Friday, June 10, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.23



मूलम्-
वृद्धानां वचनं ग्राह्यमापत्काले ह्युपस्थिते ।
सर्वत्रैवं विचारे च भोजनेऽप्यप्रवर्तनम्** ॥१.२३॥

पदविभागः-
वृद्धनां वचनं ग्राह्यम् आपत्-काले हि उपस्थिते । सर्वत्र एवं विचारे च भोजने अपि अप्रवर्तनम् ॥१.२३॥

अन्वयः-
वृद्धानां वचनं आपत्-काले हि उपस्थिते ग्राह्यम् । सर्वत्र एवं विचारे च भोजने अपि अप्रवर्तनम् ॥१.२३॥

प्रतिपदार्थः-
ग्राह्यं = स्वीकार्यम् ; आपत्काले = विपत्तिसमये ; उपस्थिते = प्राप्ते सति ; सर्वत्र = सर्वेषु कार्येषु ; एवं विचारे = वृद्धवचनानुसारेणैव सुविचार्यैव प्रवृत्तौ तु ; अप्रवर्तनम् = अप्रवृत्तिः स्यादित्यर्थः ; 'विचारेणेति पाठान्तरम् ॥१.२३॥

तात्पर्यम्-
यदा विपत्तिः सम्भवति, तदा एव ज्येष्ठानाम् उपदेशकथनानुसारम् आचरणीयम्। अन्यथा- ‘यत्रकुत्रचित् तेषाम् उपदेशनेनैव कार्ये प्रवर्ते’ इति विचिन्तनेन भोजनमपि न खादेत्॥ [**अस्मात् वाक्यात् पूर्वं “कपोतः सदर्पमाह”- इत्यस्ति। दर्पस्यात्र सन्दर्भः। अतः दर्पवन्तः एवं विचिन्तयन्ति  इति यावत् ग्राह्यमत्र।]

हितोपदेश-सुभाषित-श्लोकाः - 1.22



मूलम्-
सुजीर्णमन्नं सुविचक्षणः सुतः
सुशासिता स्त्री नृपतिः सुसेवितः ।
सुचिन्त्य चोक्तं सुविचार्य यत् कृतं
सुदीर्घकालेऽपि न याति विक्रियाम् ॥१.२२॥

पदविभागः-
सुजीर्णम् अन्नं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः । सुचिन्त्य च उक्तं सुविचार्य यत् कृतं सुदीर्घ-काले अपि न याति विक्रियाम् ॥१.२२॥

अन्वयः-
सुजीर्णम् अन्नं, सुविचक्षणः सुतः, सुशासिता स्त्री, सुसेवितः नृपतिः, सुचिन्त्य च उक्तं, सुविचार्य यत् कृतं, (तत्) सुदीर्घ-काले अपि विक्रियाम् न याति ॥१.२२॥

प्रतिपदार्थः-
सुजीर्णं = सुपक्वम् ; सुविचक्षणः = नितरां शिक्षितो विद्वान् ; सुतः = पुत्रः ; सुशासिता = सुष्ठु आत्मना अनुशासिता, आत्मनः वशे या अस्ति, सा; सुदीर्घकालेऽपि = गतेऽपि बहुतिथे काले ; विक्रियां = विकारम्। न याति = विकृतं न भवति ॥१.२२॥

तात्पर्यम्-
भोजनं सुपक्वं, पुत्रः कार्याकार्यविचारशीलः, आत्मनः अनुशासनेन सन्मार्गगामिनी स्त्री, मन्त्रि-सेनापत्यादिभिः सम्यक् अनुगतः राजा, विचार्य उक्तं वचनं, कृतं कार्यं च एतानि सर्वाणि बहुकालानन्तरमपि दुष्टानि न भवन्ति।

हितोपदेश-सुभाषित-श्लोकाः - 1.21

मूलम्-
स हि गगनविहारी कल्मषध्वंसकारी
दशशतकरधारी ज्योतिषां मध्यचारी ।
विधुरपि विधियोगाद् ग्रस्यते राहुणासौ
लिखितमपि ललाटे प्रोज्झितुं कः समर्थः ॥१.२१॥

पदविभागः-
सः हि गगन-विहारी कल्मष-ध्वंस-कारी दश-शतकर-धारी ज्योतिषां मध्यचारी । विधुः अपि विधि-योगाद् ग्रस्यते राहुणा असौ लिखितम् अपि ललाटे प्रोज्झितुं कः समर्थः ॥१.२१॥

अन्वयः-
सः (विधुः) हि गगन-विहारी, कल्मष-ध्वंस-कारी, दश-शतकर-धारी, ज्योतिषां मध्यचारी, (अस्ति, तथापि तादृशः) असौ विधुः अपि विधि-योगाद् राहुणा ग्रस्यते । ललाटे लिखितम् अपि प्रोज्झितुं कः समर्थः ॥१.२१॥

प्रतिपदार्थः-
सः = त्रिलोकीप्रसिद्धः ; गगन-विहारी = आकाश-सञ्चारी ; कल्मष-ध्वंस-कारी = अन्धकार-विनाशकः ; दशशत-कर-धारी = सहस्र-किरणः ; ज्योतिषां = ताराणां ; मध्यचारी = मध्यवर्ती ; असौ विधुरपि = चन्द्रोऽपि ; विधियोगात् = दैवविपर्ययात् ; ग्रस्यते = गृह्यते ; राहुणा = ग्रहविशेषेण ; लिखितं = विधात्रा लिखितम् ; ललाटे = फालभागे ; प्रोज्झितुं = त्यक्तुं, परिहर्तुं, पारं गन्तुं ॥१.२१॥

तात्पर्यम्-
चन्द्रः आकाशे विहरति, तमः विनाशयति, अनन्तकिरणान् धरति, ताराणां मध्ये भ्रमति। तथापि सः राहुग्रहेण प्रतिगृह्यते। भाग्यं अतिक्रान्तुं कः वा शक्नोति? 💥