Monday, April 11, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.3



मूलम्-
शोकस्थानसहस्राणि भयस्थानशतानि च ।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥१.३॥

पदविभागः-
शोक-स्थान-सहस्राणि भय-स्थान-शतानि च । दिवसे दिवसे मूढम् आविशन्ति न पण्डितम् ॥१.३॥

अन्वयः-
शोक-स्थान-सहस्राणि भय-स्थान-शतानि च । दिवसे दिवसे मूढम् आविशन्ति। पण्डितम् न (आविशन्ति) ॥१.३॥

प्रतिपदार्थः-
शोक-स्थान-सहस्राणि = सहस्रशः शोककारणानि, शोकावसरा इत्यर्थः ; भयस्थानशतानि = शतशो भयहेतवः ; दिवसे-दिवसे = प्रतिदिनमेव ; मूढं = मूर्खमेव ; आविशन्ति = आश्रयन्ते, व्याकुलं कुर्वन्ति ; परन्तु पण्डितं = विद्वांसन्तु ; न = नैव आविशन्ति ॥१.३॥

तात्पर्यम्-
सहस्रशः शोककारणानि शतशो भयहेतवः प्रतिदिनमेव मूर्खम् व्याकुलं कुर्वन्ति ; परन्तु विद्वांसन्तु नैव पीडयन्ति ॥

Sunday, April 10, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.2

मूलम्-
असाधना वित्तहीना बुद्धिमन्तः सुहृन्मताः ।
साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत्॥१.२॥

पदविभागः-
असाधनाः वित्त-हीनाः बुद्धिमन्तः सुहृन्मताः । साधयन्ति आशु कार्याणि काक-कूर्म-मृग-आखु-वत्॥१.२॥

अन्वयः-
असाधनाः वित्त-हीनाः बुद्धिमन्तः सुहृन्मताः । काक-कूर्म-मृग-आखु-वत् आशु कार्याणि साधयन्ति ॥१.२॥

प्रतिपदार्थः-
असाधनाः = उपकरणवर्जिताः ; वित्तहीनाः = धनवर्जिताः ; (अपि-) बुद्धिमन्तः = मनीषिणः ; सुहृत्तमाः = परस्परहितैषिणः, परस्परं मित्रतां गताः सहृदयाः ; आशु = शीघ्रम् । काककूर्ममृगाखुवत् = वायस-कच्छपमूषकवत् ॥१.२॥

तात्पर्यम्-
साधनरहिताः, धनहीनाः चापि धीमन्तः, मित्रतासम्पन्नाः (ये जनाः) ते (आगामिन्यां कथायां) वायस-कच्छपमूषकवत् कार्याणि शीघ्रं साधयन्ति॥

हितोपदेश-सुभाषित-श्लोकाः - 1.1



मूलम्-
काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा॥१.१॥

पदविभागः-
काव्य-शास्त्र-विनोदेन कालः गच्छति धीमताम् । व्यसनेन तु मूर्खाणां निद्रया कलहेन वा॥१॥

अन्वयः-
धीमताम् कालः काव्य-शास्त्र-विनोदेन गच्छति । मूर्खाणां तु व्यसनेन, निद्रया कलहेन वा (गच्छति)॥१॥

प्रतिपदार्थः-
काव्यशास्त्रविनोदेन ~ काव्यञ्च शास्त्रञ्च- काव्यशास्त्रे, ताभ्यां यो विनोदस्तेन ~ यद्वा- काव्यमेव शास्त्रन्तेन विनोद इति विग्रहः = काव्यशास्त्र-पर्यालोचनेनेत्यर्थः ; धीमतां च = विदुषां ; कालः = जीवितसमयः ; गच्छति = सुखं याति ; मूर्खाणान्तु व्यसनेन = स्त्रीद्यूत-मद्यपानादिव्यसनेन ; किञ्च- निद्रया = स्वापेन ; कलहेन = विवादेन च ; कालो गच्छति ॥९॥

तात्पर्यम्-
विदुषां, विज्ञानां च जीवनसमयः सत्काव्यानां, शास्त्रविज्ञानग्रन्थानां च पठन-चर्चादिना याति। मूढजनानां कालस्तु आत्मनः अवनतिकारकैः दुर्व्यसनैः वा, शयनेन, परस्परं विवादैः वा याति।