🌷
मूलम्--
स्नेहच्छेदेऽपि साधूनां गुणा नायान्ति विक्रियाम् ।
भङ्गेऽपि हि मृणालानामनुबध्नन्ति तन्तवः ॥१.९९॥
🌺
पदविभागः--
स्नेहच्छेदे अपि साधूनां गुणा न आयान्ति विक्रियाम् । भङ्गे अपि हि मृणालानाम् अनुबध्नन्ति तन्तवः ॥१.९९॥
🌸
अन्वयः--
साधूनां गुणाः स्नेहच्छेदे अपि विक्रियाम् न आयान्ति । मृणालानां भङ्गे अपि तन्तवः अनुबध्नन्ति हि॥१.९९॥
🌼
प्रतिपदार्थः--
स्नेहच्छेदे = प्रणयभङ्गे ; साधूनां = सज्जनानां ; गुणाः = सरलत्वादयः सद्गुणाः ; विक्रियां = विकारम् ; भङ्गेऽपि = छेदेऽपि ; मृणालानाम् = कमलदण्डानाम् ; तन्तवः = बिससूत्राणि, बिसतन्तवः ; अनुबध्नन्ति = सम्बन्धं न परिहरन्ति ॥१.९९॥
🌻
तात्पर्यम्--
सत्पुरुषानां मध्ये यदा स्नेहच्छेदः भवति, तदापि तेषां सल्लक्षणानि दूषितानि न भवन्ति। (अत्रोदाहरणम्) कमलनालानि यदा विच्छिद्यन्ते तदापि तेषाम् अन्तःस्थितानि तनूनि सूत्राणि परस्परं बद्धानि एव भवन्ति, बन्धं न त्यजन्ति॥१.९९॥
🌿
हिन्द्यर्थः--
और सज्जनों के साथ प्रीति टूट जाने पर भी उनका चित्त विकृत नहीं होता है, किन्तु उनका साधारण सम्बन्ध बना ही रहता है। जैसे मृणालों (कमल की डण्डी) के बीच में से टूट जाने पर भी उनके तन्तु परस्पर में जुड़े ही रहते हैं ॥१.९९॥
🙏
हितोपदेशे स्थितानि सुभाषितानि पदविभाग-अन्वय-प्रतिपदार्थ-तात्पर्य-सहितानि। (प्रतिपदार्थमात्रे गुरुप्रसादशास्त्रिणः कृतेः साहाय्यं स्वीकृतम्)
Saturday, February 20, 2021
हितोपदेश-सुभाषित-श्लोकाः - 1.99
हितोपदेश-सुभाषित-श्लोकाः - 1.98
🌷
मूलम्--
नारिकेलसमाकारा दृश्यन्ते हि सुहृज्जनाः ।
अन्ये बदरिकाकारा बहिरेव मनोहराः ॥१.९८॥
🌺
पदविभागः--
नारिकेल-समाकाराः दृश्यन्ते हि सुहृज्जनाः । अन्ये बदरिका-आकाराः बहिः एव मनोहराः ॥१.९८॥
🌸
अन्वयः--
सुहृज्जनाः नारिकेलसमाकाराः दृश्यन्ते हि । अन्ये बदरिकाकाराः बहिः एव मनोहराः ॥१.९८॥
🌼
प्रतिपदार्थः--
नारिकेलसमाकाराः = नारिकेलफलवद्वहिः कठिनाः, अन्तः मृदवः च; दृश्यन्ते = भान्ति ; सुहृज्जनाः = सज्जनाः, सन्तः; अन्ये = सज्जनेतराः, खलाः; बदरिकाकाराः = बदरीफलमिव बाह्ये कोमलाः अभ्यन्तरे कठिनाः च, दुःखदाः; ॥१.९८॥
🌻
तात्पर्यम्--
नारिकेलफलसदृशाः सुहृदयाः जनाः बाह्यदर्शनाय कठिनाः भवन्ति, परन्तु यथा नारिकेलस्यान्तः जलं वर्तते, तथैव ऐते अन्तः मृदवः भवन्ति। दुष्टजनाः पुनः बदरीफलसन्निभाः भवन्ति- बहिः दर्शनाय सरलाः मृदवश्च। किन्तु अन्तः सर्वं कठोरबीजमेव भवति। ॥१.९८॥
