🌷
मूलम्--
लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता ।
पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥१.११३॥
🌺
पदविभागः--
लोकयात्रा भयं लज्जा दाक्षिण्यं त्याग-शीलता । पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥१.११३॥
🌸
अन्वयः--
लोकयात्रा, भयं, लज्जा, दाक्षिण्यं, त्याग-शीलता (च इति) पञ्च यत्र न विद्यन्ते तत्र संस्थितिं न कुर्यात् ॥१.११३॥
🌼
प्रतिपदार्थः--
लोकयात्रा = जीवनोपायः ; भयं = राज-लोक-धर्म-भयम् ; लज्जा = लोके पापमाचरामः तेन जनाः निन्देयुः इति भीतिपूर्वका व्रीडा ; दाक्षिण्यं = अनुकूलता ; त्यागशीलता = निःस्वार्थबुद्धिः ; संस्थितिं = वासम् ॥१.११३॥
🌻
तात्पर्यम्--
यस्मिन् प्रदेशे एते पञ्च न वर्तन्ते, तत्र निवासः न कार्यः- जीविकायाः मार्गः, असाध्वाचरणेन भीतिः, लोकतः ह्री, कार्यानुकूलता, स्वार्थराहित्यं च ॥१.११३॥
🌿
हिन्द्यर्थः--
और जिस देश में जीविका का साधन, लोकभय, लोकलज्जा, सरलता, त्याग, (उदारता) ये पाँच बातें न हों, वहाँ कभी नहीं रहना चाहिए ॥१.११३॥
🙏
हितोपदेशे स्थितानि सुभाषितानि पदविभाग-अन्वय-प्रतिपदार्थ-तात्पर्य-सहितानि। (प्रतिपदार्थमात्रे गुरुप्रसादशास्त्रिणः कृतेः साहाय्यं स्वीकृतम्)
Saturday, February 20, 2021
हितोपदेश-सुभाषित-श्लोकाः - 1.113
हितोपदेश-सुभाषित-श्लोकाः - 1.112
🌷
मूलम्--
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ।
पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥१.११२॥
🌺
पदविभागः--
धनिकः श्रोत्रियः राजा नदी वैद्यः तु पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥१.११२॥
🌸
अन्वयः--
धनिकः, श्रोत्रियः, राजा, नदी, पञ्चमः तु वैद्यः – (एते) पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥१.११२॥
🌼
प्रतिपदार्थः--
धनिकः = ऋणादिदाता श्रेष्ठी ; श्रोत्रियः = वेदपारगः ; राजा = परिपालकः ; नदी = नीरस्थानं, जलाशयः वा ; वैद्यः = चिकित्सकः ; पञ्च = एते पञ्च ; वासं = संस्थितिम् ॥१.११२॥
🌻
तात्पर्यम्--
यस्मिन् प्रदेशविशेषे एते उच्यमानाः पञ्च न वर्तन्ते, तस्मिन् देशे केनापि निवासः न कार्यः । ते पञ्च सन्ति- धनवान्, पुरोहितः, पालयिता, नदी सरः वा, रोगहारकश्च ॥१.११२॥
🌿
हिन्द्यर्थः--
धनी (सेठ-बोहरा), श्रोत्रिय, (वेदपाठी), राजा, नदी और वैद्य, ये पाँच जहाँ नहीं हो, वहाँ मनुष्य को एक दिन भी नहीं रहना चाहिये ॥१.११२॥
🙏
हितोपदेश-सुभाषित-श्लोकाः - 1.111
🌷
मूलम्--
यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवः ।
न च विद्यागमः कश्चित् तं देशं परिवर्जयेत् ॥१.१११॥
🌺
पदविभागः--
यस्मिन् देशे न सम्मानः न वृत्तिः न च बान्धवः । न च विद्या-आगमः कश्चित् तं देशं परिवर्जयेत् ॥१.१११॥
🌸
अन्वयः--
यस्मिन् देशे सम्मानः न, वृत्तिः न, बान्धवः च न, विद्या-आगमः च न कश्चित् (वर्तेत), तं देशं परिवर्जयेत् ॥१.१११॥
🌼
प्रतिपदार्थः--
सम्मानः = सत्कारः ; वृत्तिः = जीविका ; बान्धवाः = ज्ञातिनः, परिचिताः, मित्राणि वा ; विद्यागमः = विद्यालाभः ; परिवर्जयेत् = विमुञ्चेत् ॥१.१११॥
🌻
तात्पर्यम्--
यत्र स्वस्मै आदरभावः न वर्तते, वित्ताय कार्यनियोगः नास्ति, बन्धुजनाः न सन्ति, ज्ञानलाभः न विद्येत तस्मिन् प्रदेशविशेषे कदापि न वस्तव्यम्। त्यक्त्वा गन्तव्यम् ॥१.१११॥
🌿
हिन्द्यर्थः--
