Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.70

मूलम्--
योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम् ।
एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते ॥१.७०॥


पदविभागः--
यः अत्ति यस्य यदा मांसम् उभयोः पश्यतान्तरम् । एकस्य क्षणिका प्रीतिः अन्यः प्राणैः विमुच्यते ॥१.७०॥

अन्वयः--
यः यदा यस्य मांसम् अत्ति उभयोः अन्तरं पश्यत । एकस्य क्षणिका प्रीतिः (भवति) । अन्यः प्राणैः विमुच्यते ॥१.७०॥

प्रतिपदार्थः--
यः = पुमान् ; यस्य = मृगादेः ; यदा = यस्मिन् समये ; अत्ति = भक्षयति ; उभयोः = भक्ष्यभक्षकयोः ; अन्तरं = भेदम् ; पश्यत = विलोकयत ; एकस्य = भक्षकस्य पुंसः तु ; क्षणिका = भक्षण-मात्रस्थायिनी एव ; प्रीतिः = तृप्तिः ; परम्- अन्यः = मृगादिः भक्ष्यभूतः पशुस्तु ॥१.७०॥

तात्पर्यम्--
कश्चन जीवः यदा अन्यप्राणिनः मांसं खादति, तदा द्वयोः मध्ये भेदः एवमस्ति। यः मांसभुक्, सः तात्कालिकं बुभुक्षाशमनरूपम् आनन्दमनुभवति। किन्तु यं जीवं स भुङ्क्ते, स जीवः प्राणान् त्यजति (मरणं प्राप्नोति इति तस्य सर्वदा नाशः) ॥१.७०॥

हिन्द्यर्थः--

एक प्राणी जब दूसरे प्राणी का मांस खाता है, तो उस समय उन दोनों का भेद देखिये। एक (खानेवाले) को तो क्षणभर का आनन्द (आस्वाद) मिलता है, परन्तु दूसरा (भक्ष्य प्राणी) सर्वदा के लिये इस संसार से चला जाता है ॥१.७०॥

हितोपदेश-सुभाषित-श्लोकाः - 1.69

मूलम्--
एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः ।
शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ॥१.६९॥


पदविभागः--
एकः एव सुहृद् धर्मः निधने अपि अनुयाति यः । शरीरेण समं नाशं सर्वम् अन्यत् तु गच्छति ॥१.६९॥

अन्वयः--
धर्मः एक एव सुहृद् यः निधने अपि अनुयाति । सर्वम् अन्यत् तु शरीरेण समं नाशं गच्छति ॥१.६९॥

प्रतिपदार्थः--
एकः एव = केवलः ; निधनेऽपि = मरणेऽपि ; अनुयाति = प्राणिभिः सह गच्छति ; समं= सार्द्धम् ; अन्यत् = धनादिकम् ; गच्छति = याति ॥१.६९॥

तात्पर्यम्--
(नश्वरे अस्मिन् लोके) धर्मः (पुण्यं) मरणेऽपि प्राप्ते जीवेन साकं गच्छति। तद्भिन्नं समस्तं कायनाशं समनन्तरमेव विनश्यति ॥१.६९॥

हिन्द्यर्थः--
और धर्म ही केवल एक ऐसा मित्र है, जो मरने पर भी साथ देता है। और सब सम्पत्ति तो शरीर के साथ ही नष्ट हो जाती है ॥१.६९॥

हितोपदेश-सुभाषित-श्लोकाः - 1.65

मूलम्--
उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः ।
पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥१.६५॥

पदविभागः--
उत्तमस्य अपि वर्णस्य नीचः अपि गृहम् आगतः । पूजनीयः यथायोग्यं सर्वदेवमयः अतिथिः ॥१.६५॥

अन्वयः--
उत्तमस्य वर्णस्य अपि गृहम् आगतः नीचः अपि यथायोग्यं पूजनीयः । अतिथिः सर्वदेवमयः ॥१.६५॥

प्रतिपदार्थः--
उत्तमस्यापि वर्णस्य = श्रेष्ठस्यापि ब्राह्मणादेर्वर्णस्य ; गेहे = गृहे ; नीचोऽपि = स्वतो निकृष्टः चाण्डालादिः अपि ; यथायोग्यं = यथोचितम् ; पूजनीयः = पूज्यः ; कुत एतदत आह- सर्वेति । सर्वदेवमयः = सर्वदेवस्वरूपः ॥१.६५॥