🌿
हिन्द्यर्थः--
सज्जन लोग नारियल के फल के समान ऊपर से ही रूखे व कड़े देख पड़ते हैं, परन्तु भीतर उनके मधुरता ही होती है । अर्थात् बाहर से तो वे कठोर मालूम पड़ते हैं, परन्तु भीतर से बड़े ही दयालु होते हैं । पर दूसरे लोग (अर्थात् दुर्जन लोग) बैर के फल की तरह बाहर से ही सुन्दर देख पड़ते हैं, परन्तु भीतर उनके कठोरता (कड़ी गुठली) ही रहती है ॥१.९८॥
🙏
हितोपदेश-सुभाषित-श्लोकाः - 1.97
🌷
मूलम्--
द्रवत्वात् सर्वलोहानां निमित्तान्मृगपक्षिणाम् ।
भयाल्लोभाच्च मूर्खाणां सङ्गतं दर्शनात् सताम् ॥१.९७॥
🌺
पदविभागः--
द्रवत्वात् सर्व-लोहानां निमित्ताद् मृग-पक्षिणाम् । भयात् लोभात् च मूर्खाणां सङ्गतं दर्शनात् सताम् ॥१.९७॥
🌸
अन्वयः--
सर्व-लोहानां द्रवत्वात्, मृग-पक्षिणां निमित्ताद्, मूर्खाणां भयात् लोभात् च, सतां सङ्गतं दर्शनात् (भवति)॥१.९७॥
🌼
प्रतिपदार्थः--
सर्वलौहानां = सकलधातूनां ; द्रवत्वात् = द्रवभावेन ; मृगपक्षिणां = पशूनां खगानां च ; निमित्तात् = भोजनादिदानात्, कार्यकारण-भावाच्च ; मूर्खाणां = मूढानां ; भयात् = भीतेः ; लोभात् = लौल्यात् ; सतां = सज्जनानां ; दर्शनाद् = प्रेक्षणमात्राद् एव ; सङ्गतं = मैत्री ॥१.९७॥
🌻
तात्पर्यम्--
समस्तधातुपदार्थानां विगलनमार्गेण संयुक्तता भवति। पशूनां पक्षिणां च मैत्री केनचिद् हेतुना कल्प्यते। बुद्धिहीनानां साङ्गत्यं भीतेः लोलुपतायाः च कारणात् घटते। सज्जनानां मित्रत्वं केवलं दर्शनमात्रेण जागर्ति॥१.९७॥
🌿
हिन्द्यर्थः--
सब धातुओंका परस्पर मेल गलाने से ही होता है, पशुपक्षियों का मेल किसी निमित्त (कारण) से ही होता है, मूर्खों का मेल भय और लोभ से ही होता है, परन्तु सज्जनों का मेल (मैत्री) तो केवल दर्शनमात्र से ही हो जाता है ॥१.९७॥
🙏
हितोपदेश-सुभाषित-श्लोकाः - 1.96
🌷
मूलम्--
मृद्घटवत् सुखभेद्यो दुःसन्धानश्च दुर्जनो भवति ।
सुजनस्तु कनकघटवद् दुर्भेद्यश्चाशु सन्धेयः ॥१.९६॥
🌺
पदविभागः--
मृद्घट-वत् सुखभेद्यः दुःसन्धानः च दुर्जनः भवति । सुजनः तु कनक-घटवद् दुर्भेद्यः आशु सन्धेयः ॥१.९६॥
🌸
अन्वयः--
दुर्जनः च मृद्घटवत् सुखभेद्यः दुःसन्धानः च भवति । सुजनः तु कनक-घटवद् दुर्भेद्यः आशु सन्धेयः ॥१.९६॥
🌼
प्रतिपदार्थः--
