Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.77

मूलम्--
उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसङ्कटे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥१.७७॥

पदविभागः--
उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-सङ्कटे । राजद्वारे श्मशाने च यः तिष्ठति सः बान्धवः ॥१.७७॥

अन्वयः--
यः- उत्सवे, व्यसने प्राप्ते, दुर्भिक्षे, शत्रु-सङ्कटे, राजद्वारे, श्मशाने च- तिष्ठति, सः बान्धवः ॥१.७७॥

प्रतिपदार्थः--
उत्सवे = विवाहादौ आनन्दसमये ; व्यसने = विपत्तौ ; दुर्भिक्षे = अनावृष्टौ, अन्नकष्टे, अकाले ; राष्ट्रविप्लवे = राज्यभङ्गे, राजपरिवर्तनावसरे ; राजद्वारे = बन्धनागारे, धर्माधिकरणे वा ; श्मशाने = पितृवने, प्रियमरणे ; तिष्ठति = साहय्यमाचरति ॥१.७७॥

तात्पर्यम्--
सन्तोषवेलायां, कष्टसमये, अन्नाभावकाले, राज्यसङ्कटे स्थिते, राज्ञः पुरतः, गृहे बन्धुववियोगे-- यः (पार्श्वे) भवति (धैर्यं संवर्धयन्, हितमाचरति) स एव मित्रं, बान्धवो वा ॥१.७७॥

हिन्द्यर्थः--
हर्ष में, शोक में, दुर्भिक्ष पड़ने पर, राज्य क्रान्ति के समय, राज-द्वार (कचहरी) में और श्मशान में जो साथ देता है, वही सच्चा मित्र है ॥१.७७॥

हितोपदेश-सुभाषित-श्लोकाः - 1.76

मूलम्--
आपत्सु मित्रं जानीयाद् रणे शूरं ऋणे शुचिम् ।
भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥१.७६॥


पदविभागः--
आपत्सु मित्रं जानीयाद् रणे शूरं ऋणे शुचिम् । भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥१.७६॥

अन्वयः--
मित्रम् आपत्सु जानीयात्। शूरं रणे (जानीयात्)। शुचिम् ऋणे (जानीयात्)। भार्यां क्षीणेषु वित्तेषु (जानीयात्)। बान्धवान् च व्यसनेषु (जानीयात्) ॥१.७६॥

प्रतिपदार्थः--
जानीयात् = (अत्र) परीक्षेत ; शुचिम् = शुद्धव्यवहारम् ; क्षीणेषु = विनष्टेषु ; वित्तेषु = धनेषु ; व्यसनेषु = विपत्तिषु ; 'जानीया'दिति शेषः ॥१.७६॥

तात्पर्यम्--
(कस्य वास्तवं स्वभावं कस्मिन् स्थितौ ज्ञायेत इति उच्यते क्रमेण) सङ्कटे स्थितौ सुहृदं, युद्धकाले वीरं, ऋणप्रसङ्गे (स्वीकारे अथवा प्रत्यर्पणवेलायां) स्पष्टव्यवहारं, धनहानौ पत्नीं, महद्दुःखवेलायां बन्धुजनान् च ज्ञायेत। ॥१.७६॥

हिन्द्यर्थः--
आपत्ति में-मित्र को, युद्ध में-वीर को, ऋण में-साफ और निष्कपट को, निर्धनता में-स्त्रीको, दुःख पड़ने पर-भाई बन्धुओं को पहचानना चाहिये ॥१.७६॥

हितोपदेश-सुभाषित-श्लोकाः - 1.75

मूलम्--
न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद् रिपुः ।
व्यवहारेण मित्राणि जायन्ते रिपवस्तथा ॥१.७५॥

पदविभागः--
न कश्चित् कस्यचित् मित्रं न कश्चित् कस्यचिद् रिपुः । व्यवहारेण मित्राणि जायन्ते रिपवः तथा ॥१.७५॥

अन्वयः--
कश्चित् कस्यचित् मित्रं न (भवति)। कश्चित् कस्यचिद् रिपुः न (भवति) । व्यवहारेण (एव) मित्राणि रिपवः (वा) तथा जायन्ते ॥१.७५॥

प्रतिपदार्थः--
मित्रं = स्वभावतो मित्रम् ; रिपुः = सहजो शत्रुः ; व्यवहारेण = हित-अहित-आचरणेन, कार्यकारणभावेन च ॥१.७५॥