जिस देश में सम्मान न हो, कोई जीविका न हो, कोई मित्र न हो, और न किसी प्रकार की विद्या की प्राप्ति ही हो, उस देश को छोड़ देना चाहिये, उसमें कभी नहीं रहना चाहिये ॥१.१११॥
🙏
हितोपदेश-सुभाषित-श्लोकाः - 1.110
🌷
मूलम्--
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् ।
धर्मे स्वीयमनुष्ठानं कस्यचित् तु महात्मनः ॥१.११०॥
🌺
पदविभागः--
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् । धर्मे स्वीयम् अनुष्ठानं कस्यचित् तु महात्मनः ॥१.११०॥
🌸
अन्वयः--
परोपदेशे पाण्डित्यं सर्वेषां नृणां सुकरम् । धर्मे स्वीयम् अनुष्ठानं तु कस्यचित् महात्मनः ॥१.११०॥
🌼
प्रतिपदार्थः--
परोपदेशे = परशिक्षणे ; पाण्डित्यं = नैपुण्यं, विद्वत्त्वम् ; सर्वेषां नृणां = समेषां मनुष्याणां ; सुकरम् = सुलभम् ; धर्मे = कर्तव्यपालने ; स्वीयं = स्वकीयम् ; अनुष्ठानं = आचरणम् ; महात्मनः = महापुरुषस्य ॥१.११०॥
🌻
तात्पर्यम्--
अन्येषाम् उपबोधने सामान्याः सर्वे कुशलिनः । किन्तु स्वयमेव आचरणीयस्य अनुपालनं केचन उत्तमाः एव कर्तुं पारयन्ति॥१.११०॥
🌿
हिन्द्यर्थः--
क्यों कि- धर्म के विषय में दूसरे को उपदेश देने के लिये पण्डिताई दिख-लाना तो सभी के लिए सहज है, परन्तु धर्म का स्वयं आचरण तो बिरले ही महात्मा लोग किया करते हैं ॥१.११०॥
🙏
हितोपदेश-सुभाषित-श्लोकाः - 1.109
🌷
मूलम्--
चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् ।
नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥१.१०९॥
🌺
पदविभागः--
मित्र, क्व गन्तव्यम् ? तथा च उक्तम्– चलति एकेन पादेन तिष्ठति एकेन बुद्धिमान् । न असमीक्ष्य परं स्थानं पूर्वम् आयतनं त्यजेत् ॥१.१०९॥
🌸
अन्वयः--
मित्र, क्व गन्तव्यम् ? तथा च उक्तम्– बुद्धिमान् एकेन पादेन चलति एकेन तिष्ठति । परं स्थानं असमीक्ष्य पूर्वम् आयतनं न त्यजेत् ॥१.१०९॥
🌼
प्रतिपदार्थः--
बुद्धिमान् = विवेकी ; एकेन पादेन चलति = किञ्चित् अग्रे सरति ; एकेन तिष्ठति = किञ्चित् तत्रैव स्थित्वा ईक्षते ; परं = वर्तमानात् अन्यत् ; स्थानं = प्रदेशं ; असमीक्ष्य = सम्यक् अदृष्ट्वा ; पूर्वम् = वर्तमाने स्थितं ; आयतनं = स्थानम् न त्यजेत् = न मुञ्चेत् ॥१.१०९॥
🌻
तात्पर्यम्--
मतिमान् मनुष्यः सः पदमेकमग्रे न्यस्यति, पुनः अन्यत् पदं न सारयति, तत्रैव तिष्ठति। अस्य स्थानस्य त्यागात् पूर्वं यत्र गन्तव्यं तत्र समीचीनत्वं परीक्षितव्यम्। अपरीक्ष्य अधुना यदस्ति तत् विमुच्य न यातव्यम्। (विवेकशीलः अविलोक्य अविचार्य वा कार्यं न करोतीति भावः) ॥१.१०९॥
🌿
हिन्द्यर्थः--
बुद्धिमान् मनुष्य वही है, जो एक पैर से चलता है, अर्थात् एक पैर वह आगे रखता है, और एक पैर पूर्व स्थान पर ही रखे (जमाए) रहता है । इसलिए दूसरे स्थान को पहिले से निर्धारित किये बिना ही पहले स्थान को नहीं छोड़ना चाहिये॥१.१०९॥
🙏
हितोपदेश-सुभाषित-श्लोकाः - 1.108
🌷
मूलम्--
को वीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृतः
यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् ।
यद्दंष्ट्रानखलाङ्गुलप्रहरणः सिंहो वनं गाहते
तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्त्यात्मनः ॥१.१०८॥
🌺
पदविभागः--
कः वीरस्य मनस्विनः स्वविषयः कः वा विदेशः स्मृतः यं देशं श्रयते तम् एव कुरुते बाहु-प्रताप-अर्जितम् । यद् दंष्ट्रा-नख-लाङ्गुल-प्रहरणः सिंहः वनं गाहते तस्मिन् एव हत-द्विपेन्द्र-रुधिरैः तृष्णां छिनत्ति आत्मनः ॥१.१०८॥
