🌷
मूलम्--
पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् ।
स्वप्नश्चान्यगृहे वासो नारीणां दूषणानि षट् ॥१.१२६॥
🌺
पदविभागः--
पानं दुर्जन-संसर्गः, पत्या च विरहः अटनम् । स्वन्नश्चा अन्यगृहे वासः, नारीणां दूषणानि षट् ॥१.१२६॥
🌸
अन्वयः--
नारीणां दूषणानि षट् – पानं, दुर्जनसंसर्गः, पत्या च विरहः, अटनम्, अन्यगृहे स्वप्नः वासः च ॥१.१२६॥
🌼
प्रतिपदार्थः--
नारीणां = स्त्रीणां ; दूषणानि = दुष्टलक्षणानि ; पानं = मद्यपानम् ; दुर्जनसंसर्गः = दुष्टैः जनैः सह मित्रता ; पत्या = भर्त्रा ; विरहः = कोपात् दूरे वासः ; अटनं = भ्रमणम् ; अन्यगृहे = बन्धुमित्राणां, अज्ञातानां वा गेहे ; स्वप्नः = शयनम् ; ॥१.१२६॥
🌻
तात्पर्यम्--
अत्र योषितां दुर्लक्षणानि उक्तानि- मधुपानं, दुर्जनसम्पर्कः, भर्तुः दूरे स्थितिः, वृथा विचरणं, परेषां गृहेषु निद्राकरणं, दीर्घवासः चेति ॥१.१२६॥
🌿
हिन्द्यर्थः--
और भी- शराब पीना, दुष्टों का साथ, पति का विरह, इधर उधर घूमना, दूसरे के धर में रहना या सोना, अकारण हँसना, हँसी-ठट्ठा ये छः कारण स्त्रियों के दूषित होने (बिगड़ने) के होते हैं ॥१.१२६॥
🙏
हितोपदेशे स्थितानि सुभाषितानि पदविभाग-अन्वय-प्रतिपदार्थ-तात्पर्य-सहितानि। (प्रतिपदार्थमात्रे गुरुप्रसादशास्त्रिणः कृतेः साहाय्यं स्वीकृतम्)
Sunday, April 11, 2021
हितोपदेश-सुभाषित-श्लोकाः - 1.126
हितोपदेश-सुभाषित-श्लोकाः - 1.125
🌷
मूलम्--
स्वातन्त्र्यं पितृमन्दिरे निवसतिर्यात्रोत्सवे सङ्गति-
र्गोष्ठी पूरुषसन्निधावनियमो, वासो विदेशे तथा ।
संसर्गः सह पुंश्चलीभिरसकृद्वृत्तेर्निजायाः क्षतिः,
पत्युर्वार्द्धकमीषितं प्रवसनं नाशस्य हेतुः स्त्रियाः॥१.१२५॥
🌺
पदविभागः--
स्वातन्त्र्यं पितृमन्दिरे निवसतिः यात्रोत्सवे सङ्गति-गोष्ठी पूरुषसन्निधौ अनियमः, वासः विदेशे तथा । संसर्गः सह पुंश्चलीभिः असकृद् वृत्तेः निजायाः क्षतिः, पत्युः वार्द्धकम् ईर्षितं, प्रवसनं, नाशस्य हेतुः स्त्रियाः॥१.१२५॥
🌸
अन्वयः--
स्वातन्त्र्यं, पितृमन्दिरे निवसतिः, यात्रोत्सवे सङ्गतिः, गोष्ठी, पूरुषसन्निधौ अनियमः, विदेशे वासः तथा, पुंश्चलीभिः सह असकृत् संसर्गः, निजायाः वृत्तेः क्षतिः, पत्युः वार्द्धकम् ईर्षितं, प्रवसनं- स्त्रियाः नाशस्य हेतुः ॥१.१२५॥
🌼
प्रतिपदार्थः--