तात्पर्यम्--
कोऽपि कस्यापि सहजमेव सुहृद् वा, अरिर्वा न भवति। (परस्परं) यथा समाचरति, (तस्य फलतः) सौहार्दभावो वा अमित्रभावो वा (तन्मध्ये) समुत्पद्यते ॥१.७५॥

हिन्द्यर्थः--
स्वभाव से तो न कोई किसी का मित्र है और न कोई किसी का शत्रु ही है । शत्रुता और मित्रता तो व्यवहार (कार्य) से ही होती है ॥१.७५॥

हितोपदेश-सुभाषित-श्लोकाः - 1.74

मूलम्--
अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥१.७४॥

पदविभागः--
अयं निजः परः वा इति गणना लघु-चेतसाम् । उदार-चरितानां तु वसुधा एव कुटुम्बकम् ॥१.७४॥

अन्वयः--
अयं निजः परः वा इति लघु-चेतसां गणना । उदार-चरितानां तु वसुधा एव कुटुम्बकम् ॥१.७४॥

प्रतिपदार्थः--
अयं = अयं जनः ; निजः = आत्मीयः, अयं परः = अयं जनः अपरः, शत्रुर्वा ; इति = इत्येवं ; लघुचेतसां = सङ्कुचित-चित्तानां, तुच्छानां ; गणना = विचारो भवति ; उदार-चरितानां = महानुभावानां, महतान्तु ; वसुधैव = सकलं जगदपि ; कुटुम्बकम् = कुटुम्बतुल्यमेव ; सर्वत्रैव तेषामात्मीयभाव इत्यर्थः ॥१.७४॥

तात्पर्यम्--
(मनुष्यान् दृष्ट्वा) एषः मदीयः, एषः इतरः इति अधमानां चिन्तनं भवति। ये उन्नतचेताः तेषां (दृष्टौ) संसारः सर्वः स्वकुलम् इव वर्तते ॥१.७४॥

हिन्द्यर्थः--

'यह मेरा है', 'यह दूसरा है' यह विचार तो छोटे लोगों का ही होता है । बड़े लोगों का तो संसार ही अपना कुटुम्ब है ॥१.७४॥

हितोपदेश-सुभाषित-श्लोकाः - 1.73

मूलम्--
यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि ।
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ॥१.७३॥

 
पदविभागः-- 

यत्र विद्वज्जनः नास्ति श्लाघ्यः तत्र अल्पधीः अपि । निरस्त-पादपे देशे एरण्डः अपि द्रुमायते ॥१.७३॥

अन्वयः-- 

यत्र विद्वज्जनः नास्ति, तत्र अल्पधीः अपि श्लाघ्यः । निरस्त-पादपे देशे एरण्डः अपि द्रुमायते ॥१.७३॥

प्रतिपदार्थः-- 

विद्वज्जनः = पण्डितजनः ; श्लाघ्यः = प्रशंसार्हः ; अल्पधीः अपि = मन्दबुद्धियुक्तः, तुच्छमतिः अपि ; निरस्तपादपे = वृक्षशून्ये ; एरण्डः = पञ्चाङ्गुलः ; द्रुमायते = द्रुम इव आचरति, वृक्षशब्दं धत्ते ; एवञ्च भवान् ॥१.७३॥

तात्पर्यम्-- 

यस्मिन् प्रदेशे बहुश्रुतः नास्ति, तत्र लघुवेत्तापि विख्यायते । (अत्र उदाहरणम्) यत्र वृक्षाः न विद्यन्ते, तत्र एरण्डोऽपि वृक्षत्वं प्राप्नोति ॥१.७३॥

हिन्द्यर्थः-- 

जहाँ कोई योग्य विद्वान् नहीं है, वहाँ अल्प बुद्धि वाले पुरुष की भी प्रशंसा होती है। जिस जगह वृक्ष नहीं हैं, वहाँ रेंड भी वृक्ष कहा जाता है ॥१.७३॥

हितोपदेश-सुभाषित-श्लोकाः - 1.72

मूलम्--
स्वच्छन्दवनजातेन शाकेनापि प्रपूर्यते ।
अस्य दग्धोदरस्यार्थे कः कुर्यात् पातकं महत् ॥१.७२॥

 