🌸
अन्वयः--
मनस्विनः वीरस्य कः स्वविषयः, कः वा विदेशः स्मृतः? (सः) यं देशं श्रयते तम् एव बाहुप्रतापार्जितं कुरुते । यद् दंष्ट्रानख-लाङ्गुलप्रहरणः सिंहः वनं गाहते, तस्मिन् एव (वने) हतद्विपेन्द्ररुधिरैः आत्मनः तृष्णां छिनत्ति ॥१.१०८॥
🌼
प्रतिपदार्थः--
वीरस्य = शूरस्य ; मनस्विनः = धीरस्य, गम्भीराशयस्य ; स्वविषयः = (अत्र) स्वदेशः ; विदेशः = स्वदेशात् भिन्नः प्रदेशः ; स्मृतः = भावितः ; श्रयते = आश्रयते ; बाहुप्रतापार्जितम् ~ बाह्वोः-प्रतापेन अर्जितम् = भुजयोः बलेन स्वाधीनं कृतम् ; दंष्ट्रानखलाङ्गुलप्रहरणः ~ दंष्ट्राः नखाः पुच्छं च आयुधाः यस्य ; सिंहः = केसरी ; वनं = अरण्यं ; गाहते = प्रविशति ; तस्मिन्नेव = (अत्र) वने ; हतद्विपेन्द्ररुधिरैः ~ हतः द्विपेन्द्रः, तस्य रुधिराणि, तैः = व्यापादितः गजेन्द्रः तस्य रक्तैः, आत्मनः = स्वीयं ; तृष्णां = पिपासाम् अथवा बुभुक्षाम् ; छिनत्ति = अपनयति ॥१.१०८॥
🌻
तात्पर्यम्--
धैर्यशालिनः विक्रान्तस्य चिन्तने स्वदेशः कः, विदेशः कः? (कोपि भेदो न। सः सर्वत्र एकथैव तिष्ठति) यत्रापि (गच्छेत्) निवसेत्, तत्र स्वभुदोर्बलेन स्वायत्तं करोति। (अत्र उदाहरणम्) यथा सिंहः दशनरूपैः नखरूपैः, पुच्छरूपेण च आयुधैः युक्तः इव कानने निवसति, तत्रैव गजान् हत्वा तेषां शोणितेन स्वस्य बुभुक्षादिकं निवारयति। (अस्यार्थः- सिंहः स्वस्य वनं वा अपरं वनं वेति न चिन्तयति। यत्र निवासाय याति तत्रैव स्वस्याहारम् अन्विष्यति, तेन जीवति च।) ॥१.१०८॥
🌿
हिन्द्यर्थः--
और भी-वीर एवं मनस्वी पुरुष के लिये कौन अपना देश है कौन-कौन विदेश है? वह तो जिस देश में जाता है, उसी को अपने बाहुबल से अपना कर लेता है । जैसे (दाँत, नख, और पूंछ ही आयुध जिसके हैं, ऐसा वीर) सिंह जिस वन में जाता है, उसी वन में हाथियों को मारकर, उनके रुधिर से हो अपनी प्यास बुझाता है॥१.१०८॥
🙏
हितोपदेश-सुभाषित-श्लोकाः - 1.107
🌷
मूलम्--
स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः ।
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥१.१०७॥
🌺
पदविभागः--
स्थानम् उत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः । तत्र एव निधनं यान्ति काकाः कापुरुषा मृगाः ॥१.१०७॥
🌸
अन्वयः--
सिंहाः सत्पुरुषा गजाः (च) स्थानम् उत्सृज्य गच्छन्ति । काकाः कापुरुषा मृगाः (च) तत्र एव निधनं यान्ति ॥१.१०७॥
🌼
प्रतिपदार्थः--
सिंहाः = वनराजाः ; सत्पुरुषाः = सज्जनाः ; गजाः = करिणः ; स्थानं = निवासयोग्यं स्वस्थानम् ; उत्सृज्य = विहाय ; काकाः = वायसाः ; कापुरुषाः = भीरवः ; मृगाः = हरिणाः ; तत्रैव = निवास-अयोग्ये अपि स्थाने ; निधनं यान्ति = मृत्युं प्राप्नुवन्ति ॥१.१०७ ॥
🌻
तात्पर्यम्--
(यदा निवासाय अयोग्यं भवति, तदा) प्रकृतं निवासस्थानमपि केचन तत् त्यक्त्वा गच्छन्ति- यथा दन्तिनः, केसरिणः, सन्तः च। (यदा स्वस्य वासस्थानं वस्तुं न योग्यं, तदापि केचन तत् परित्यज्य न निर्गच्छन्ति, तत्कारणात्) स्वस्थाने मरणमपि प्राप्नुवन्ति- यथा काकाः, धर्यहीनाः, कुरङ्गाः च ॥१.१०७॥
🌿
हिन्द्यर्थः--
क्यों कि क्यों कि सिंह, सत्पुरुष और हाथी ये तीनों तो अपना अपना स्थान छोडकर जहाँ चाहते हैं, वहीं (अच्छे स्थान में) चले जाते हैं । परन्तु कौवा, कायर मनुष्य और मृग, ये तीनों तो अपने स्थान पर ही पड़े-पड़े मर जाते हैं ॥१.१०७॥
🙏