स्वातन्त्र्यमिति । स्वातन्त्र्यं = स्वतन्त्रता ; पितृमन्दिरे = जनकस्य गेहे ; निवसतिः = निवासः ; यात्रोत्सवे, यात्रा = ग्रामान्तरादि-गमनम्, उत्सवे = विवाहादौ ; सङ्गतिः = जनैः सह गमनम्, जनसंसर्गः ; यद्वा यात्रोत्सवे = जनमेलापके, देवयात्रादौ, विवाहादौ च, सङ्गतिः = मुहुर्यानमित्यर्थः ; पुरुषसन्निधौ = पुरुषाणां सविधे ; गोष्ठी = आसनबन्धः वार्तालापः च ; अनियमः = निरोधाभावः ; विदेशे वासः = परदेशे निवासः ; पत्युरात्मनश्चेति शेषः । पुंश्चलीभिः = दुष्टस्त्रीभिः, कुलटाभिः ; असकृत् = मुहुर्मुहुः ; संसर्गः = सम्पर्कः ; निजायाः = आत्मनः ; वृत्तेः = जीविकायाः ; क्षतिः = अभावः, विनाशश्च ; वार्धक्यं = पत्युः वृद्धावस्था ; ईर्षितं = पत्युरीर्ष्यालुत्वम्, स्वस्य वा ; प्रवसनं = पत्युर्विदेशे प्रवासः ; (पाठ. प्रहसनं = अकारणं हसणं च) स्त्रीणां = नारीणां ; नाशस्य = पतनस्य, शीलखण्डनस्य ; हेतुः = हेतवः ॥१.१२५॥
🌻
तात्पर्यम्--
योषितां शीलविनाशे हेतवः उच्यन्ते- नियन्त्रणराहित्यं, जन्मदस्य सदने (दीर्घकालं यावत्) वासः, अत्र तत्र प्रदेशान्तर-विहरणं, उत्सवमेलनादिषु (सुदीर्घकालं यावत्) विचरणं, वृथासँल्लापवर्गेषु गमनं, पुरुषैः सह समीपवर्तनं, नियमराहित्यं, विदेशवासः, दुश्चरिताभिः वनिताभिः सह मित्रता, स्वस्याः पत्युः वा जीविकायाः अभावः, भर्तुः वृद्धत्वं, धवस्य ईर्ष्यालुत्वं, स्वस्याः पत्युः वा अधिककालं यावत् देशान्तरवासः च ॥१.१२५॥
🌿
हिन्द्यर्थः--
क्यों कि- स्वतन्त्रता, पिता के घर (पीहर में) रहना, यात्रा (देवता आदि के दर्शनों के मेले एवं विवाह उत्सव इत्यादि में लोगों से मित्रता, पुरुषों के साथ में बिना रोक टोक बैठना और उनसे गप लड़ाना, किसी की रोक टोक का न रहना, विदेश में रहना, व्यभिचारिणी स्त्रियों का साथ होना, जीविका (खाने-पीने) का अभाव, पति का वृद्ध होना, पति का इर्षालु होना, और पति का परदेश में रहना,-ये सब स्त्रियों के बिगड़ने के कारण हैं ॥१.१२५॥
🙏
हितोपदेश-सुभाषित-श्लोकाः - 1.124
🌷
मूलम्--
नोपभोक्तुं न च त्यक्तुं शक्रोति विषयाञ्जरी ।
अस्थि निर्दशनः श्वेव जिह्वया लेढि केवलम् ॥१.१२४॥
🌺
पदविभागः--
न उपभोक्तुं न च त्यक्तुं शक्रोति विषयान् जरी । अस्थि निर्दशनः श्वेव जिह्वया लेढि केवलम् ॥१.१२४॥
🌸
अन्वयः--
जरी विषयान् न उपभोक्तुं (शक्नोति) न च त्यक्तुं शक्रोति । निर्दशनः श्वेव केवलम् अस्थि जिह्वया लेढि ॥१.१२४॥
🌼
प्रतिपदार्थः--
जरी = जराजीर्णो वृद्धः ; विषयान् = कान्तासुखादीन् ; उपभोक्तुम् = सुखं प्राप्तुं, आनन्दितुम् ; त्यक्तुं = परित्यक्तुं ; शक्नोति = पारयति ; निर्दशनः = दन्तविकलः ; श्वा इव = कुक्कुरवत् ; अस्थि = कीकशम् ; केवलं लेढि = जिह्वया केवलम् आस्वादयति एव ॥१.१२४॥
🌻
तात्पर्यम्--
जर्जरः नरः उपभोगवस्तूनि न च आनन्दितुं न वा हातुं पारयति। (अत्रोदाहरणम्) दन्तै विहीनः शुनकः कर्करं केवलं लिह्यति (दष्टुं न शक्नोति)॥१.१२४॥
🌿
