🌷
मूलम्--
स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः ।
इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥१.१०६॥
🌺
पदविभागः--
स्थानभ्रष्टाः न शोभन्ते दन्ताः केशाः नखाः नराः । इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥१.१०६॥
🌸
अन्वयः--
दन्ताः केशाः नखाः नराः (च) स्थानभ्रष्टाः न शोभन्ते इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥१.१०६॥
🌼
प्रतिपदार्थः--
दन्ताः = दशनाः ; केशाः = मूर्धजाः ; नखाः = अङ्गुल्यन्ताः ; नराः = मनुष्याः ; स्थानभ्रष्टाः = स्वस्थानात् चलिताः ; न शोभन्ते = शोभां, श्रियं च न लभन्ते ; इति विज्ञाय = एवं ज्ञात्वा ; मतिमान् = बुद्धिमान् ; स्वस्थानं = वर्तमानां स्वकीयां स्थितिं ; न परित्यजेत् = न मुञ्चेत् ॥१.१०६॥
🌻
तात्पर्यम्--
रदाः, शिरोजाः, नखाः, मानवाः च स्वस्मात् स्थिरस्थानात् विचलिताः न शोभन्ते इति ज्ञात्वा विवेकी कदाचित् स्वस्थानं न मुञ्चेत् ॥१.१०६॥
🌿
हिन्द्यर्थः--
दाँत, केश, नख, मनुष्य, ये चारों स्थानभ्रष्ट होने पर शोभते नहीं हैं । ऐसा विचारकर बुद्धिमान् मनुष्य को अपना स्थान कभी नहीं छोडना चाहिये॥१.१०६॥
🙏
हितोपदेशे स्थितानि सुभाषितानि पदविभाग-अन्वय-प्रतिपदार्थ-तात्पर्य-सहितानि। (प्रतिपदार्थमात्रे गुरुप्रसादशास्त्रिणः कृतेः साहाय्यं स्वीकृतम्)
Saturday, February 20, 2021
हितोपदेश-सुभाषित-श्लोकाः - 1.106
हितोपदेश-सुभाषित-श्लोकाः - 1.105
मूलम्--
मनस्यन्यद् वचस्यन्यत् कर्मण्यन्यद् दुरात्मनाम् ।
मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥१.१०५॥
🌺
पदविभागः--
मनसि अन्यद् वचसि अन्यत् कर्मणि अन्यद् दुरात्मनाम् । मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम् ॥१.१०५॥
🌸
अन्वयः--
दुरात्मनां मनसि अन्यद्, वचसि अन्यत्, कर्मणि अन्यद् (भवति) । महात्मनां मनसि एकं वचसि एकं कर्मणि एकम् (भवति)॥१.१०५॥
🌼
प्रतिपदार्थः--
मनसि = चित्ते ; वचसि = वचने ; कर्मणि = कार्याचरणे ; अन्यत् = यद् दृश्यते तस्मात् भिन्नम् ; दुरात्मनां = पापिनाम् ; महात्मनाम् = सत्पुरुषानाम् ॥१.१०५॥
🌻
तात्पर्यम्--
दुष्टानां मनसि अन्यद् भवति। ते हि अन्यया भाषन्ते । क्रियायाम् अन्यदेव आचरन्ति । महात्मनां तु यदेव मनसि, तदेव तेषां वचसि, तेषां क्रियायां च इत्यर्थः ॥१.१०५॥
🌿
हिन्द्यर्थः--
और दुर्जन लोग सोचते कुछ और है, कहते कुछ और है, करते कुछ और है । परन्तु सज्जन लोगों के मन में जो है वहीं वे कहते हैं और वही वे करते भी हैं ॥१.१०५॥
🙏
हितोपदेश-सुभाषित-श्लोकाः - 1.104
🌷
मूलम्--
अन्यथैव हि सौहार्दं भवेत् स्वच्छान्तरात्मनः ।
प्रवर्ततेऽन्यथा वाणी शाठ्योपहतचेतसः ॥१.१०४॥
🌺
पदविभागः--
अन्यथा एव हि सौहार्दं भवेत् स्वच्छ-अन्तरात्मनः । प्रवर्तते अन्यथा वाणी शाठ्य-उपहत-चेतसः ॥१.१०४॥
🌸
अन्वयः--
स्वच्छ-अन्तरात्मनः सौहार्दम् अन्यथा एव हि भवेत् । शाठ्योपहतचेतसः वाणी अन्यथा प्रवर्तते ॥१.१०४॥
🌼
प्रतिपदार्थः--
