Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.92

🌷
मूलम्--
शत्रुणा न हि सन्दध्यात् सुश्लिष्टेनापि सन्धिना ।
सुतप्तमपि पानीयं शमयत्येव पावकम् ॥१.९२॥

🌺
पदविभागः--
शत्रुणा न हि सन्दध्यात् सुश्लिष्टेन अपि सन्धिना । सुतप्तम् अपि पानीयं शमयति एव पावकम् ॥१.९२॥
🌸
अन्वयः--
शत्रुणा सुश्लिष्टेन अपि सन्धिना न हि सन्दध्यात् । पानीयं सुतप्तम् अपि पावकं शमयति एव ॥१.९२॥
🌼
प्रतिपदार्थः--
शत्रुणा = अमित्रेण, अहितकरेण ; सुश्लिष्टेन = सुदृढेन, स्वहितावहेन च ; सन्धिना = मैत्रिणा ; न सन्दध्यात् = संयुक्तो न भवेत् ; सुतप्तम् अपि = अत्यन्तम् उष्णम् अपि ; पानीयं = जलम् ; पावकं = वह्निम् ; शमयति = विनाशयति ॥१.९२॥
🌻
तात्पर्यम्--
अत्यन्तं दृढबन्धनशीलेन मैत्रिणा अपि अरिणा सह सुहृद्भावः न युक्तः । (अत्र उदाहरणम्) वारि तप्तम् अपि अग्निं निर्वापयति एव। [अत्र अयं भावः- नीरम् अग्नेः शत्रुः भवति। द्वयोः गुणौ विलोमौ। वह्निना युक्तः सन्नेव अम्बु उष्णीभवति। तेनैव तप्तं सदपि तदुदकम् अनलं ज्वलने न सहकरोति अपिच अपाकरोति।]॥१.९२॥
🌿
हिन्द्यर्थः--
उत्तम से उत्तम स्नेहभाव के द्वारा भी शत्रु से कभी सन्धि (मेल) नहीं करना चाहिये। क्यों कि यदि पानी गरम होगा तो भी वह अग्नि को तो बुझा ही देता है ॥१.९२॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.90

🌷
मूलम्--
साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् ।
न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया ॥१.९०॥

🌺
पदविभागः--
साधोः प्रकोपितस्य अपि मनः न आयाति विक्रियाम् । न हि तापयितुं शक्यं सागर-अम्भः तृण-उल्कया ॥१.९०॥
🌸
अन्वयः--
प्रकोपितस्य साधोः अपि मनः विक्रियाम् न आयाति । सागराम्भः तृणोल्कया हि तापयितुं न शक्यम् ॥१.९०॥ 🌼
प्रतिपदार्थः--
साधोः = सज्जनस्य ; प्रकोपितस्य = कोपं प्रापितस्यापि ; मनः = मतिः ; विक्रियां = विकारम् ; न आयाति = न प्राप्नोति गच्छति वा ; हि = यतः ; सागराम्भः = समुद्रजलं ; तृणोल्का = तृणमेव उल्का इव, अग्नियुक्तघासः ; तापयितुं = उष्णीकर्तुं ; न शक्यम् = असाध्यम्; ॥१.९०॥
🌻
तात्पर्यम्--
सत्स्वभावयुक्तः (अन्यैः) कोपयुक्तं कृतः सन्नपि तस्य मानसं विकारलेशमपि न प्राप्नोति। अस्योदाहरणम्- समुद्रनीरम् अग्नियुक्तेन घासेन उष्णीकर्तुं न शक्यते। (साधुः सः परैः अपकारशतेन क्रोधितोपि सन् क्रुद्धो न भवति इति। कोपितोऽपि साधुतां न जहातीति भावः) ॥१.९०॥
🌿
हिन्द्यर्थः--
सज्जन का चित्त क्रोध दिलाये जाने पर भी विकार को प्राप्त नहीं होता है । जैसे समुद्र के जल को घास कूस को अग्नि (लुकाटी) से गरम नहीं किया जा सकता है । ॥१.९०॥
🙏

Friday, February 19, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.89

🌷
मूलम्--
तिरश्चामपि विश्वासो दृष्टः पुण्यैककर्मणाम् ।
सतां हि साधुशीलत्वात् स्वभावो न निवर्तते ॥१.८९॥