पदविभागः--
स्वच्छन्द-वन-जातेन शाकेन अपि प्रपूर्यते । अस्य दग्ध-उदरस्यार्थे कः कुर्यात् पातकं महत् ॥१.७२॥

अन्वयः--

स्वच्छन्द-वन-जातेन शाकेन अपि (उदरं) प्रपूर्यते । (एवं स्थिते) अस्य दग्ध-उदरस्यार्थे कः महत् पातकं कुर्यात्? (न करोतीति भावः) ॥१.७२॥

प्रतिपदार्थः-- 

स्वच्छन्द-वन-जातेन = स्वतन्त्रतया वने उद्भूतेन सुलभेन ; शाकेन = फलमूल-शाकादिना, वृक्षोत्पदनेन ; प्रपूर्यते = यत्परिपूर्णं भवति ; तस्य दग्धोदरस्य = उदरहतकस्य, धिग् अस्य उदरस्य ; अर्थे = निमित्तं ; कः = कः सचेताः पुमान् ; महत् = नितरां गुरु ; पातकं = प्राणिवध-रूपं पापम् ; कुर्यात् = आचरेत् ; (न कश्चिदपि सहृदयः कुर्यादित्यर्थः) ॥१.७२॥

तात्पर्यम्--
स्वयमेव (विना कृषकेण, श्रमेण वा) अरण्ये उत्पन्नेन सस्येन जठरस्य भरणं भवति। (एवं सति) कः (बुद्धिहीनः) कुक्ष्यै (क्षुधापूर्तये जीवहननरूपकं) पापं विदधाति? ॥१.७२॥

हिन्द्यर्थः--
बिना बोये-जोते स्वयं वन में उत्पन्न हुए साग से भी जब यह पेट भरा जा सकता है, तो इस पापी पेट के लिये इतना बड़ा पाप कौन समझदार मनुष्य करेगा? अर्थात् इस पापी पेट के लिए किसी को भी ऐसा जघन्य काम नहीं करना चाहिये। ॥१.७२॥

हितोपदेश-सुभाषित-श्लोकाः - 1.71

मूलम्--
मर्तव्यमिति यद् दुःखं पुरुषस्योपजायते ।
शक्यते नानुमानेन परेण परिवर्णितुम् ॥१.७१॥

 

पदविभागः--
मर्तव्यम् इति यद्-दुःखं पुरुषस्य उपजायते । शक्यते न अनुमानेन परेण परिवर्णितुम् ॥१.७१॥

अन्वयः--
पुरुषस्य यत् मर्तव्यम् इति दुःखम् उपजायते, परेण अनुमानेन परिवर्णितुं न शक्यते ॥१.७१॥

प्रतिपदार्थः--
'मया मर्त्तव्यमिदानी'मिति ज्ञात्वा, यत् = यादृशं ; दुःखं = मनःक्लेशः ; पुरुषस्य = जन्तोः ; उपजायते = भवति ; तेन = तद्धेतुकेन ; अनुमानेन = अनुमित्या ; परोऽपि = मृगपक्ष्यादिरपि ; शक्यः = योग्यः ;
    'मरणाद्यथा मम दुःखं, तथैव परस्यापीति विज्ञाय परोऽपि स्वात्मवदेव रक्षणीय इत्याशयः ॥१.७१॥

तात्पर्यम्--
मनुष्यस्य या मरणविषया पीडा अनुभूयते, सा (यः तं क्लेशम् अधुना नानुभवति तेन) अन्यजनेन (‘इदमित्थम् एवंरूपेण दुःखं भवती’ति शब्दैः) प्रकटयितुं न शक्या ॥१.७१॥

हिन्द्यर्थः--
'मुझको मरना होगा' यह सोच कर मरने वाले मनुष्य को जो दुःख होता है, उसको दूसरा मनुष्य केवल अनुमान से वर्णन नहीं कर सकता है ॥१.७१॥

{ माम् सः भक्षयिताsमुत्र यस्य मांसम् इह अद्मि अहम् ।
इति मांसस्य मांसत्वम् प्रवदन्ति मनीषिणः ।।
अद्मि - खादामि
वह परलोक में मुझे खाएगा जिसका मांस मैं इस लोक में खा रहा हुँ ।बुद्धिमान लोगों का कहना है इसी कारण से मांस को माम् (मुझको) + सः (वह) कहते हैं ।}