Friday, February 19, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.84

 🌷
मूलम्--
दुर्जनेन समं सख्यं वैरं चापि न कारयेत् ।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥१.८४॥

🌺
पदविभागः--
दुर्जनेन समं सख्यं वैरं च अपि न कारयेत् । उष्णः दहति च अङ्गारः शीतः कृष्णायते करम् ॥१.८४॥
🌸
अन्वयः--
दुर्जनेन समं सख्यं वैरं च अपि न कारयेत् । अङ्गारः उष्णः दहति शीतःच करं कृष्णायते ॥१.८४॥
🌼
प्रतिपदार्थः--
सख्यं = स्नेहं, मैत्रीं ; अङ्गारः = कोकिलः (कोयला) ; उष्णः = प्रदीप्तः सन् ; दहति = अग्नियुक्तं करोति ; शीतः = अनुष्णः कृष्णायते - कृष्णं करोति = मलिनीकुरुते। करं = हस्तम् ॥१.८४॥
🌻
तात्पर्यम्--
दुष्टेन साकं मित्रता वा शत्रुता वा न कार्या। (सः अङ्गारवत् भवति) अङ्गारः यदि तप्तः भवति तर्हि पाणिं तापयति। यदि अनुष्णः भवति तदा हस्तं कालवर्णेन मलिनं करोति॥१.८४॥
🌿
हिन्द्यर्थः--
🙏
दुर्जन के साथ मित्रता और प्रीति दोनों ही नहीं करनी चाहिये। क्यों कि -अङ्गार गरम (जलता) हो तो हाथ जलता है, और वही यदि शीतल हो तो हाथ को ही काला कर देता है ॥१.८४॥

Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.83

मूलम्--
उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम् ।
तं जनमसत्यसन्धं भगवति वसुधे कथं वहसि ॥१.८३॥


पदविभागः--
उपकारिणि विश्रब्धे शुद्ध-मतौ यः समाचरति पापम् । तं जनम् असत्यसन्धं भगवति वसुधे कथं वहसि ॥१.८३॥

अन्वयः--
भगवति वसुधे, यः उपकारिणि विश्रब्धे शुद्ध-मतौ पापं समाचरति, तम् असत्यसन्धं जनं कथं वहसि ॥१.८३॥

प्रतिपदार्थः--
वसुधे = हे पृथ्वि! ; उपकारिणि = उपकारपरे ; विश्रब्धे = विश्वासमुपगते ; अत एव - शुद्ध-मतौ = सरलाशये, अशङ्किते ; पापं = (अत्र) विश्वासघातेन अनिष्टम् ; असत्यसन्धम् = असत्यप्रतिज्ञं, मिथ्याभाषिणम् ; कथं वहसि = त्वं कथं धारयसि? ॥१.८३॥

तात्पर्यम्--
यः (अस्मत् प्रति) उपकृतिमाचरति, अस्मासु विश्वसिति, शङ्कां न करोति- तादृशं प्रति यदि कोऽपि कपटम् आचरति, तर्हि हे भूमातः, त्वं तं (विश्वासघातकं) कथं (स्वस्यां) जीवयसि? (त्वया सः न धार्यः इति भावः)। ॥१.८३॥

हिन्द्यर्थः--
जो प्राणी-उपकारी, विश्वासी, एवं निष्कपट प्राणी के साथ भी विश्वासघात करता है, उस कपटी झूटे नीच पुरुष को तुम कैसे धारण करती हो? ॥१.८३॥

हितोपदेश-सुभाषित-श्लोकाः - 1.82

मूलम्--
संलापितानां मधुरैर्वचोभिर्मिथ्योपचारैश्च वशीकृतानाम् ।
आशावतां श्रद्दधतां च लोके किमर्थिनां वञ्चयितव्यमस्ति ॥१.८२॥


पदविभागः--
संलापितानां मधुरैः वचोभिः मिथ्या-उपचारैः च वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किमर्थिनां वञ्चयितव्यम् अस्ति ॥१.८२॥

अन्वयः--
संलापितानां मधुरैः वचोभिः मिथ्या-उपचारैः च वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किमर्थिनां वञ्चयितव्यम् अस्ति ॥१.८२॥