तात्पर्यम्--
अग्रवर्णस्य कस्यचित् गृहं प्रति इपि (कदाचित्) अन्त्यवर्णः कश्चित् आगच्छति चेत्, सः यथार्हं सत्क्रियापात्रमेव भवति । अभ्यागतस्तु सर्वदेवस्वरूपः ॥१.६५॥

हिन्द्यर्थः--
उत्तम वर्ण (ब्राह्मण आदि) के घर में यदि नीच वर्ण (चाण्डालादिक) भी अतिथि होकर आये तो उसका भी यथायोग्य सत्कार करना चाहिये, क्यों कि अतिथि सब देवताओंका रूप है ॥१.६५॥

हितोपदेश-सुभाषित-श्लोकाः - 1.64

मूलम्--
अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते ।
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥१.६४॥

पदविभागः--
अतिथिः यस्य भग्नाशः गृहात् प्रतिनिवर्तते । सः दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति ॥१.६४॥

अन्वयः--
यस्य अतिथिः भग्नाशः (सन्) गृहात् प्रतिनिवर्तते, सः (अतिथिः) तस्मै (गृहस्थाय) दुष्कृतं दत्त्वा, पुण्यम् आदाय (च) गच्छति ॥१.६४॥

प्रतिपदार्थः--
यस्य = पुंसः ; गृहात् = निवासात् ; अतिथिः = अभ्यागतः ; भग्नाशः = निराशः सन् ; प्रतिनिवर्त्तते = पुराङ्मुखो गच्छति ; सः = अतिथिः ; तस्मै = गृहस्वामिने ; दुष्कृतं = स्वपापम् ; दत्त्वा = प्रदाय ; पुण्यं = गृहस्वामिनः पुण्यम् ; आदाय गच्छति = अपहरति, स्वीकृत्य निर्गच्छति ॥१.६४॥

तात्पर्यम्--
यदि (गृहमागतः) कश्चित् अतिथिः (केनचित्कारणेन) उपहतः सन् निर्गच्छति, तर्हि सः गृहस्थाय पापं दत्त्वा, (गहस्थेनाचरितं) सुकृतं च नीत्वा गच्छति ॥१.६४॥

हिन्द्यर्थः--
जिस गृहस्थ के घर से अतिथि निराश होकर लौट जाता है, तो वह अतिथि उस गृहस्थ को अपना पाप देकर और उसका पुण्य लेकर चला जाता है । [अर्थात् अतिथि को निराश करने से बड़ा पाप होता है ॥१.६४ ॥]

हितोपदेश-सुभाषित-श्लोकाः - 1.63

मूलम्-- 
निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥१.६३॥

पदविभागः--
निर्गुणेषु अपि सत्त्वेषु दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां चन्द्रः चाण्डाल-वेश्मनः ॥१.६३॥

अन्वयः--
साधवः निर्गुणेषु अपि सत्त्वेषु दयां कुर्वन्ति । चन्द्रः ज्योत्स्नां चाण्डाल-वेश्मनः न हि संहरते ॥१.६३॥


प्रतिपदार्थः--
अपरं च– साधवः निर्गुणेषु अपि सत्त्वेषु दयां कुर्वन्ति । चन्द्रः चाण्डाल-वेश्मनः ज्योत्स्नां न हि संहरते ॥१.६३॥
साधवः = सन्तः ; निर्गुणेष्वपि = अयोग्येष्वपि, नीचेष्वपि च ; सत्त्वेषु = भूतेषु ; दयां कुर्वन्ति = करुणां प्रदर्शयन्ति ; हि = यतः ; चन्द्रः = इन्दुः ; चाण्डाल-वेश्मनः = पतितान्तावसायिगेहात्। ज्योत्स्नां = स्वचन्द्रिकां ; न संहरते = न सङ्कोचयति ॥१.६३॥

तात्पर्यम्--
सज्जनाः गुणहीनेषु प्राणिषु अपि अनुकम्पां दर्शयन्ति। (अत्र उदाहरणम्-) इन्दुः कौमुदीं (सर्वत्र प्रसारयति) अत्यजगृहेषु अपि (अयोग्यानीति अमत्वा) स्वकान्तिं नोपसंहरति ॥१.६३॥

