Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.37



मूलम्-
मातापितृकृताभ्यासो गुणितामेति बालकः ।
न गर्भच्युतिमात्रेण पुत्रो भवति पण्डितः ॥३७॥
पदविभागः-
माता-पितृ-कृत-अभ्यासः गुणिताम् एति बालकः ।  न गर्भ-च्युति-मात्रेण पुत्रः भवति पण्डितः ॥३७॥
अन्वयः-
माता-पितृ-कृत-अभ्यासः बालकः गुणिताम् एति ।  गर्भ-च्युति-मात्रेण पुत्रः पण्डितः न भवति ॥३७॥
प्रतिपदार्थः-
मात्रा च पित्रा च कृतः, कारितः अभ्यासो येनासौ ~ मातापितृ-कृताऽभ्यासः = मातापितृभ्यां कारिताभ्यासः ; बालकः = पुत्रः ; गुणितां = विद्वत्त्वं, गुणवत्त्वञ्च ; एति = प्राप्नोति, लभते ; केवलं गर्भ-च्युति-मात्रेण = जन्मग्रहण-मात्रेणैव ; पुत्रः = बालकः ; पण्डितो न भवति ॥३७॥
तात्पर्यम्-
माता पिता च यं बालकं (सद्गुणानां) अभ्यासं कारयन्ति, स एव गुणी भवति। जन्मप्राप्तिमात्रेण न कोऽपि पुत्रः पण्डितः भवति। (अतः शिक्षणमावश्यकम्।) 

हितोपदेश-सुभाषित-श्लोकाः - 0.36




मूलम्-

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।

न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥३६॥


पदविभागः-

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥३६॥


अन्वयः-

उद्यमेन हि कार्याणि सिध्यन्ति। मनोरथैः न। सुप्तस्य सिंहस्य मुखे मृगाः न हि प्रविशन्ति ॥३६॥


प्रतिपदार्थः-

उद्यमेन = उद्योगेन, प्रयत्नेन ;  
सिध्यन्ति = सफलानि भवन्ति ; 
कार्याणि = उद्दिष्टानि कर्माणि ; 
मनोरथैः = कामनाभिः ;  
हि = यतः ; 
सुप्तस्य = शयितस्य (बुभुक्षितस्यापि) ;  
सिंहस्य ; मुखे= वदने ; 
मृगाः = पशवः ;  
न प्रविशन्ति = आहारो न भवन्ति ; ॥३६॥


तात्पर्यम्-

आकाङ्क्षितैः, 'ममेदं भवतु' 'सिध्यतु ममेद'मित्यादि-मनोरथमात्रेण कर्माणि न सम्पद्यन्ते । सिंहः यदा शेते, तदा (स क्षुदा पीडित इति कृत्वा स्वयमेवागत्य) जन्तवः तस्य मुखान्ते (अन्नं भूत्वा) न प्रविशन्ति ।किन्तु तदर्थं सिंहोऽपि यत्नं करोति । एवमेव सर्वैरपि यत्नो विधेयः।

हितोपदेश-सुभाषित-श्लोकाः - 0.35



मूलम्-
काकतालीयवत् प्राप्तं दृष्ट्वापि निधिमग्रतः ।
न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते॥३५॥
🌸
पदविभागः-
काक-तालीय-वत् प्राप्तं दृष्ट्वा अपि निधिम् अग्रतः । न स्वयं दैवम् आदत्ते पुरुषार्थम् अपेक्षते॥३५॥
🌹
अन्वयः-
काक-तालीय-वत् प्राप्तं निधिम् अग्रतः दृष्ट्वा अपि दैवं स्वयं न आदत्ते । पुरुषार्थम् अपेक्षते॥३५॥
🌷
प्रतिपदार्थः-
काकस्य आगमनमिव, तालस्य पतनमिव-काकतालं, काकतालमिव ~ काकतालीयं = सहसा उपनतम् ; तद्वत् = काकतालीयवत् = काकागमनेन तालपतनवद्, कस्मात्, दैववशात् ; 
प्राप्तं = लब्धं, निधिम् = शेवधिम् = (खजाने को) ; 
अग्रतः = पुरतः, दृष्ट्वापि ;  
दैवं = भाग्यं ; 
स्वयम् = स्वतः ; 
न आदत्ते = न गृह्णाति ; 
किन्तु-- आदाने-पुरुषार्थे = हस्तचालनादिकं पुरुषव्यापारम् ; 
अपेक्षते = आश्रयते एव ; 
सहायमपेक्षते एव ॥३५ ॥
🍁
तात्पर्यम्-
काकतालीयमिव (कस्यचित् मनुष्यस्य) पुरतः पतितं धनमपि भाग्येन न गृह्णाति । तदर्थमपि प्रयत्न अपेक्ष्यते। 🌻

