Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.28

मूलम्-
असम्भवं हेममृगस्य जन्म
तथापि रामो लुलुभे मृगाय ।
प्रायः समापन्नविपत्तिकाले
धियोऽपि पुंसां मलिना भवन्ति ॥१.२८॥

पदविभागः-
असम्भवं हेममृगस्य जन्म तथापि रामः लुलुभे मृगाय । प्रायः समापन्न-विपत्ति-काले धियः अपि पुंसां मलिनाः भवन्ति ॥१.२८॥

अन्वयः-
हेममृगस्य जन्म असम्भवम्। तथापि रामः मृगाय लुलुभे । प्रायः समापन्न-विपत्ति-काले, पुंसां धियः अपि मलिनाः भवन्ति ॥१.२८॥

प्रतिपदार्थः-
हेममृगस्य = स्वर्णमृगस्य ; जन्म = उत्पत्तिः ; असम्भवम् = सम्भावनाविषयीभूतमपि न भवति ; तथापि रामः = सकल-ज्ञान-निधिः भगवान् दाशरथिः अपि ; मृगाय = स्वर्ण-मृगम् आदातुं ; लुलुभे = लोभमकरोत् ; प्रायः = बाहुल्येन ; समापन्न-विपत्ति-काले ~ समापन्नाः = सन्निहताः, आपतिताः, या विपदः, तासां कालः = समयः, तस्मिन् ; पुंसां = पुरुषाणां, मनुष्याणां ; धियः अपि = बुद्धयः अपि ; मलिनाः = मलाविलाः, मलेन कुण्ठिताः ; भवन्ति = जायन्ते ; 'इति तर्कयामी'ति शेषः ॥१.२८॥

तात्पर्यम्-
‘स्वर्णः मृगः लोके कुत्रचिदपि न भवितुमर्हति’ इति जानन्नपि साक्षात् पुरुषोत्तमः श्रीरामः अपि (मारीचधृत)काञ्चनं मृगरूपं दृष्ट्वा तं प्राप्तुम् अकामयत। बहुधा एवं भवति- आपत्सु समापन्नेषु जनानां बुद्धयः अपि भ्रान्ताः भवन्ति।
(अतः विपत्तौ प्राप्ते सति जागरूकतया भवितव्यम्। यत्र धीरपि प्रमाद्यते, तत्र अन्यचित्तवृत्तीनां किं वा कथनम्? निर्णयकरणसमये अत्यन्तं विचक्षणैः भवितव्यम्- इति तात्पर्यम्। न पुनः श्रीरामस्य विमर्शनमत्रार्थः।) ॥१.२८॥🍃

हितोपदेश-सुभाषित-श्लोकाः - 1.27



मूलम्-
लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते ।
लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम् ॥१.२७॥

पदविभागः-
लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते । लोभात् मोहः च नाशः च लोभः पापस्य कारणम् ॥१.२७॥

अन्वयः-
लोभात् क्रोधः प्रभवति। लोभात् कामः प्रजायते । लोभान् मोहः च नाशः च (भवतः)। लोभः पापस्य कारणम् (भवति)॥१.२७॥

प्रतिपदार्थः-
लोभात् = पर-द्रव्ये अभिलाषायाः ; प्रभवति = प्रवर्त्तते, प्रवर्द्धते च ; प्रजायते = उत्पद्यते, प्रवर्द्धते च ;
लोभात्- मोहश्च, नाशश्च । 'उपजायते' इति शेषः । अतो लोभः पापस्य कारणमित्यर्थः ॥१.२७॥

तात्पर्यम्-
लोभस्य कारणेन किं किं प्रवर्धते इति उच्यते-- (लोभस्यासम्पूर्तौ) क्रोधः, (लोभस्य सन्तुष्टौ) कामः, मोहश्च जायेते। तेन पापं च प्रभवति। (पापमयं जीवनं भवति।) ॥१.२७॥

हितोपदेश-सुभाषित-श्लोकाः - 1.26



मूलम्-
सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः ।
छेत्तारः संशयानां च क्लिश्यन्ते लोभमोहिताः ॥१.२६॥

पदविभागः-
सुमहान्ति अपि शास्त्राणि धारयन्तः बहुश्रुताः । छेत्तारः संशयानां च क्लिश्यन्ते लोभ-मोहिताः ॥१.२६॥

अन्वयः-
(ये) बहुश्रुताः, सुमहान्ति अपि शास्त्राणि धारयन्तः, संशयानां छेत्तारः च, (ते) लोभ-मोहिताः (सन्तः) क्लिश्यन्ते ॥१.२६॥

प्रतिपदार्थः-
सुमहान्ति शास्त्राणि = सर्व-संशय-उच्छेदकानि, सुगूढ-तत्त्वानि, यानि च पठित्वा उत्कृष्टं ज्ञानं लभ्यते जनः ;
धारयन्तः = बुद्ध्या अर्थम् अवबोधितवन्तः ;
बहुश्रुताः = व्यवहार-पटवो
, नीति-विदश्च, ज्ञानवन्तः ;
संशयानां = पर-सन्देहानां
; छेत्तारः = निराकरिष्णवः, ये परिष्कुर्वन्ति ;
लोभमोहिताः = लोभात् मोहे पतिताः
;
क्लिश्यन्ते = दुःखम् अनुभवन्ति इत्यर्थः ॥१.२६॥

तात्पर्यम्-
उत्कृष्टानि, अत्युत्तमानि च शास्त्राणि अधीतवन्तः, पण्डिताः, ये परेषां स्वेषां च सन्देहानां निराकरणे समर्थाः सन्तः- ते अपि लोभकारणात् मोहिताः भवन्ति। अनेन मोहेन कष्टेषु पतन्ति च [अस्यार्थः- लोभात् जायमानात् मोहात् पतनात् च जागरूकतया भवितव्यमित्येव। शास्त्राध्ययनं त्यक्तव्यमिति न। यदि पण्डिताः एव लोभात् विभ्रमे पतन्ति, तत्र का वा सामान्यानां वार्ता? ]॥१.२६॥