हिन्द्यर्थः--
महात्मा लोग गुणहीन (साधारण पामर, तुच्छ) जीवों पर भी सदा दया ही करते हैं । देखो, चन्द्रमा चाण्डाल केघर से भी अपनी किरणों को नहीं हटाता है । अर्थात् चन्द्रमा की शीतल किरण गुणी व निर्गुण सभी के ऊपर समान ही पड़ती हैं ॥१.६३॥

हितोपदेश-सुभाषित-श्लोकाः - 1.62

मूलम्--
बालो वा यदि वा वृद्धो युवा वा गृहमागतः ।
तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥१.६२॥


पदविभागः--

बालः वा यदि वा वृद्धः युवा वा गृहम् आगतः । तस्य पूजा विधातव्या सर्वस्य आभ्यागतः गुरुः ॥१.६२॥

अन्वयः--

यदि बालः वा, वृद्धः वा, युवा वा गृहम् आगतः, (तर्हि) तस्य पूजा विधातव्या । आभ्यागतः सर्वस्य गुरुः (वर्तते) ॥१.६२॥

प्रतिपदार्थः--

गृहमागतः = स्वगृह-द्वारि समुपस्थितः, अतिथिः ; तस्य = अतिथेः ; पूजा = सत्क्रिया ; विधातव्या = कर्तव्या ; अभ्यागतः = अन्य-ग्रामादागतः अतिथिः ; गुरुः = पूज्यः ॥१.६२॥

तात्पर्यम्--

गेहस्य पुरतः आगतः अतिथिः बालकः, युवा, वृद्धो वा भवतु- तस्य समुचितः सत्कारः कर्तव्यः। अभ्यागतः सर्वेषां (सर्ववर्णाश्रमधर्मिणां) पूज्यः वर्तते ॥१.६२॥

हिन्द्यर्थः-- 

अतिथि यदि बालक हो या वृद्ध हो या जवान हो, वह यदि अपने घर पर आ जाय, तो उसकी पूजा अवश्य करनी चाहिये। क्यों कि अतिथि सभी का गुरु और पूज्य होता है ॥१.६२॥

हितोपदेश-सुभाषित-श्लोकाः - 1.61

मूलम्--
तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥१.६१॥


पदविभागः--
तृणानि भूमिः उदकं वाक् चतुर्थी च सूनृता । एतानि अपि सतां गेहे न उच्छिद्यन्ते कदाचन ॥१.६१॥

अन्वयः--
सतां गेहे- तृणानि, भूमिः, उदकं, वाक्, चतुर्थी च सूनृता - एतानि अपि कदाचन न उच्छिद्यन्ते ॥१.६१॥

प्रतिपदार्थः--
तृणानि = आस्तरणार्थं पलाल-कुशादीनि ; भूमिः = निवास-स्थानम् ; उदकं = पानाद्यर्थे शीतलं पयः ; एतत् त्रितयं ; किञ्च-चतुर्थी- ; सूनृता = प्रिया, सत्या च ; वाक् = वाणी ; ['सूनृतं मङ्गलेऽपि स्यात् प्रियसत्ये वचस्यपी'ति मेदिनी] ; एतानि = चत्वारि ; अपि = तु ; सतां = साधूनां ; गेहे = गृहे ; न उच्छिद्यन्ते कदाचन = न कदाचन विरलीभवन्ति ; सदैव सुलभानि एव इत्याशयः ॥१.६१॥

तात्पर्यम्--
सज्जनानां गृहे- (उपवेशनाय, शयनाय च) तृणानि, (वासयोग्या) धरा, (तृषाशान्त्यर्थं) जलं, मधुरा च वाणी- एतानि वस्तूनि कदापि अनुपलब्धतां न यान्ति ॥१.६१॥

हिन्द्यर्थः--
बिछाने के लिए और बैठने के लिए पुआल आदि घास फूस, रहने को स्थान, जल- ये तीन चीज़ और चौथा मीठा वचन, इन चार चीज़ों की कमी तो सज्जनों के घर में कभी भी नहीं होती है । अर्थात् कुछ भी घर में देने को न हो तो भी इन चार वस्तुओं से ही अतिथि का सत्कार करना चाहिये ॥१.६१॥