प्रतिपदार्थः--
संलापितानां= विहितालापानाम् (विश्वस्तानामिति यावत्), यैः सह परिचयो जातः तेषां ; किञ्च, मिथ्या = कपटपूर्णैः ; उपचारैः- सेवा-सत्कारादिभिः ; वशीकृतानां = वशे स्थापितानां वा ; आशावताम् = आशा-पाशेन बद्धानां च ; च = किञ्च ; श्रद्धावतां = श्रद्दधतां वा, ये श्रद्धालवः तेषां वा ; अर्थिनां= याचकानां, प्रणयिनां च ; किं वञ्चयितव्यम् = कि वञ्चनीयम्? (अस्ति? इति अवशिष्यते) ; विश्वस्तवञ्चने किं कौशलम् इत्यर्थः ॥१.८२॥

तात्पर्यम्--
ये परिचिताः, ये च सुवचनैः कपट-सेवाभिः आकृष्टाः, ये लोभपूरिताः, ये श्रद्धावन्तः, ये च भिक्षुकाः-- तान् वञ्चयितुं कः न समर्थः? (यः कोऽपि तत् विनायासं साध्नोतीति, एतादृशाः स्वयमेव वञ्चकानां वशे आपतन्तीति वा भावः) ॥१.८२॥

हिन्द्यर्थः--
मीटी-मीठी बातों से तथा कपटमय सत्कारों से वश में किए गए तथा आशा रखनेवाले श्रद्धालु लोगों व याचकों को ठगना कौन बड़ी बात है? ॥१.८२॥

हितोपदेश-सुभाषित-श्लोकाः - 1.81

मूलम्--
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।
वर्जयेत् तादृशं मित्रं विषकुम्भं पयोमुखम् ॥१.८१॥
 
पदविभागः--
परोक्षे कार्य-हन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत् तादृशं मित्रं विषकुम्भं पयोमुखम् ॥१.८१॥

अन्वयः--
परोक्षे कार्य-हन्तारं, प्रत्यक्षे प्रियवादिनम्- तादृशं विषकुम्भं पयोमुखं मित्रं वर्जयेत् ॥१.८१॥

प्रतिपदार्थः--
परोक्षे = अन्यत्र स्थिते सति ; कार्य-हन्तारं = कार्यनाशकं ; प्रत्यक्षे = उपस्थितौ ; प्रियवादिनम् = प्रियं वक्ति यः तं ; तादृशं = तद्वन्मित्रं ; विषकुम्भं पयोमुखं = यस्यान्ते विषमस्ति, बहिस्तु पयः दर्श्यते तादृग् घटः, तं ; मित्रं = सुहृदं ; वर्जयेत् = त्यजेत् ॥१.८१॥

तात्पर्यम्--
यः अनुपस्थितौ सति कार्यविघातं करोति, पुरतः स्थिते सति प्रीतिकराणि वचांसि वदति, तं मित्रं त्यजेत्। सः तत्कुम्भ इव भवति, यत्र अन्तः गरलमस्ति, उपरि दुग्धं दृश्यते ॥१.८१॥

हिन्द्यर्थः--
जो पीठ पीछे काम को बिगाड़ता है, और सामने मीठी बातें करता है, ऐसे अन्दर विषभरे, पर बाहर दूध दिखाने वाले घड़े के समान मित्र का त्याग करना चाहिए ॥१.८१॥

हितोपदेश-सुभाषित-श्लोकाः - 1.80

मूलम्--
दीपनिर्वाणगन्धं च सुहृद्वाक्यमरुन्धतीम् ।
न जिघ्रन्ति न शृण्वन्ति न पश्यन्ति गतायुषः ॥१.८०॥


पदविभागः--
दीप-निर्वाण-गन्धं च सुहृद्-वाक्यम् अरुन्धतीम् । न जिघ्रन्ति न शृण्वन्ति न पश्यन्ति गत-आयुषः ॥१.८०॥

अन्वयः--
दीप-निर्वाण-गन्धं च सुहृद्-वाक्यम् अरुन्धतीम् । न जिघ्रन्ति न शृण्वन्ति न पश्यन्ति गत-आयुषः ॥१.८०॥