🌺
पदविभागः--
तिरश्चाम् अपि विश्वासः दृष्टः पुण्य-एककर्मणाम् । सतां हि साधु-शीलत्वात् स्वभावः न निवर्तते ॥१.८९॥
🌸
अन्वयः--
पुण्य-एककर्मणां तिरश्चाम् अपि विश्वासः दृष्टः । सतां स्वभावः साधु-शीलत्वात् न निवर्तते हि ॥१.८९॥
🌼
प्रतिपदार्थः--
तिरश्चां = पशुपक्ष्यादीनाम् ; विश्वासः = आश्वासः ; दृष्टः = अनुभूतः ; (पुण्यमेकं कर्म येषा तेषां) पुण्यैककर्मणां = पुण्यात्मनां जनानाम् ; साधुशीलत्वात् = शुभाचारत्वात् ; स्वभावः = प्रकृतिः (व्यवहरणाधारभूतः मूलभूतः गुणः) ; साधुता शीलत्वं तस्मात् ; न निवर्तते = (जन्मान्तरेऽपि) न अपयाति ॥१.८९॥
🌻
तात्पर्यम्--
ये पशुपक्षिणः पुण्यवन्तः भवन्ति, तेषु परस्परं विश्वासः दृश्यते । सज्जनाः प्रकृतेः सदाचारित्वं न त्यजन्ति ॥१.८९॥
🌿
हिन्द्यर्थः--
पुण्यात्मा पशुपक्षियों का भी परस्पर में विश्वास देखा गया है, क्यों कि पुण्यवान् सज्जनों का स्वभाव साधुशील (सदाचारी) होने के कारण किसी भी योनि (जन्म) में नहीं बदलता है ॥१.८९॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.87

🌷
मूलम्--
त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः ।
अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते ॥१.८७॥

🌺
पदविभागः--
त्रिभिः वर्षैः त्रिभिः मासैः त्रिभिः पक्षैः त्रिभिः दिनैः । अत्युत्कटैः पापपुण्यैः इह एव फलम् अश्नुते ॥१.८७॥
🌸
अन्वयः--
अत्युत्कटैः पापपुण्यैः त्रिभिः वर्षैः त्रिभिः मासैः त्रिभिः पक्षैः त्रिभिः दिनैः फलम् इह एव अश्नुते ॥१.८७॥
🌼
प्रतिपदार्थः--
अत्युत्कटैः = विषमैः ; पापपुण्यै = सत्कर्मभिः दुष्कर्मभिः च ; वर्षैः = वत्सरावधिककालेन ; मासैः = मासावधिककालेन ; पक्षैः = पक्षावधिककालेन ; दिनैः = दिवसैः ; इह एव = अस्मिन्नेव जन्मनि ; अश्नुते = उपभुङक्ते ॥१.८७॥
🌻
तात्पर्यम्--
तीव्राणां दुराचरणानां सदाचरणानां वा प्रतिफलम अवश्यम् आप्यते। अत्र एव लोके लभ्यते। ततः त्रिवर्षकाले, त्रिमासकाले, त्रिपक्षकाले अथवा त्रिदिवसकाले एव मानवेन प्राप्यते। (अतः जागरूकतया सावधानतया च भाव्यम्।) ॥१.८७॥
🌿
हिन्द्यर्थः--
उत्कट पापों व पुण्यों का फल इसी लोक में- तीन वर्ष में, या तीन महीने में, या तीन पक्ष में, या तीन दिन के भीतर ही मनुष्य को मिल जाता है ॥१.८७ ॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.86

🌷
मूलम्--
दुर्जनः प्रियवादी च नैतद् विश्वासकारणम् ।
मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥१.८६॥

🌺
पदविभागः--
दुर्जनः प्रियवादी च न एतद् विश्वास-कारणम् । मधु तिष्ठति जिह्व-अग्रे हृदि हालाहलं विषम् ॥१.८६॥
🌸
अन्वयः--
दुर्जनः प्रियवादी च- एतद् विश्वास-कारणं न । जिह्वाग्रे मधु तिष्ठति हृदि हालाहलं विषं (तिष्ठति) ॥१.८६॥
🌼
प्रतिपदार्थः--
दुर्जनः = दुष्टः ; प्रियवादी = यः मधुरं वदति ; नैतत् = न एष विषयः ; विश्वासकारणं = आश्वासहेतुः ; मधु = माक्षिकं, अत्र माधुर्यम् अर्थः ; जिह्वाग्रे = रसनायां ; तिष्ठति = वर्तते, हृदि = हृदये ; हालाहलं = स्थावरविषभेदः ; विषम् = गरलम् ;  ॥१.८६॥
🌻
तात्पर्यम्--
यः दुर्मनाः सन् मधुरालापं करोति तथापि तत्र आश्वासः न विधेयः, यतस्तस्य जिह्वायामेव मधुनः माधर्यं भवति। हृदये तु पुनः गरलमिव अतिभयानकभावना भवति। ॥१.८६॥
🌿
हिन्द्यर्थः--
दुर्जन भी कभी सच्चा प्रियवादी (मीठा बोलनेवाला हितैषी) हो सकता है, यह कभी विश्वास नहीं करना चाहिए, क्यों कि दुर्जन की जिह्वा पर हो मधुरता रहती है, परन्तु हृदय में तो उसके हलाहल विष ही भरा हुआ है ॥१.८६॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.85