मृद्धटवत् = मृत्तिकया निर्मतकुम्भः इव ; सुखभेद्यः = सुकरं भेत्तुं शक्यः ; दुःसन्धानः = पुनर्योजितुम् अशक्यः ; कनकघटवत् = सुवर्णादिकुम्भवत् ; दुर्भेद्यः = भेत्तुम् असुकरः ; आशु = अनायासेन ; सन्धेयः = योज्यः ॥१.९६॥
🌻
तात्पर्यम्--
(अयं श्लोकः दुर्जनसज्जनयोः मध्ये भेदं ज्ञापयति) दुर्जनः मृत्तिकाभाण्डः इव अनायासेन भग्नः भवति, नाम क्रोधादिविकारान् प्राप्नोति भवति; पुनः योजितुं कदापि शक्यः न भवति, नाम शान्तः न भवति। किन्तु सज्जनः स्वर्णकलशसदृशः विभक्तुम् अशक्यः, नाम अविकृतः भवति; पुनश्च यदि किञ्चित् भग्नः, तदा विनायासं योजितुं शक्यः, नाम झटिति स्वस्थितिं प्राप्नोति॥१.९६॥
🌿
हिन्द्यर्थः--
दुर्जन प्राणी मिट्टी के घड़े की तरह अनायास ही विकृत हो (फूट-फूट) जाते हैं और उनका पुनः मेल (जोड़ना) कठिनता से होता है । परन्तु सज्जन लोग सुवण के घट की तरह जल्दी बिगड़ते (टूटते) नहीं है, और यदि बिगड़ते भी है, तो शीघ्र ही पुनः ठीक किए (जोड़े) जा सकते हैं ॥१.९६॥
🙏
हितोपदेश-सुभाषित-श्लोकाः - 1.95
🌷
मूलम्--
महताप्यर्थसारेण यो विश्वसिति शत्रुषु ।
भार्यासु च विरक्तासु तदन्तं तस्य जीवनम् ॥१.९५॥
🌺
पदविभागः--
महता अपि अर्थसारेण यः विश्वसिति शत्रुषु । भार्यासु च विरक्तासु तदन्तं तस्य जीवनम् ॥१.९५॥
🌸
अन्वयः--
यः महता अपि अर्थसारेण शत्रुषु विश्वसिति, विरक्तासु भार्यासु च तस्य जीवनं तदन्तम् ॥१.९५॥
🌼
प्रतिपदार्थः--
महता अपि = विपुलेन अपि ; अर्थसारेण = धनादिबलेन समन्वितोऽपीति शेपः ; यद्वा अर्थसिद्ध्यादिकारणवशेन; यः = यो जनः ; च = पुनः ; विरक्तासु = अननुरक्तासु, परपुरुषरतासु च विश्वसितीति शेपः ; तदन्तं = तद्विश्वासपर्यन्तमेव ; जीवितं = जीवनम् ; केचित्तु- महता अपि अर्थसारेण इत्यस्य गुरुणापि प्रयोजनेन इत्यर्थम् आहुः ॥१.९५॥
🌻
तात्पर्यम्--
यः पुरुषः बृहतः प्रयोजनस्य कारणेनापि अरिषु आश्वासनं करोति, परस्त्रीषु अनुरक्तेः कारणेन आश्वस्तः वा भवति, तस्य जीवनं तावत् पर्यन्तमेव चलति, यावत् सः आश्वासभावः तिष्ठति। विश्वासभावः यदा समाप्तिमेति तदा तस्य जीवनम् अन्तं याति॥१.९५॥
🌿
हिन्द्यर्थः--
जो पुरुष विशेष लाभवश भी शत्रुओंका, या विरक्त स्त्री (पर-पुरुषानुरागवती) का विश्वास करता है, उस पुरुष के जीवन का अन्त ही समझना चाहिये ॥१.९५॥
🙏
हितोपदेश-सुभाषित-श्लोकाः - 1.94
