Sunday, December 29, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.60

मूलम्--
अरावप्युचितं कार्यमातिथ्यं गृहमागते ।
छेत्तुः पार्श्वगताच्छायां नोपसंहरते द्रुमः ॥१.६०॥

पदविभागः--
अरौ अपि उचितं कार्यम् आतिथ्यं गृहम् आगते । छेत्तुः पार्श्वगतात् छायां न उपसंहरते द्रुमः ॥१.६०॥

अन्वयः--
अरौ अपि गृहम् आगते (सति) उचितं आतिथ्यं कार्यम् । द्रुमः छेत्तुः अपि पार्श्वगतात् छायां न उपसंहरते ॥१.६०॥

प्रतिपदार्थः--
अराविति । अरौ = शत्रौ-अपि ; गृहमागते सति- उचितं = योग्यम्, आतिथ्यम् = अतिथिसत्कारः ; द्रुमः = वृक्षः ; पार्श्वगतात् = निकटस्थितात् ; छेत्तुः = स्वच्छेदकात्, तक्ष्णः सकाशादपि ; स्वच्छायां नोपसंहरते = न सङ्कोचयति ॥१.६०॥

तात्पर्यम्--
(गृहस्थ-धर्मः च एषः–) यदा शत्रुः गृहमागच्छति, तदापि योग्या सत्क्रिया कार्या । (अत्रोपमानम्) यदा (तरुं खण्डशः कर्तुं) छेदकः परितः आगच्छति, तदापि वृक्षः (तं) छायां (प्रददाति), न निवर्तयति ॥१.६०॥

हिन्द्यर्थः--
शत्रु भी यदि अपने धर पर आ जाए तो उसका भी उचित आतिथ्य सत्कार करना चाहिए । देखो- वृक्ष अपने काटने वाले बढई, सुतार आदि की ओर से भी अपनी सुशीतल छाया को कभी नहीं हटाता है ॥१.६०॥

हितोपदेश-सुभाषित-श्लोकाः - 1.59

मूलम्-- 
जातिमात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् ।
व्यवहारं परिज्ञाय वध्यः पूज्योऽथवा भवेत् ॥१.५९॥


पदविभागः-- 

जाति-मात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् । व्यवहारं परिज्ञाय वध्यः पूज्यः अथवा भवेत् ॥१.५९॥

अन्वयः--

जाति-मात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् । व्यवहारं परिज्ञाय वध्यः पूज्यः अथवा भवेत् ॥१.५९॥

प्रतिपदार्थः--

कश्चिदपि ; क्वचित् = कस्मिंश्चित् स्थलेऽपि ; जातिमात्रेण = 'अयं एवंजातीय' इत्येतावन्मात्रेणैव ; किं वध्यते = किं हन्यते ; किं पूज्यते = किं सत्क्रियते ; नैवेत्यर्थः ; व्यवहारं = तदाचारम् ; परिज्ञाय = दृष्ट्वा, अनुरुध्यैव वध्यः = हन्तव्यः ; पूज्यः = सत्कारयोग्यः ॥१.५९॥

तात्पर्यम्--

जन्ममात्रेण प्राप्तेन जीवाकारेण एव कोऽपि सत्क्रियार्हत्वं वा, हन्तव्यत्वं वा न प्राप्नोति । तस्य प्रवृत्त्या ज्ञायते यत् सः व्यापादितव्य उत सत्कारपात्रं वेति ॥१.५९॥

हिन्द्यर्थः--

क्योंकि-कोई भी व्यक्ति जातिमात्र ही से मारने वा पूजने लायक नहीं होता है, किन्तु उनका व्यवहार देख कर ही उसे मारना या पूजना चाहिए ॥१.५९॥

हितोपदेश-सुभाषित-श्लोकाः - 1.58

मूलम्--
तावद् भयस्य भेतव्यं यावद् भयमनागतम् ।
आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ॥१.५८ ॥


पदविभागः-- 

तावद् भयस्य भेतव्यं यावद् भयम् अनागतम् । आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ॥१.५८॥

अन्वयः-- 

यावद् भयम् अनागतं, तावद् भयस्य भेतव्यम् । आगतं भयं तु वीक्ष्य नरः यथोचितं कुर्यात् ॥१.५८॥

प्रतिपदार्थः-- 

भयस्य = भयजनकस्य चौरव्याघ्रादेः ; भेतव्यं = भीतिः कार्या ; भयं = भयप्रदं चोरव्याघ्रादिकम्, आगतम् = उपस्थितम् ; वीक्ष्य = दृष्ट्वा तु ; यथोचितं = यथायोग्यं तत्प्रतीकारोपायम् ; कुर्यात् = विदधीत ॥१.५८॥

तात्पर्यम्-- 

धैर्यहारकं, भीतिजनकं च यद्यद् कारणं भवति, तस्य आगमनात् पूर्वमेव भीतिर्न कार्या। (तस्मात् प्राक् धैर्यं वोढव्यम् ।) तस्मिन् आगते सति सकृत् परिशील्य यद् योग्यं तत् कर्तव्यम् ॥१.५८॥