स्वच्छान्तरात्मनः = शुद्धचेतसः ; अन्यथैव = अन्यप्रकारेण एव ; सौहार्दं = मैत्री ; शाठ्योपहतचेतसः = क्रौर्य-निष्ठुर-चेतसः, शठस्य ; अन्यथैव = अन्यादृशी एव कपटपूर्णा ; वाणी = वाक् ; प्रवर्त्तते = प्रसरति ॥१.१०४॥
🌻
तात्पर्यम्--
स्वच्छमनसः सौमनस्यं एकविधं (समं, सद्भावपूर्णं च) भवति। दुष्टमनस्कस्य भाषा अन्यथा (कठिना, परुषा च) भवति ॥१.१०४॥
🌿
हिन्द्यर्थः--
शुद्धहृदय वाले सज्जन की सहृदयता तो कुछ और ही प्रकार की होती है और कुटिल हृदय धूर्त की बोलचाल कुछ और ही तरह की दोती है। अर्थात् सज्जन और दुर्जन का भेद तो बातों से ही मालूम हो जाता है ॥१.१०४॥
🙏
हितोपदेश-सुभाषित-श्लोकाः - 1.103
🌷
मूलम्--
पटुत्वं सत्यवादित्वं कथायोगेन बुद्ध्यते ।
अस्तब्धत्वमचापल्यं प्रत्यक्षेनावगम्यते ॥१.१०३॥
🌺
पदविभागः--
पटुत्वं सत्य-वादित्वं कथा-योगेन बुद्ध्यते । अस्तब्धत्वम् अचापल्यं प्रत्यक्षेन अवगम्यते ॥१.१०३॥
🌸
अन्वयः--
पटुत्वं सत्य-वादित्वं (च) कथा-योगेन बुद्ध्यते । अस्तब्धत्वम् अचापल्यं प्रत्यक्षेन अवगम्यते ॥१.१०३॥
🌼
प्रतिपदार्थः--
पटुत्वं = कुशलत्वम् ; सत्यवादित्वम् = सदा सत्यं वचनं ; कथायोगैन = प्रसङ्गेन ; बुध्यते = सर्वैर्ज्ञातुं शक्यते, मया च ज्ञायते ; अस्तब्धत्वम् = अजडत्वम्, अभीतत्वम् ; अचापल्यं = स्थिरत्वम् ; प्रत्यक्षेण = सावाद्दर्शनेन ; साक्षात् = त्वन्मुखदर्शनादेव च मया ज्ञायते इति भावः ॥१.१०३॥
🌻
तात्पर्यम्--
मनुष्यः समर्थः, सत्यवादी वा अस्ति, न वेति प्रसङ्गात् ज्ञायते। (तदर्थं सन्दर्भादिकस्य आवश्यकता वर्तते।) किन्तु सः जडः नास्ति, चपलः नास्तीति प्रत्यक्षमेव ज्ञायते॥१.१०३॥
🌿
हिन्द्यर्थः--
मनुष्य की चतुराई और सचाई तो बात चीत करने से मालूम होती है, पर मनुष्य की नमता और गम्भीरता ता उसे देखने से ही मालूम हो जाती है ॥१.१०३॥
🙏
हितोपदेश-सुभाषित-श्लोकाः - 1.102
🌷
मूलम्--
रहस्यभेदो याच्ञा च नैष्ठुर्यं चलचित्तता ।
क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम् ॥१.१०२॥
🌺
पदविभागः--
रहस्यभेदः याच्ञा च नैष्ठुर्यं चलचित्तता । क्रोधः निःसत्यता द्यूतम् एतत् मित्रस्य दूषणम् ॥१.१०२॥
🌸
अन्वयः--
रहस्यभेदः, याच्ञा च, नैष्ठुर्यं, चलचित्तता, क्रोधः, निःसत्यता, द्यूतम् - एतत् मित्रस्य दूषणम् ॥१.१०२॥
🌼
प्रतिपदार्थः--
रहस्यभेदः = मित्रस्य अन्तरङ्गविषयाणां बहिः वचनम् ; याच्ञा = द्रव्यादिप्रार्थना ; नैष्टुर्यं = कोठरव्यवहारः; चलचित्तता = अस्थिरत्वम् ; निःसत्यता = मिथ्याभाषित्वम् ; द्यूतम् = अक्षक्रीडा ; मित्रस्य = सुहृदः ; दूषणम् = दोषः, ॥१.१०२॥
🌻
तात्पर्यम्--
मित्रीभङ्गकारिणः, मित्रे अवगुणाः केचन अत्र उच्यन्ते- १. मित्रस्य रहस्यानाम् उद्घाटनम्, २. वस्तुभ्यः, धनार्थं वा याचनम्, ३. परुषवचांसि, व्यवहारश्च ४. मनसः चाञ्चल्यम्, ५. असत्यभाषणम्, ६. द्यूतम् ॥१.१०२॥
🌿
हिन्द्यर्थः--
गुप्त बातों को प्रगट कर देना, माँगना, निष्ठुरता, चित्त की अस्थिरता, क्रोध, झूठ बोलना, जुआ खेलना ये सब मित्र के दोष हैं ॥१.१०२॥
🙏
हितोपदेश-सुभाषित-श्लोकाः - 1.101
