Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.27



मूलम्-
लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते ।
लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम् ॥१.२७॥

पदविभागः-
लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते । लोभात् मोहः च नाशः च लोभः पापस्य कारणम् ॥१.२७॥

अन्वयः-
लोभात् क्रोधः प्रभवति। लोभात् कामः प्रजायते । लोभान् मोहः च नाशः च (भवतः)। लोभः पापस्य कारणम् (भवति)॥१.२७॥

प्रतिपदार्थः-
लोभात् = पर-द्रव्ये अभिलाषायाः ; प्रभवति = प्रवर्त्तते, प्रवर्द्धते च ; प्रजायते = उत्पद्यते, प्रवर्द्धते च ;
लोभात्- मोहश्च, नाशश्च । 'उपजायते' इति शेषः । अतो लोभः पापस्य कारणमित्यर्थः ॥१.२७॥

तात्पर्यम्-
लोभस्य कारणेन किं किं प्रवर्धते इति उच्यते-- (लोभस्यासम्पूर्तौ) क्रोधः, (लोभस्य सन्तुष्टौ) कामः, मोहश्च जायेते। तेन पापं च प्रभवति। (पापमयं जीवनं भवति।) ॥१.२७॥

हितोपदेश-सुभाषित-श्लोकाः - 1.26



मूलम्-
सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः ।
छेत्तारः संशयानां च क्लिश्यन्ते लोभमोहिताः ॥१.२६॥

पदविभागः-
सुमहान्ति अपि शास्त्राणि धारयन्तः बहुश्रुताः । छेत्तारः संशयानां च क्लिश्यन्ते लोभ-मोहिताः ॥१.२६॥

अन्वयः-
(ये) बहुश्रुताः, सुमहान्ति अपि शास्त्राणि धारयन्तः, संशयानां छेत्तारः च, (ते) लोभ-मोहिताः (सन्तः) क्लिश्यन्ते ॥१.२६॥

प्रतिपदार्थः-
सुमहान्ति शास्त्राणि = सर्व-संशय-उच्छेदकानि, सुगूढ-तत्त्वानि, यानि च पठित्वा उत्कृष्टं ज्ञानं लभ्यते जनः ;
धारयन्तः = बुद्ध्या अर्थम् अवबोधितवन्तः ;
बहुश्रुताः = व्यवहार-पटवो
, नीति-विदश्च, ज्ञानवन्तः ;
संशयानां = पर-सन्देहानां
; छेत्तारः = निराकरिष्णवः, ये परिष्कुर्वन्ति ;
लोभमोहिताः = लोभात् मोहे पतिताः
;
क्लिश्यन्ते = दुःखम् अनुभवन्ति इत्यर्थः ॥१.२६॥

तात्पर्यम्-
उत्कृष्टानि, अत्युत्तमानि च शास्त्राणि अधीतवन्तः, पण्डिताः, ये परेषां स्वेषां च सन्देहानां निराकरणे समर्थाः सन्तः- ते अपि लोभकारणात् मोहिताः भवन्ति। अनेन मोहेन कष्टेषु पतन्ति च [अस्यार्थः- लोभात् जायमानात् मोहात् पतनात् च जागरूकतया भवितव्यमित्येव। शास्त्राध्ययनं त्यक्तव्यमिति न। यदि पण्डिताः एव लोभात् विभ्रमे पतन्ति, तत्र का वा सामान्यानां वार्ता? ]॥१.२६॥

हितोपदेश-सुभाषित-श्लोकाः - 1.25



मूलम्-

ईर्ष्यी घृणी त्वसन्तुष्टः क्रोधनो नित्यशङ्कितः ।

परभाग्योपजीवी च षडेते दुःखभागिनः ॥१.२५॥



पदविभागः-

ईर्ष्यी घृणी तु असन्तुष्टः क्रोधनः नित्य-शङ्कितः । परभाग्य-उपजीवी च षड् एते दुःखभागिनः ॥१.२५॥



अन्वयः-

ईर्ष्यी घृणी असन्तुष्टः क्रोधनः नित्य-शङ्कितः परभाग्य-उपजीवी च-- एते षड् दुःखभागिनः (भवन्ति)॥१.२५॥



प्रतिपदार्थः-

ईर्ष्यी = ईर्ष्यालुः, परोत्कर्षासहिष्णुः ;
घृणी = घृणाशीलः, जुगुप्सा-स्वभावकः ;
असन्तुष्टः = सन्तुष्टि-हीनः
;
क्रोधनः = कोपस्वभावकः
;
नित्यशङ्कितः = यः सर्वदा सर्वत्र शङ्कां करोति
;
परभाग्योपजीवी = परान्नभोजी
, पराधीनः ;
षडेते दुःखभागिनः = एते षट्जनाः सर्वदा दुःखमेव अनुभवन्ति ॥१.२५॥



तात्पर्यम्-

एते षट्-जनाः नित्यं दुःखिता भवन्ति-- १. यः परेषामुत्कर्षं न सहते, अन्यस्य भाग्योदये खिन्नः भवति,  २. यः सर्वत्र घृणां प्रदर्शयति, ३. य असन्तुष्टः, कुत्रचित् केनचिदपि सन्तोषं नाननुभवति, ४. यः सदा क्रुद्धः भवति,  ५. यः अकारणं, सकारणं वा सर्वत्र सन्देहं करोति, ६. य अन्येषां गृहे तिष्ठति, इतरेषां सम्पदा स्वजीवनं यापयति।🌻