हिन्द्यर्थः--
जब तक विपत्ति नहीं आये तभी तक उससे डरना चाहिये। पर यदि विपत्ति आ ही पड़े, तो मनुष्य को निर्भय होकर उसका यथोचित प्रतीकार करना चाहिए ॥१.५८॥

हितोपदेश-सुभाषित-श्लोकाः - 1.55

मूलम्--
यद्येन युज्यते लोके बुधस्तत् तेन योजयेत् ।
अहमन्नं भवान् भोक्ता कथं प्रीतिर्भविष्यति ॥१.५५॥
भक्ष्यभक्षयोः प्रीतिर्विपत्तेः कारणं मतम् ।

पदविभागः--
यद् येन युज्यते लोके बुधः तत् तेन योजयेत् । अहम् अन्नं भवान् भोक्ता कथं प्रीतिः भविष्यति । भक्ष्य-भक्षयोः प्रीतिः विपत्तेः कारणं मतम् ॥१.५५॥

अन्वयः--लोके यद् येन युज्यते, बुधः तत् तेन योजयेत् । अहम् अन्नं (अस्मि), भवान् (तु) भोक्ता (अस्ति), (अतः) कथं प्रीतिः भविष्यति? भक्ष्य-भक्षयोः प्रीतिः विपत्तेः कारणं (इति) मतम् ॥१.५५॥

प्रतिपदार्थः--यत् = सौहृदादि ; येन = येन सह ; युज्यते = तुल्यं भवति ; योजयेत् = योजनं कुर्यात् ; अन्नं = भक्ष्यभूतः, आहारः ; भोक्ता = भक्षकः ; प्रीतिः = मैत्री, स्नेहश्च ; भक्ष्य-भक्षयोः = खादितस्य, खादतुः च मध्ये ; प्रीतिः = स्नेहभावः ; विपत्तेः = आपत्तेः ; कारणमिति मन्यते ॥१.५५॥

तात्पर्यम्--अस्मिन् संसारे प्रज्ञावान् योज्यवस्तूनि एव परस्परं योजयति, नान्यानि, विरुद्धानि वा। आवयोः सा स्थितिः नास्ति, यत् साम्यं लेशमपि भवेत्। भवतः अहं आहारोऽस्मि। भवान् मां खादति। कथं साध्यमिति यावत् । अतः आवयोः मिथः स्नेहभावः न युक्तः ॥१.५५॥

हिन्द्यर्थः--क्योंकि-पण्डित को चाहिये कि जिसके साथ मेल (मित्रता) हौ सकता है, उसके ही साथ मेल करे । परन्तु मैं तो आपका अन्न (भक्ष्य) हूँ और आप मेरे भक्षक हैं । भला हमारी तुमारी मित्रता कैसे हो सकती है? ॥१.५५॥
🙏

Wednesday, December 4, 2019

हितोपदेश-सुभाषित-श्लोकाः - 1.54


यानि कानि च मित्राणि कर्त्तव्यानि शतानि च ।

पश्य मूषिकमिज्रेण कपोता मुक्तवन्धनाः ॥१.५४॥

यानि कानि च मित्राणि कर्त्तव्यानि शतानि च । पश्य, मूषिक-मित्रेण कपोताः मुक्तबन्धनाः ॥१.५४॥

यानि कानि च मित्राणि कर्त्तव्यानि शतानि च, पश्य मूषिक-मित्रेण कपोताः मुक्तबन्धनाः ॥१.५४॥

यानि कानि=निर्बलानि, सबलानि बा, योग्यानि, अयोग्यानि वा । शतानिध असङ्ख्यातानि । (सैकहो) । मुक्तबन्धनाः कृताः ॥१.५४॥

इसलिए मनुष्य को सभी प्रकार के अपने बहुत से मित्र करने चाहिये । देखो चित्रग्रीव के मित्र चूहेने कधूतरो को बन्धन से क्रुद्धा दिया या ॥१.५४॥

हितोपदेश-सुभाषित-श्लोकाः - 1.53

मूलम्--
व्योमैकान्तविहारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं
बध्यन्ते निपुणैरगाधसलिलात् मत्स्याः समुद्रादपि ।
दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥१.५३॥


पदविभागः--
व्योम-एकान्त-विहारिणः अपि विहगाः सम्प्राप्नुवन्ति आपदं बध्यन्ते निपुणैः अगाध-सलिलात् मत्स्याः समुद्राद् अपि । दुर्नीतं किम् इह अस्ति किं सुचरितं कः स्थानलाभे गुणः कालः हि व्यसन-प्रसारित-करः गृह्णाति दूराद् अपि ॥१.५३॥

अन्वयः--
विहगाः व्योम-एकान्त-विहारिणः अपि आपदं सम्प्राप्नुवन्ति । मत्स्याः अगाध-सलिलात् समुद्राद् अपि निपुणैः बध्यन्ते । इह दुर्नीतं किम् अस्ति? किं सुचरितं (अस्ति)? कः स्थानलाभे गुणः (अस्ति)? व्यसन-प्रसारित-करः कालः हि दूराद् अपि गृह्णाति ॥१.५३॥

