Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.36



मूलम्-
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।
तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥१.३६॥

पदविभागः-
अल्पानाम् अपि वस्तूनां संहतिः कार्य-साधिका । तृणैः गुणत्वम् आपन्नैः बध्यन्ते मत्त-दन्तिनः ॥१.३६॥

अन्वयः-
अल्पानाम् अपि वस्तूनां संहतिः कार्य-साधिका । गुणत्वम् आपन्नैः तृणैः मत्त-दन्तिनः बध्यन्ते ॥१.३६॥

प्रतिपदार्थः-
अल्पानां = स्वल्पानाम्, निर्बलानामपि ;
वस्तूनां = द्रव्याणां
;
संहतिः = सङ्घः ;
कार्यसाधिका = लक्ष्यसिद्धौ सहायिका
;
तृणैः = घासैः ;
गुणत्वमापन्नैः = संहत्या रज्जुत्वं प्राप्तैः ;
मत्तदन्तिनः = मदोन्मत्ता गजेन्द्रा अपि
;
बध्यन्ते = बन्धने स्थाप्यन्ते ॥१.३६॥

तात्पर्यम्-
अविशेषाणां वस्तूनामपि सङ्घीभवनेन (तेषां ह्रस्वत्वभावः निर्गच्छति, ततश्च) उन्नतं लक्ष्यमपि सुसाध्यं भवति। अत्रोदाहरणम्- मदयुक्ता गजाः (बलवन्तः सन्तः) अपि (अत्यल्पबलयुक्तानां) घासांशानां संयोजनेन या रज्जुः निर्मीयते तया बध्यन्ते॥१.३६॥

हितोपदेश-सुभाषित-श्लोकाः - 1.35



मूलम्-
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥१.३५॥

पदविभागः-
षड्-दोषाः पुरुषेण इह हातव्याः भूतिम् इच्छता । निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घ-सूत्रता ॥१.३५॥

अन्वयः-
भूतिम् इच्छता पुरुषेण इह षड्-दोषाः हातव्याः -- (ते एवं सन्ति) निद्रा, तन्द्रा, भयं, क्रोधः, आलस्यं, दीर्घ-सूत्रता (चेति) ॥१.३५॥

प्रतिपदार्थः-
षड्-दोषाः = तत्सङ्ख्याविशेषकाः अपाराधाः ;
भूतिम् = अष्टैश्वर्यम्
;
इच्छता = वाञ्छता ;
पुरुषेण
;
हातव्याः = परित्याज्याः ;
तन्द्रा = प्रमीला, निद्रेव नीरसभावः ;
आलस्यं = अलसत्वं
;
दीर्घसूत्रता = चिरक्रियता ; 'दीर्घसूत्रश्चिरक्रियः' इत्यमरः ॥१.३५॥

तात्पर्यम्-
यः अभिवृद्धिम् आकाङ्क्षति, तेन षट् अपराधा न कार्याः- (अधिक)निद्रा, नीरसभावः, भीतिः, कोपः, अलसत्वं, कार्यातिक्षेपः चेति॥१.३५॥

हितोपदेश-सुभाषित-श्लोकाः - 1.34



मूलम्-
सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् ।
तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥१.३४॥

पदविभागः-
सम्पदि यस्य न हर्षः विपदि विषादः रणे च भीरुत्वम् । तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम् ॥१.३४॥

अन्वयः-
यस्य सम्पदि न हर्षः, विपदि विषादः (न), रणे च भीरुत्वं (न), तं भुवन-त्रय-तिलकं सुतं जननी विरलं जनयति ॥१.३४॥

प्रतिपदार्थः-
सम्पदि = अर्थाभिवृद्धौ ; हर्षः = प्रमोदः, गर्वश्च ; विपदि = विपत्तौ, कष्टकाले ; विषादः = दुःखं, वैक्लव्यं ; रणे = समरभूमौ ; धीरत्वम् = धैर्यगुणः ; तम् = अनुत्सिक्तम् अकातरं, निर्भयञ्च ; भुवनत्रय-तिलकं = लोकत्रये रत्नतुल्यम् ; जननी = अम्बा ; सुतं = पुत्रं ; विरलं = कञ्चिदेव, स्वल्पमेव ; जनयति = प्रसूते ; ॥१.३४॥

तात्पर्यम्-
यः जीवने अभिवृद्धिकाले गर्वं न प्राप्नोति, आपत्काले पीडां नानुभवति, युद्धे धैर्यगुणं न मुञ्चति-- तादृशं पुत्रं माता बहु अल्पं प्रसूते (एतादृशानां जननम् अधिकं न भवति। लोके अल्पसङ्ख्याकास्ते।) ॥१.३४॥