🌷
मूलम्--
यदशक्यं न तच्छक्यं यच्छक्यं शक्यमेव तत् ।
नोदके शकटं याति न च नौर्गच्छति स्थले ॥१.९४॥
🌺
पदविभागः--
यद् अशक्यं न तत् शक्यं यत् शक्यं शक्यम् एव तत् । न उदके शकटं याति न च नौः गच्छति स्थले ॥१.९४॥
🌸
अन्वयः--
यद् अशक्यं तत् न शक्यम् । यत् शक्यं तत् शक्यम् एव । उदके शकटं न याति । नौः च स्थले न गच्छति ॥१.९४॥
🌼
प्रतिपदार्थः--
यत् = यत्कार्यम् ; अशक्यम् = यत् कर्तुम् वयं न समर्थाः ; यत् च शक्यं = यत् कर्तुं वयं प्रभवामः ; तत् शक्यमेव = सम्भवत्येव ; स्वयमेव = अनायासेन एव भवति ; उदके = जले ; शकटं = गन्त्री (गाडी) ; स्थले = भूमौ ; नौः = नौका ॥१.९४॥
🌻
तात्पर्यम्--
यत् आचरितुं प्रभवामः, तत् कार्यं सम्पन्नं भवत्येव। यत् आचरितुं न समर्थाः तत् असम्पन्नं भवति । (अस्योदाहर्णम्) वारिणि नौका गन्तुं पारयति, किन्तु स्थलयानं न याति। तथैव भुवि नौः न व्रजति । ॥१.९४॥
🌿
हिन्द्यर्थः--
जो कार्य नहीं होने लायक है, वह नहीं हो सकता है, और जो होने लायक है, वह सर्वदा हो ही सकता है । जैसे गाड़ी जल में नहीं चल सकती है और भूमि पर नाव नहीं चल सकती है । अर्थात्- जो कार्य होने लायक हो वही करना चाहिए, असम्भव कार्य के लिए प्रयत्न करना मूर्खता है ॥१.९४॥
🙏
हितोपदेश-सुभाषित-श्लोकाः - 1.93
🌷
मूलम्--
दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥१.९३॥
🌺
पदविभागः--
दुर्जनः परिहर्तव्यः विद्यया अलङ्कृतः अपि सन् । मणिना भूषितः सर्पः किम् असौ न भयङ्करः ॥१.९३॥
🌸
अन्वयः--
दुर्जनः विद्यया अलङ्कृतः अपि सन् परिहर्तव्यः । मणिना भूषितः सर्पः असौ किम् न भयङ्करः? ॥१.९३॥
🌼
प्रतिपदार्थः--
दुर्जनः = दुष्टः ; विद्यया = ज्ञानेन ; अलङ्कृतः अपि सन् = भूषितः भूत्वा अपि ; परिहर्तव्यः = त्याज्यः ; मणिना = रत्नेन ; भूषितः = अलङ्कृतः ; सर्पः = नागः ; असौ = सः ; किम् न = (प्रश्नः) ; भयङ्करः = भयमुत्पादयति यः ; ॥१.९३॥
🌻
तात्पर्यम्--
ज्ञानेन आभूषितोऽपि दुष्टात्मा (दूरेणैव) परित्याज्यः। अत्र उदाहरणम्। भुजङ्गः रत्नेन अलङ्कृतोऽपि (सुन्दरः उपगमने योग्यः न भवति) भयमेवोत्पादयति ॥१.९३॥
🌿
हिन्द्यर्थः--
यदि दुर्जन विद्या से विभूषित भी हो तो भी उससे दूर ही रहना चाहिये । क्यों कि मणि से विभूषित होने पर भी क्या सर्प भयङ्कर नहीं होता है? अवश्य ही भयङ्कर होता है ॥१.९३॥
🙏