हिन्द्यर्थः--
और वृद्ध मनुष्य न तो विषयों (स्त्री आदि) को भोग ही सकता है, और न उन्हें छोड़ ही सकता किन्तु जिस प्रकार दन्तहीन कुत्ता हड्डी को केवल जीभसे चाटता रहता है, किन्तु उसे चबा नहीं सकता है, वही दशा उस वृद्ध मनुप्य की भी होती है ॥१.१२४॥
🙏
हितोपदेश-सुभाषित-श्लोकाः - 1.123
🌷
मूलम्--
धनाशा जीविताशा च गुर्वी प्राणभृतां सदा ।
वृद्धस्य तरुणी भार्या प्राणेभ्योऽपि गरीयसी ॥१.१२३॥
🌺
पदविभागः--
धनाशा जीविताशा च गुर्वी प्राणभृतां सदा । वृद्धस्य तरुणी भार्या प्राणेभ्यः अपि गरीयसी ॥१.१२३॥
🌸
अन्वयः--
प्राणभृतां सदा धनाशा जीविताशा च गुर्वी । तरुणी भार्या वृद्धस्य प्राणेभ्यः अपि गरीयसी ॥१.१२३॥
🌼
प्रतिपदार्थः--
यद्यपि- प्राणभृतां = प्राणिनां ; धनाशा = वित्ते इच्छा ; जीविताशा = जीवनयापने आकाङ्क्षा ; सदा = तर्वदा ; गुर्वी = महती, अधिका भवति ; तथापि- वृद्धस्य = जराजीर्णस्य ; तरुणी भार्या = यौवनवती पत्नी ; तु तस्य प्राणेभ्योऽपि = प्राणानाम् अपेक्षया अपि ; गरीयसी = नितरां गुर्वी भवति ; ॥१.१२३॥
🌻
तात्पर्यम्--
यद्यपि- जीवानां द्रविणाकाङ्क्षा, आयुषि कामना च प्रबला भवति, तथापि- गतयौवनस्य प्राणेभ्यः अपि अधिका युवती कान्ता भाति ॥१.१२३॥
🌿
हिन्द्यर्थः--
क्यों कि- सभी प्राणियों को धन की आशा और जीवन की आशा (लालसा) स्वभावतः अधिक होती है । परन्तु वृद्ध पुरुष को तो अपनी युवती स्त्री अपने प्राणों से भी अधिक प्यारी होती है ॥ १.१२३ ॥
🙏
हितोपदेश-सुभाषित-श्लोकाः - 1.122
🌷
मूलम्--
पलितेषु हि दृष्टेषु पुंसः का नाम कामिता ।
भैषज्यमिव मन्यन्ते यदन्यमनसः स्त्रियः ॥१.१२२॥
🌺
पदविभागः--
पलितेषु हि दृष्टेषु पुंसः का नाम कामिता! । भैषज्यम् इव मन्यन्ते यद् अन्य-मनसः स्त्रियः ॥१.१२२॥
🌸
अन्वयः--
पुंसः (केशेषु) पलितेषु हि दृष्टेषु का नाम कामिता! यद् अन्य-मनसः स्त्रियः भैषज्यम् इव मन्यन्ते ॥१.१२२॥
🌼
प्रतिपदार्थः--
पलितेषु = शुक्लेषु केशेषु, केशशौक्ल्ये ; दृष्टेषु = जातेषु ; का नाम = का खलु ; कामिता = कामोपभोगपरायणता ; सा नैवोचिता इत्यर्थः ; यत् = यस्मात् ; अन्यमनसः = विरक्ताः, अन्यासक्ता वा ; स्त्रियः = कामिन्यः ; भैषज्यम् इव = कटुकौषधम् इव ; मन्यन्ते = भावयन्ति, ॥१.१२२॥
🌻
तात्पर्यम्--
मनुष्यस्य मूर्धजाः यदा शुक्लवर्णं प्राप्ताः, तदा का वार्ता कामभावस्य? नार्यः तादृशं पतिं परिहार्यं मन्यन्ते, अनिच्छया च तं सेवन्ते ॥१.१२२॥
🌿
हिन्द्यर्थः--
और जब पुरुष के सब बाल पक गये हों तो फिर कहो उसकी कामुकता कैसी ? अर्थात् वृद्धावस्था में कामोपभोग की इच्छा व्यर्थ है । क्यों कि- वृद्ध पुरुष की स्त्री दूसरे से आसक्त हो जाती हैं और वह अपने उस वृद्ध पति को औषध (दवा) की तरह ही कडुआ समझती है ॥१.१२२॥
