Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.33

मूलम्-
विपदि धैर्यमथाभ्युदये क्षमा
सदसि वाक्पटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ
प्रकृतिसिद्धमिदं हि महात्मनाम् ॥१.३३॥

पदविभागः-
विपदि धैर्यम् अथ अभ्युदये क्षमा सदसि वाक्-पटुता युधि विक्रमः । यशसि च अभिरुचिः व्यसनं श्रुतौ प्रकृति-सिद्धम् इदं हि महात्मनाम् ॥१.३३॥

अन्वयः-
महात्मनाम् इदं हि प्रकृति-सिद्धम्-- विपदि धैर्यम्, अथ अभ्युदये क्षमा, सदसि वाक्-पटुता, युधि विक्रमः, यशसि च अभिरुचिः, श्रुतौ व्यसनम् ॥१.३३॥

प्रतिपदार्थः-
महात्मनां = महापुरुषाणाम् ;
इदं प्रकृतिसिद्धं = स्वभाव-सिद्धमेव
;
किन्तद् इत्यत आह- विपदीति ;
धैर्यं =धैर्यमवलम्ब्य तत्प्रतीकार-चिन्तनम्
;
अभ्युदये = सम्पत्तौ
;
क्षमा = परानुग्रहः, अभिमानविरहश्च ;
सदसि = सभायां वाक्पटुता = वाक्पाटवं, वचनचातुरी ;
युधि = युद्धे
, विक्रमः = पराक्रमः ;
यशसि = कीर्तौ ;
इच्छा = अभिलाषः
, यशोधनत्वमिति यावत् ;
श्रुतौ = शास्त्रे, व्यसनम् = निर्हेतुकोऽनुरागः ॥१.३३॥

तात्पर्यम्-
कष्टकाले धीरत्वं, अभिवृद्धौ सहनभावः, सभायां वचनसामर्थ्यं, समराङ्गणे पराक्रमः, कीर्तौ काङ्क्षा, शास्त्राध्ययने निरन्तरपरिश्रमः --एते सर्वे महाजनानां स्वभावलक्षणानि भवन्ति (एतेषां पृथक् शिक्षणस्य अभ्यासस्य वा आवश्यकता नास्ति महात्मनामिति यावत्) ॥१.३३॥

हितोपदेश-सुभाषित-श्लोकाः - 1.32



मूलम्-
स बन्धुर्यो विपन्नानामापदुद्धरणक्षमः ।
न तु भीतपरित्राणवस्तूपालम्भपण्डितः ॥१.३२॥

पदविभागः-
सः बन्धुः यः विपन्नानाम् आपद्-उद्धरण-क्षमः । न तु भीत-परित्राण-वस्तु-उपालम्भ-पण्डितः ॥१.३२॥

अन्वयः-
यो विपन्नानाम् आपद्-उद्धरण-क्षमः सः बन्धुः । भीत-परित्राण-वस्तु-उपालम्भ-पण्डितः न तु ॥१.३२॥

प्रतिपदार्थः-
यो विपन्नानां = विपद्-ग्रस्तानाम् ; आपदुद्धरणे = विपत्तिनिरासे, आपदः अपाकरणे ; क्षमः = शक्तः, स एव बन्धुः = सुबन्धुः ; यस्तु- भीतपरित्राणे = विपन्नस्य रक्षणावसरे, उपालम्भ-पण्डितः = नानाविध-तत्तिरस्कार-वाक्यप्रयोग-विशारदः, यः आक्षेपकर-वाक्यानि, पीडाकर-वचनानि वा वदति, तथा वचने यः कुशलः सः ; न तु = नैव बन्धुः ॥१.३२॥

तात्पर्यम्-
यः आपदि आपतितायां ततः अस्मान् उद्धर्तुं समर्थः, स एव वास्तवबन्धुः। यः तदकृत्वा पीडाकरवचनैः त्रस्तस्य इतोऽधिक-भयोत्पादने समर्थः, स बन्धुः नास्ति। (आपदि पतितस्य भीतिः वर्धते। तदानीं बन्धुना भयनिष्कासनं कार्यं, न पुनः तद्वर्धक-दुर्वचनप्रयोगः।)॥१.३२॥

हितोपदेश-सुभाषित-श्लोकाः - 1.31



मूलम्-
आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् ।
मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥१.३१॥

पदविभागः-
आपदाम् आपतन्तीनां हितः अपि आयाति हेतुताम् । मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥१.३१॥

अन्वयः-
आपतन्तीनाम् आपदां हितः अपि हेतुताम् आयाति । मातृजङ्घा हि वत्सस्य बन्धने स्तम्भीभवति ॥१.३१॥

प्रतिपदार्थः-
आपतन्तीनाम् = आगच्छन्तीनाम् ; हितः = हितकारकः, प्रियोऽपि ; हेतुतां = कारणताम् ; आयाति = प्राप्नोति, आगच्छति वा ; हि = यतः ; मातृजङ्घा = मातुः, गोः जङ्घा = पादाग्रभागः, काण्डम् ; वत्सस्य = स्वबाल-वत्सस्य ; स्तम्भी-भवति = गोदोहनकाले तत्र प्रायो वत्सस्य बन्धनाद् वत्सबन्धनस्तम्भतां याति । बन्धनोपकरण-शङ्कुभावं भजतीत्यर्थः ॥१.३१॥

तात्पर्यम्-
जीवने या विपत्तयः आगच्छन्ति, तेषां पृष्ठे कारणं हितमपि भवितुमर्हति, अर्थात् हितमपि तत्र विपदि कारणं भवति। अत्रोपन्यासः- गोः दुग्धनिःसारणे वत्सः विघ्नमुत्पादयतीति मत्वा सः धेनोः पादेन रज्ज्वा बध्यते। तदानीं मातुः पादः अपि वत्साय स्तम्भस्य कारणं भवति, गमनरोधनस्य च॥१.३१॥