🌷
मूलम्--
प्राक् पादयोः पतति खादति पृष्ठमांसं
कर्णे कलं किमपि रौति शनैर्विचित्रम् ।
छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः
सर्वं खलस्य चरितं मशकः करोति ॥१.८५॥

🌺
पदविभागः--
प्राक् पादयोः पतति खादति पृष्ठ-मांसं कर्णे कलं किम् अपि रौति शनैः विचित्रम् । छिद्रं निरूप्य सहसा प्रविशति अशङ्कः सर्वं खलस्य चरितं मशकः करोति ॥१.८५॥
🌸
अन्वयः--
प्राक् पादयोः पतति। पृष्ठ-मांसं खादति। कर्णे शनैः विचित्रं किम् अपि कलं रौति । सहसा छिद्रं निरूप्य अशङ्कः प्रविशति। मशकः सर्वं खलस्य चरितं करोति ॥१.८५॥
🌼
प्रतिपदार्थः--
प्राक् = पूर्वम्। पादयोः पतति = नीचैः गच्छति, (खलपक्षे-) चरणयोः प्रणमति च । पृष्ठमांसं खादति = पृष्ठे दशति, (खलपक्षे-) पृष्ठतो निन्दां करोति च ; कर्णे = श्रवणाङ्गे ; कलं = सुमधुरम् ; विचित्रं = नानाप्रकारम् ; किमपि = अनिर्वचनीयम् ; रौति = कूजति, कथयति च ; छिद्रं = विवरम्, अवसरं च ; निरूप्य = दृष्ट्वा ; अशङ्कः = निर्भयः सन् ; सहसा = सपदि, झटिति, अकस्मात् ; सर्वं = आसमन्तात्, अशेषं ; खलस्य = दुष्टस्य ; मशकः = दंशः ; चरितं = आचरणं ; ॥१.८५॥
🌻
तात्पर्यम्--
मशकः पूर्वं चरणयोः दशति। ततः मांसं खादन् इव पृष्ठभागं दशति। (केवलं दंशित्वा न विश्राम्यति) कर्णयोः आगत्य किमपि मधुरं गायन्निव ध्वनिं करोति । ततः तत्र रन्ध्रमस्तीति दृष्ट्वा अन्तः निर्भयं प्रविशति। (खलोऽपि तथैवास्ति।) प्रथमं पादयोः नमस्करोति। ततः पृष्ठतः अस्माभिरविज्ञातम् अस्माकमेव निन्दां करोति। ततश्च अवसरं प्राप्य अन्येषां दोषान् अस्माकं पुरतः कथयति, अस्मासु आक्रमणमपि करोति। ॥१.८५॥
🌿
हिन्द्यर्थः--
मच्छर पहले पैर पर गिरता है, फिर पीठ का मांस खाता है, पुनः धीरे-धीरे कान में कुछ गुनगुनाता है, फिर धीरे-धीरे मौका देखकर सहसा निर्भय होकर भीतर प्रवेश कर जाता है। इस प्रकार मच्छर दुर्जनों के सब चरित्रों का अनुकरण करता है । दुष्ट भी- पहले पैर पर गिरता है, फिर परोक्ष में (पीछे से) काम को बिगाड़ता है, फिर कान के पास आकर दूसरों की चुगली करता है, और मौका पाते ही आक्रमण भी करता है ॥१.८५॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.84

 🌷
मूलम्--
दुर्जनेन समं सख्यं वैरं चापि न कारयेत् ।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥१.८४॥

🌺
पदविभागः--
दुर्जनेन समं सख्यं वैरं च अपि न कारयेत् । उष्णः दहति च अङ्गारः शीतः कृष्णायते करम् ॥१.८४॥
🌸
अन्वयः--
दुर्जनेन समं सख्यं वैरं च अपि न कारयेत् । अङ्गारः उष्णः दहति शीतःच करं कृष्णायते ॥१.८४॥
🌼
प्रतिपदार्थः--
सख्यं = स्नेहं, मैत्रीं ; अङ्गारः = कोकिलः (कोयला) ; उष्णः = प्रदीप्तः सन् ; दहति = अग्नियुक्तं करोति ; शीतः = अनुष्णः कृष्णायते - कृष्णं करोति = मलिनीकुरुते। करं = हस्तम् ॥१.८४॥
🌻
तात्पर्यम्--
दुष्टेन साकं मित्रता वा शत्रुता वा न कार्या। (सः अङ्गारवत् भवति) अङ्गारः यदि तप्तः भवति तर्हि पाणिं तापयति। यदि अनुष्णः भवति तदा हस्तं कालवर्णेन मलिनं करोति॥१.८४॥
🌿
हिन्द्यर्थः--
🙏
दुर्जन के साथ मित्रता और प्रीति दोनों ही नहीं करनी चाहिये। क्यों कि -अङ्गार गरम (जलता) हो तो हाथ जलता है, और वही यदि शीतल हो तो हाथ को ही काला कर देता है ॥१.८४॥