🙏
हितोपदेश-सुभाषित-श्लोकाः - 1.121
🌷
मूलम्--
शशिनीव हिमार्तानां घर्मार्तानां रवाविव ।
मनो न रमते स्त्रीणां जराजीर्णेन्द्रिये पतौ ॥१.१२१॥
🌺
पदविभागः--
शशिनी इव हिमार्तानां घर्मार्तानां रवौ इव । मनः न रमते स्त्रीणां जरा-जीर्णेन्द्रिये पतौ ॥१.१२१॥
🌸
अन्वयः--
शशिनी इव हिमार्तानां घर्मार्तानां रवौ इव स्त्रीणां मनः जरा-जीर्णेन्द्रिये पतौ न रमते ॥१.१२१॥
🌼
प्रतिपदार्थः--
हिमार्तानाम्= शीतपीडितानाम् ; शशिनि = चन्द्रे ; इव = वत् ; घर्मार्तानां = ग्रीष्मोपतापतप्तानाम् ; रवौ = सूर्ये ; स्त्रीणां = नारीणां ; मनः = चित्तं ; जराजीर्णेन्द्रिये = जरया विकले इन्द्रियग्रामे ; पतौ = भर्तरि (छान्दसोऽयं प्रयोगः, पत्यौ इत्युचितम्) ; 'धवे' इति पाठान्तरम् ; न रमते = आनन्दितं न भवति ॥१.१२१॥
🌻
तात्पर्यम्--
शैत्येन पीडितानां यथा चन्द्रमसि आसक्तिः न भवति, आतपेन तप्तानाम् आदित्ये चेतः न भवति, तथैव यस्य इन्द्रियाणि जीर्णानि तादृशि वृद्धे पत्यौ नारीणां मनः रतं न भवति ॥१.१२१॥
🌿
हिन्द्यर्थः--
हिम (बर्फ़ जाड़ा) से पीडित प्राणी को चन्द्रमा अच्छा नहीं लगता है, धूप से पीडित मनुष्य को सूर्य अच्छा नहीं लगता है, वैसे ही जिस की सभी इन्द्रियों जीर्ण हो गयी हो ऐसा वृद्धपति युवति स्त्रियों को कभी अच्छा नहीं लगता है ॥१.१२१॥
🙏
हितोपदेश-सुभाषित-श्लोकाः - 1.120
🌷
मूलम्--
अकस्माद्युवती वृद्धं केशेष्वाकृष्य चुम्बति ।
पतिं निर्दयमालिङ्ग्य हेतुरत्र भविष्यति ॥१.१२०॥
🌺
पदविभागः--
अकस्माद् युवती वृद्धं केशेषु आकृष्य चुम्बति । पतिं निर्दयम् आलिङ्ग्य हेतुः अत्र भविष्यति' ॥१.१२०॥
🌸
अन्वयः--
युवती अकस्माद् वृद्धं पतिं निर्दयम् आलिङ्ग्य केशेषु आकृष्य चुम्बति, अत्र हेतुः भविष्यति' ॥१.१२०॥
🌼
प्रतिपदार्थः--
अकस्माद् = हेतुना विना, विनापि हेतोः ; युवती = तरुणी ; वृद्धं = जराजीर्णम् ; केशेषु = मूर्धजेषु ; आकृष्य = बलात् समीपमाहूय ; पतिम् = स्वामिनम् ; निर्दयम् = बलवत् ; आलिङ्ग्य = आश्लिष्य ; चुम्बति = मुखम् ओष्ठैः स्पृशति ; हेतुः = किमपि कारणम् ॥१.१२०॥
🌻
तात्पर्यम्--
यदि काचित् प्राप्तयौवना अकारणं स्थविरं भर्तारं बलेन निकटमाहूय परिष्वङ्गसहितं मुखसंयोगं करोति, तत्र अवश्यं किमपि कारणम् अवश्यं भविष्यति ॥१.१२०॥
🌿
हिन्द्यर्थः--
वृद्धपति की जवान (युवती) स्त्री सहसा अपने वृद्धपति के केशों को पकड़कर उसका गाढ़ आलिङ्गन कर उसके मुख का चुम्बन करती है, तो उसमें ज़रूर कुछ कारण होगा ॥१.१२० ॥
🙏