Friday, July 7, 2017

हितोपदेश-सुभाषित-श्लोकाः - 1.26



मूलम्-
सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः ।
छेत्तारः संशयानां च क्लिश्यन्ते लोभमोहिताः ॥१.२६॥

पदविभागः-
सुमहान्ति अपि शास्त्राणि धारयन्तः बहुश्रुताः । छेत्तारः संशयानां च क्लिश्यन्ते लोभ-मोहिताः ॥१.२६॥

अन्वयः-
(ये) बहुश्रुताः, सुमहान्ति अपि शास्त्राणि धारयन्तः, संशयानां छेत्तारः च, (ते) लोभ-मोहिताः (सन्तः) क्लिश्यन्ते ॥१.२६॥

प्रतिपदार्थः-
सुमहान्ति शास्त्राणि = सर्व-संशय-उच्छेदकानि, सुगूढ-तत्त्वानि, यानि च पठित्वा उत्कृष्टं ज्ञानं लभ्यते जनः ;
धारयन्तः = बुद्ध्या अर्थम् अवबोधितवन्तः ;
बहुश्रुताः = व्यवहार-पटवो
, नीति-विदश्च, ज्ञानवन्तः ;
संशयानां = पर-सन्देहानां
; छेत्तारः = निराकरिष्णवः, ये परिष्कुर्वन्ति ;
लोभमोहिताः = लोभात् मोहे पतिताः
;
क्लिश्यन्ते = दुःखम् अनुभवन्ति इत्यर्थः ॥१.२६॥

तात्पर्यम्-
उत्कृष्टानि, अत्युत्तमानि च शास्त्राणि अधीतवन्तः, पण्डिताः, ये परेषां स्वेषां च सन्देहानां निराकरणे समर्थाः सन्तः- ते अपि लोभकारणात् मोहिताः भवन्ति। अनेन मोहेन कष्टेषु पतन्ति च [अस्यार्थः- लोभात् जायमानात् मोहात् पतनात् च जागरूकतया भवितव्यमित्येव। शास्त्राध्ययनं त्यक्तव्यमिति न। यदि पण्डिताः एव लोभात् विभ्रमे पतन्ति, तत्र का वा सामान्यानां वार्ता? ]॥१.२६॥

हितोपदेश-सुभाषित-श्लोकाः - 1.25



मूलम्-

ईर्ष्यी घृणी त्वसन्तुष्टः क्रोधनो नित्यशङ्कितः ।

परभाग्योपजीवी च षडेते दुःखभागिनः ॥१.२५॥



पदविभागः-

ईर्ष्यी घृणी तु असन्तुष्टः क्रोधनः नित्य-शङ्कितः । परभाग्य-उपजीवी च षड् एते दुःखभागिनः ॥१.२५॥



अन्वयः-

ईर्ष्यी घृणी असन्तुष्टः क्रोधनः नित्य-शङ्कितः परभाग्य-उपजीवी च-- एते षड् दुःखभागिनः (भवन्ति)॥१.२५॥



प्रतिपदार्थः-

ईर्ष्यी = ईर्ष्यालुः, परोत्कर्षासहिष्णुः ;
घृणी = घृणाशीलः, जुगुप्सा-स्वभावकः ;
असन्तुष्टः = सन्तुष्टि-हीनः
;
क्रोधनः = कोपस्वभावकः
;
नित्यशङ्कितः = यः सर्वदा सर्वत्र शङ्कां करोति
;
परभाग्योपजीवी = परान्नभोजी
, पराधीनः ;
षडेते दुःखभागिनः = एते षट्जनाः सर्वदा दुःखमेव अनुभवन्ति ॥१.२५॥



तात्पर्यम्-

एते षट्-जनाः नित्यं दुःखिता भवन्ति-- १. यः परेषामुत्कर्षं न सहते, अन्यस्य भाग्योदये खिन्नः भवति,  २. यः सर्वत्र घृणां प्रदर्शयति, ३. य असन्तुष्टः, कुत्रचित् केनचिदपि सन्तोषं नाननुभवति, ४. यः सदा क्रुद्धः भवति,  ५. यः अकारणं, सकारणं वा सर्वत्र सन्देहं करोति, ६. य अन्येषां गृहे तिष्ठति, इतरेषां सम्पदा स्वजीवनं यापयति।🌻

Friday, June 10, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.24



मूलम्-
शङ्काभिः सर्वमाक्रान्तमन्नं पानं च भूतले ।
प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा ? ॥१.२४॥

पदविभागः-
शङ्काभिः सर्वम् आक्रान्तम् अन्नं पानं च भूतले । प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा ? ॥१.२४॥

अन्वयः-
भूतले सर्वम् अन्नं पानं च शङ्काभिः आक्रान्तम् । कुत्र प्रवृत्तिः कर्तव्या? कथं नु वा जीवितव्यं? ॥१.२४॥

प्रतिपदार्थः-
भूतले = लोके ; सर्वं = अशेषं ; अन्नं = भक्ष्यम्, भोजनम् ; पानं = पातुं योग्यं पदार्थं जलादिः ; शङ्काभिः = (अत्र भोजन-सम्बन्धि-शङ्काः इति) वात-पित्त-कफादि-जन्य-रोगादि-शङ्काभिः ; आक्रान्तं = व्यापृतं ; कुत्र = कस्मिन् भोज्ये पदार्थे ; प्रवृत्तिः कर्तव्या = (अत्र) खादितव्यम् ; कथं नु = केन प्रकारेण? ; जीवितव्यम् = लोके स्थातव्यम् ;॥१.२४॥

तात्पर्यम्-
जगति यत्किञ्चित् खाद्यं, पानयोग्यं च वस्तु वर्तते, तत् समस्तं (वस्तुनः गुण-प्रभावादिषु) नानाविधसन्देहैः आपृतं वर्तते। (अनेन कारणेन) किं खादनीयं, किं न (इति भ्रान्ताः), कथं वा जीवनयात्रां यापयाम इति (विचारयामश्च)।