Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.30

मूलम्-
आपदां कथितः पन्था इन्द्रियाणामसंयमः ।
तज्जयः सम्पदां मार्गो, येनेष्टं तेन गम्यताम् ॥१.३०॥

पदविभागः-
आपदां कथितः पन्थाः इन्द्रियाणाम् असंयमः । तत्-जयः सम्पदां मार्गः येन इष्टं तेन गम्यताम् ॥१.३०॥

अन्वयः-
इन्द्रियाणाम् असंयमः आपदां पन्थाः कथितः । तत्-जयः सम्पदां मार्गः येन इष्टं तेन गम्यताम् ॥१.३०॥

प्रतिपदार्थः-
इन्द्रियाणाम्= चक्षुरादीनाम् ;
असंयमः = अनिग्रहः ;
आपदां = विपदां, दुःखस्य च ;
पन्थाः = मार्गः ;
कथितः = (नीतिविद्भिः) प्रोक्तः ;
तज्जयः = इन्द्रियाणां जयः, इन्द्रिय-निग्रहश्च ;
सम्पदां= सम्पत्तीनां, कल्याणस्य च ;
मार्गः = पन्थाः ;
येन = येन पथा ;
इष्टम् = अभीष्टसिद्धिः
;
तेन गम्यताम् = तदनुस्रियताम्
;
यद्वा- येन इष्टं = सुखं भवेत्, तेन = इन्द्रियजयमार्गेण, गम्यतामित्यर्थो बोध्यः ॥१.३०॥

तात्पर्यम्-
कर्म-ज्ञानेन्द्रियाणाम् अनियन्त्रणं विपत्तीनां मार्ग इति (बुधैः) कथितः। इन्द्रियाणां जयः तु सम्पत्तीनां मार्गः। येन मार्गेण गन्तुमिच्छसि, तेन गच्छतु। (यदि विपत्तय इष्टाः, तर्हि पूर्वस्मिन् मार्गे गच्छतु। यदि सम्पत्तय इष्टाः तर्हि परस्मिन् मार्गे गच्छतु। परिणामस्तु तव पुरतः वर्तते।)॥१.३०॥

हितोपदेश-सुभाषित-श्लोकाः - 1.29



मूलम्-
न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् ।
यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते ॥१.२९॥

पदविभागः-
न गणस्य अग्रतः गच्छेत् सिद्धे कार्ये समं फलम् । यदि कार्य-विपत्तिः स्यात् मुखरः तत्र हन्यते ॥१.२९॥

अन्वयः-
गणस्य अग्रतः न गच्छेत् । कार्ये सिद्धे (सति) समं फलम् (प्राप्यते) । यदि कार्य-विपत्तिः स्यात्, तत्र मुखरः हन्यते ॥१.२९॥

प्रतिपदार्थः-
गणस्य = सङ्घस्य, समूहस्य, वर्गस्य ;
अग्रतः = अग्रे
, सर्वस्मात् पुरतः ;
कार्ये = कर्त्तव्ये कर्मणि ;
सिद्धे = निष्पन्ने सति
, सफलत्वे प्राप्तौ सति ;
समं = तुल्यं, समानं ;
कार्यविपत्तिः = कार्यहानिः, असाफल्यम् ;
मुखरः = अग्रणीः
, प्रवर्त्तकश्च, नायकः ;
हन्यते = वध्यते ॥१.२९॥

तात्पर्यम्-
न कदापि समूहे सर्वेभ्यः अग्रे भवितव्यम्। कार्ये सफलत्वं प्राप्ते सति तु (समूहसदस्यानां नायकस्य च) सर्वेषामपि फले समानता भवति। परन्तु कार्यनाशे तु अग्रे विद्यमानस्य नायकस्यैव क्षतिः न तु इतरेषाम्।
[अत्र पक्षीणां प्रसङ्गः। ‘कदापि तथा अग्रे मा गच्छतु’ इति न अस्यार्थः। अग्रे गमनस्य परिणामान् मनसि निधाय प्रवर्ततामिति, यदि धैर्यः अस्ति, तथैव गच्छतु इति वा भावना।] ॥१.२९॥

हितोपदेश-सुभाषित-श्लोकाः - 1.28

मूलम्-
असम्भवं हेममृगस्य जन्म
तथापि रामो लुलुभे मृगाय ।
प्रायः समापन्नविपत्तिकाले
धियोऽपि पुंसां मलिना भवन्ति ॥१.२८॥

पदविभागः-
असम्भवं हेममृगस्य जन्म तथापि रामः लुलुभे मृगाय । प्रायः समापन्न-विपत्ति-काले धियः अपि पुंसां मलिनाः भवन्ति ॥१.२८॥

अन्वयः-
हेममृगस्य जन्म असम्भवम्। तथापि रामः मृगाय लुलुभे । प्रायः समापन्न-विपत्ति-काले, पुंसां धियः अपि मलिनाः भवन्ति ॥१.२८॥

प्रतिपदार्थः-
हेममृगस्य = स्वर्णमृगस्य ; जन्म = उत्पत्तिः ; असम्भवम् = सम्भावनाविषयीभूतमपि न भवति ; तथापि रामः = सकल-ज्ञान-निधिः भगवान् दाशरथिः अपि ; मृगाय = स्वर्ण-मृगम् आदातुं ; लुलुभे = लोभमकरोत् ; प्रायः = बाहुल्येन ; समापन्न-विपत्ति-काले ~ समापन्नाः = सन्निहताः, आपतिताः, या विपदः, तासां कालः = समयः, तस्मिन् ; पुंसां = पुरुषाणां, मनुष्याणां ; धियः अपि = बुद्धयः अपि ; मलिनाः = मलाविलाः, मलेन कुण्ठिताः ; भवन्ति = जायन्ते ; 'इति तर्कयामी'ति शेषः ॥१.२८॥

तात्पर्यम्-
‘स्वर्णः मृगः लोके कुत्रचिदपि न भवितुमर्हति’ इति जानन्नपि साक्षात् पुरुषोत्तमः श्रीरामः अपि (मारीचधृत)काञ्चनं मृगरूपं दृष्ट्वा तं प्राप्तुम् अकामयत। बहुधा एवं भवति- आपत्सु समापन्नेषु जनानां बुद्धयः अपि भ्रान्ताः भवन्ति।
(अतः विपत्तौ प्राप्ते सति जागरूकतया भवितव्यम्। यत्र धीरपि प्रमाद्यते, तत्र अन्यचित्तवृत्तीनां किं वा कथनम्? निर्णयकरणसमये अत्यन्तं विचक्षणैः भवितव्यम्- इति तात्पर्यम्। न पुनः श्रीरामस्य विमर्शनमत्रार्थः।) ॥१.२८॥🍃