हितोपदेश-सुभाषित-श्लोकाः - 0.34



मूलम्-

यथा मृत्पिण्डतः कर्ता कुरुते यद् यदिच्छति ।

एवमात्मकृतं कर्म मानवः प्रतिपद्यते॥३४॥


पदविभागः-

यथा मृत्पिण्डतः कर्ता कुरुते यद् यद् इच्छति । एवम् आत्मकृतं कर्म मानवः प्रतिपद्यते॥३४॥


अन्वयः-

यथा मृत्पिण्डतः कर्ता यद् यद् इच्छति (तत्तत्) कुरुते । एवम् मानवः आत्मकृतं कर्म प्रतिपद्यते॥३४॥


प्रतिपदार्थः-

यथा मृत्पिण्डतः = मृत्तिकासंघेन ;  
कर्ता = (अत्र) कुलालः ;  
यद्यत् = शरावोदञ्चन-घटादिकम् ;  
इच्छति = कर्तुं वाञ्छति ; 
तत्तत्-कुरुते = स्वप्रयत्नेन सम्पादयति ;  
एवं = पूर्वोपपादितया रीत्या ;  
मानवः = कर्ता ;  
आत्मकृतमेव = स्वयमाचरितम् ; 
कर्म = कर्मफलम् ; 
धटादिकञ्च ;  
प्रतिपद्यते = लभते, प्राप्नोति ॥३४॥


तात्पर्यम्-

यथा कुलालः मृत्तिकामुपयुज्य यद्वस्तु आवश्यकं तत् निर्माति, (कार्येषु उपयुनक्ति च) तथा मनुष्योऽपि स्वयमाचरितस्य कर्मणः एव फलं भुनक्ति।

हितोपदेश-सुभाषित-श्लोकाः - 0.33



मूलम्-

पूर्वजन्मकृतं कर्म तद् दैवमिति कथ्यते ।

तस्मात् पुरुषकारेण यत्नं कुर्यादतन्द्रितः॥३३॥


पदविभागः-

पूर्व-जन्म-कृतं कर्म तद् दैवम् इति कथ्यते । तस्मात् पुरुषकारेण यत्नं कुर्याद् अतन्द्रितः॥३३॥


अन्वयः-

पूर्व-जन्म-कृतं कर्म तद् दैवम् इति कथ्यते । तस्मात् पुरुषकारेण अतन्द्रितः यत्नं कुर्याद् ॥३३॥


प्रतिपदार्थः-

पूर्वजन्मनि = गते जन्मकाले ;  
कृतं यत्कर्म = आचरितानि कार्याणि ;  
तत् = तदेव ; 
दैवमिति कथ्यते = ‘दैवपदवाच्यम्, इतोऽन्यद्दैवं नाम किञ्चिदपि नास्ति ;  
तस्मात् = पुरुषकारेण विना दैवस्य सिद्धेरभावात् ;  
पुरुषकारेण = पुरुषार्थमास्थाय, प्रयत्नं  कृत्वा ; 
अतन्द्रितः = आलस्यवर्जितः, सावधानः सन् ;  
पुमान् = पुरुषः, मनुष्यः ;  
यत्नं कुर्यात् = उद्यमं कुर्यात्॥३३॥


तात्पर्यम्-

गते जन्मनि यद्यदाचरितं कर्म वर्तते, तदेव अस्मिन् जन्मनि भाग्यरूपेण परिणमति। अतः (पूर्वकाले वा भवतु) प्रयत्नेनैव भाग्यस्यापि कल्पितत्वात्, सावधानो भूत्वा प्रयत्नः अवश्यं करणीयः।