🌷
मूलम्--
घर्मार्तं न तथा सुशीतलजलैः स्नानं न मुक्तावली
न श्रीखण्डविलेपनं सुखयति प्रत्यङ्गमप्यर्पितम् ।
प्रीत्यै सज्जनभाषितं प्रभवति प्रायो यथा चेतसः
सद्युक्त्या च परिष्कृतं सुकृतिनामाकृष्टिमन्त्रोपमम् ॥१.१०१॥
🌺
पदविभागः--
घर्म-आर्तं न तथा सुशीतल-जलैः स्नानं न मुक्तावली न श्रीखण्ड-विलेपनम् सुखयति प्रत्यङ्गम् अपि अर्पितम् । प्रीत्यै सज्जन-भाषितं प्रभवति प्रायः यथा चेतसः सद्युक्त्या च परिष्कृतं सुकृतिनाम् आकृष्टि-मन्त्र-उपमम् ॥१.१०१॥
🌸
अन्वयः--
सुशीतलजलैः स्नानं न, मुक्तावली न, प्रत्यङ्गम् अर्पितम् श्रीखण्ड-विलेपनम् अपि घर्मार्तं न तथा सुखयति यथा प्रायः सद्युक्त्या परिष्कृतं, सुकृतिनाम् आकृष्टि-मन्त्र-उपमं च सज्जन-भाषितं चेतसः प्रीत्यै प्रभवति ॥१.१०१॥
🌼
प्रतिपदार्थः--
घर्मार्तं = निदाघसन्तप्तं पुमांसं; सुशीतलजैः = शीतनीरैः ; स्नानं = शरीरस्य जलेन शुद्धीकरणं ; मुक्तावली = मुक्तानां माला ; प्रत्यङ्गं = प्रत्यवयवम् ; अर्पितं = दत्तं, लेपितं ; श्रीखण्डविलेपनम् = चन्दनस्य लेपनं ; सुखयति = प्रसन्नकरं भवति ; चेतसः = मनसः ; प्रीत्यै = आनन्दाय ; सद्युक्या = शोभनयुक्त्या, कल्पोक्तविधिविधानेन च ; परिष्कृतं = शोभितम् ; आकृष्टिमन्त्रोपमम् = आकर्षणमन्त्रतुल्यम् ; सज्जनभाषितं =सत्पुरुषाणां वचांसि ; प्रभवति = शक्तो भवति ॥१.१०१॥
🌻
तात्पर्यम्--
निदाघतप्तं पुरुषं हिमजलैः स्नानं तथा न हर्षयति। मुक्तानां हारं धृत्वा वा, श्रीचन्दनं सर्वेषु अवयवेषु विलेप्य वा सः तादृशं सुखं नानुभवति। सुष्ठु युक्तिभिः अलङ्कृतं, आकर्षणमन्त्रसदृशं सत्पुरुषवचनं श्रुत्वा मनसः अतिशयेन सन्तोषः भवति॥१.१०१॥
🌿
हिन्द्यर्थः--
आकर्षण मन्त्र की तरह मन को खींचने वाली, अच्छी २ युक्तियों से युक्त सज्जनों की वाणी चित्त को जितना आनन्द देती है, उतना सुख घाम से सन्तप्त मनुष्यों को- शीतल जल का स्नान, मोती की माला और शरीर में लगा शुभा चन्दन भी नहीं देता है ॥१.१०१॥
🙏
हितोपदेश-सुभाषित-श्लोकाः - 1.100
🌷
मूलम्--
शुचित्वं त्यागिता शौर्यं सामान्यं सुखदुःखयोः ।
दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः ॥१.१००॥
🌺
पदविभागः--
शुचित्वं त्यागिता शौर्यं सामान्यं सुख-दुःखयोः । दाक्षिण्यं च अनुरक्तिः च सत्यता च सुहृद्गुणाः ॥१.१००॥
🌸
अन्वयः--
शुचित्वं, त्यागिता, शौर्यं, सुख-दुःखयोः सामान्यं, दाक्षिण्यम्, अनुरक्तिः, सत्यता च – (एते) सुहृद्गुणाः (सन्ति) ॥१.१००॥
🌼
प्रतिपदार्थः--
शुचित्वं= स्वच्छता ; त्यागिता = औदार्यम् ; शौर्यं = वीरता ; सुखदुःखयोः = सुखे, दुःखे च ; सामान्यं = समता ; दाक्षिण्यं = कुशलता ; अनुरक्तिः = अनुरागभावः ; सत्यता = सत्यवाक्॥१.१००॥
🌻
तात्पर्यम्--
स्वच्छत्वं, उदारत्वं, शूरत्वं, सन्तोषपीडयोः समत्वं, सामर्थ्यम्, अनुरागः, सत्यत्वं – एतानि सर्वाणि मित्रस्य लक्षणानि॥१.१००॥
🌿
हिन्द्यर्थः--
चित्त शुद्धि, त्याग, वीरता, सुख और दुःख में एक सा भाव, उदारता, प्रेम, सत्य- ये सब मित्र के गुण हैं ॥१.१००॥
🙏