभुक्षया पीडिताय ; तथा = तथैव ; दरिद्रे = धनहीनाय ; यद्दानं दीयते तदपि सफलमित्यन्वयः ॥१.११॥



तात्पर्यम्-

हे युधिष्ठिर, यथा जलरहितदेशे वर्षणेन वृष्टिः सफला भवति, भोजनेच्छोः अन्नदानेन क्षुधानिवारणेन च अनन्दानं सफलं भवति, तथैव निर्धनाय दत्तं दानं सफलं भवति। (जलं यत्र प्रभूतं तत्र वृष्टये न कोऽपि आर्तः। अन्नं खादित्वा यः तृप्तः तस्य अन्नस्यावश्यकता नास्ति। तथैव धनिकाय धनदानेन न लाभः। यत्र यन्नास्ति, तत्र तद्दातव्यम् इति यावत्।)