प्रतिपदार्थः--
विहगाः = पक्षिणः ; व्योमैकान्त-विहारिणः अपि = दूरतर-गगनाङ्गण-विहारिणः अपि ; आपदं = प्राणसङ्कटं, जालबन्धनादि-विपदम् ; सम्प्राप्नुवन्ति = लभन्ते ; निपुणैः = कुशलैः ; अगाध-सलिलात् = अतल-स्पर्शिजल-पूर्यात् ; समुद्रादपि = सागरादपि ; मत्स्याः = मीनाः ; बध्यन्ते = जलात् अपनीय गृह्यन्ते ; लौकैरिति शेषः ; दुर्नीतं = दुश्चरितं ; सुचरितं = शोभनम् आचरणं वा- किम्? । स्थानलाभे = दुर्धर्ष-निरापद-दुरासद-दुर्गम-स्थानलाभे वा ; को गुणः = किं फलम्? ; कालः = मृत्युः ; व्यसन-प्रसारितकरः = विपदवसरे करौ प्रसार्य इव ; दूरादपि = दुर्गमादपि स्थानात् ; गृह्णाति = आदत्ते ॥१.५३॥

तात्पर्यम्--
पक्षिणः दूरे गगने डयमाना अपि सङ्कटे पतन्ति । अगाधे वारिनिधौ स्थिता अपि मीनाः धीवरैः प्रसारितैः जालैः निर्बध्यन्ते । इह लोके किं साधु, किमसाधु? अत्यन्तं योग्यस्थानप्राप्त्या किम्? मृत्युः दूरादपि विपत्तिरूपेण आगत्य करौ विस्तीर्य (अस्मान् अवश्यं) धरति ॥१.५३॥

हिन्द्यर्थः--
आकाश के एकान्त और अत्युच्च प्रदेश में विहार करने वाले पक्षी भी आपत्ति में फँस जाते हैं । चतुर लोग अथाह जल वाले समुद्र से भो मछलियों को पकड़ लेते हैं । इसलिये इस संसार में क्या अच्छा है? और क्या बुरा है? और क्या योग्य स्थान की प्राप्ति में भी लाभ है? अर्थात् कुछ नहीं । क्यों कि कालरूपी शत्रु व्यसन (विपत्ति) रूपी हाथ पसारे बैठा है, और वह मौका पाते ही दूर से भी प्राणियों को पकड़ लेता है ॥१.५३॥

हितोपदेश-सुभाषित-श्लोकाः - 1.52

मूलम्--
शशिदिवाकरयोर्ग्रहपीडनं
गजभुजङ्गमयोरपि बन्धनम् ।
मतिमतां च विलोक्य दरिद्रतां
विधिरहो बलवान् इति मे मतिः ॥१.५२॥


पदविभागः--
शशि-दिवाकरयोः ग्रहपीडनं गज-भुजङ्गमयोः अपि बन्धनम् । मतिमतां च विलोक्य दरिद्रतां विधिः अहो बलवान् इति मे मतिः ॥१.५२॥

अन्वयः--

शशि-दिवाकरयोः ग्रहपीडनं, गज-भुजङ्गमयोः अपि बन्धनम् । मतिमतां च दरिद्रतां विलोक्य “अहो, विधिः बलवान्” इति मे मतिः ॥१.५२॥

प्रतिपदार्थः--
शशिदिवाकरयोः = सूर्यचन्द्रमसोः ।
ग्रहपीडनं = राहुणा ग्रहणम् ;
गजभुजङ्गमयोः = हस्तिसर्पयोः ;
बन्धनं = निग्रहं च ;
विलोक्य = दृष्ट्वा ;
च = पुनः ;
मतिमतां = विदुषां ;
दरिद्रतां = दारिद्र्यं च ;
विलोक्य
= दृष्ट्वा ;
अहो = इति आश्चर्ये, खेदे वा ;
विधिः = दैवं ;
बलवान् = अनिवार्यम् इति ;
मे = मम ;
मतिः = निश्चयः ;
'ग्रहः, सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोरिति मेदिनी ; ॥१.५२॥


तात्पर्यम्--
दिनकर-निशाकरयोः (राहु)ग्रहेण ग्रसनं, नागद्वयोः (करिणः, भुजगस्य च ) (व्याधेन) निर्बन्धनं, पण्डितानां धनहीनता च— एतत् त्रितयं दृष्ट्वा (स्थितः अहं) ‘विधिः बलीयः’ इति निश्चिनोमि ॥१.५२॥

हिन्द्यर्थः--
क्योंकि-- और भी--चन्द्रमा और सूर्य को ग्रहण की पीडा, अर्थात् ग्रहण लगना, हाथों और साँपों का बन्धन,पण्डितों की भी दरिद्रता, इन सब बातों को देखकर मैं तो समझता हूँ कि भाग्य ही सबसे प्रबल है ॥१.५२॥