प्रतिपदार्थः--
दीप-निर्वाण-गन्धं = निर्गतः दीपः, तस्य सुगन्धं ; सुहृद्-वाक्यम् = मित्राणां, हितकाङ्क्षिणां वचनानि ; अरुन्धतीम् = ताराम् ; न जिघ्रन्ति = घ्रातुं न शक्नुवन्ति ; न शृण्वन्ति = न आकर्णयन्ति ; न पश्यन्ति = न वीक्षन्ते ; गत-आयुषः = येषां आयुः समाप्तम् ॥१.८० ॥

तात्पर्यम्--
येषां जीवनकालः समाप्तप्रायः, ते विगतस्य दीपस्य गन्धं न जिघ्रन्ति, हितैषिणां वचः न श्रुण्वन्ति, अरुन्धतीतारां न ईक्षन्ते ॥१.८०॥

हिन्द्यर्थः--
जिनका आयु क्षीण होगया, वे दीपक के बुझने वाले गन्ध को नहीं सूंघते। हितैषी के बातों को नहीं सुनते। और अरुन्धती नक्षत्र को नहीं देखते ॥१.८०॥

हितोपदेश-सुभाषित-श्लोकाः - 1.79

मूलम्--
अपराधो न मेऽस्तीति नैतद् विश्वासकारणम् ।
विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥१.७९॥


पदविभागः--
अपराधः न मे अस्ति इति न एतद् विश्वास-कारणम् । विद्यते हि नृशंसेभ्यः भयं गुणवताम् अपि ॥१.७९॥

अन्वयः--
(मम) मे अपराधः नास्ति इति एतद् विश्वास-कारणम् न (अस्ति)। गुणवताम् अपि नृशंसेभ्यः भयं विद्यते हि ॥१.७९॥

प्रतिपदार्थः--
अपराधः = दोषः ; विश्वासकारणम् = आश्वासनस्य आस्पदम् ; नृशंसेभ्यः = क्रूरजनेभ्यः ; गुणवताम् = सज्जनानाम् ॥

तात्पर्यम्--
स्वस्य दोषाचरणं न विद्यते इति मात्रेण विश्वासः न कर्तव्यः। सद्गुणयुक्तानामपि क्रूरजनेभ्यः भयं विद्यते।
(हिंसापराः अकारणमेव सर्वेभ्यः अहितमाचरन्ति। कश्चित् सच्छीलोऽपि भवतु, अपकृतेराचरणं विनापि, नृशंसः तं न त्यजति। अतः सावधानेन भाव्यमिति यावत्।) ॥१.७९॥

हिन्द्यर्थः--
मेरा कोई अपराध नहीं है- यह कोई कारण नहीं है आश्वासन का। गुणवान व्यक्तियों को भी क्रूरजनों से भय होता ही है॥

हितोपदेश-सुभाषित-श्लोकाः - 1.78

मूलम्--
सुहृदां हितकामानां यः शृणोति न भाषितम् ।
विपत् सन्निहिता तस्य स नरः शत्रुनन्दनः ॥१.७८॥

पदविभागः--
सुहृदां हित-कामानां यः शृणोति न भाषितम् । विपत् सन्निहिता तस्य सः नरः शत्रु-नन्दनः ॥१.७८॥

अन्वयः--
यः हित-कामानां सुहृदां भाषितं न शृणोति, तस्य विपत् सन्निहिता (इति ज्ञातव्यम्)। सः नरः शत्रु-नन्दनः ॥१.७८॥

प्रतिपदार्थः--
सुहृदां = मित्राणां ; हितकामानां= हितैषिणाम् ; भाषितम् = उपदेशम् ; विपत् = कष्टं ; सन्निहिता समीपवर्ति ; शत्रुनन्दनः = शत्रुभ्यः हर्षप्रदः (विपन्नं तं दृष्ट्वा शत्रवो नन्दन्तीत्यर्थः) ॥१.७८॥

तात्पर्यम्--
शुभचिन्तकानां मित्राणां उक्तीः यः नाकर्णयति, तस्य जीवने दुःखकरसमयः समीपे अस्तीति ज्ञातव्यम्। सः अरीणां मनःसु सन्तोषं जनयति ॥१.७८॥

हिन्द्यर्थः--
जो लोग अपने हित चाहने वाले मित्रों का कहना नहीं सुनते हैं, उनके ऊपर विपत्ति अवश्य आती है और वे अपने शत्रुओं के आनन्द के कारण ही होते हैं ॥१.७८॥