Friday, June 10, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.22



मूलम्-
सुजीर्णमन्नं सुविचक्षणः सुतः
सुशासिता स्त्री नृपतिः सुसेवितः ।
सुचिन्त्य चोक्तं सुविचार्य यत् कृतं
सुदीर्घकालेऽपि न याति विक्रियाम् ॥१.२२॥

पदविभागः-
सुजीर्णम् अन्नं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः । सुचिन्त्य च उक्तं सुविचार्य यत् कृतं सुदीर्घ-काले अपि न याति विक्रियाम् ॥१.२२॥

अन्वयः-
सुजीर्णम् अन्नं, सुविचक्षणः सुतः, सुशासिता स्त्री, सुसेवितः नृपतिः, सुचिन्त्य च उक्तं, सुविचार्य यत् कृतं, (तत्) सुदीर्घ-काले अपि विक्रियाम् न याति ॥१.२२॥

प्रतिपदार्थः-
सुजीर्णं = सुपक्वम् ; सुविचक्षणः = नितरां शिक्षितो विद्वान् ; सुतः = पुत्रः ; सुशासिता = सुष्ठु आत्मना अनुशासिता, आत्मनः वशे या अस्ति, सा; सुदीर्घकालेऽपि = गतेऽपि बहुतिथे काले ; विक्रियां = विकारम्। न याति = विकृतं न भवति ॥१.२२॥

तात्पर्यम्-
भोजनं सुपक्वं, पुत्रः कार्याकार्यविचारशीलः, आत्मनः अनुशासनेन सन्मार्गगामिनी स्त्री, मन्त्रि-सेनापत्यादिभिः सम्यक् अनुगतः राजा, विचार्य उक्तं वचनं, कृतं कार्यं च एतानि सर्वाणि बहुकालानन्तरमपि दुष्टानि न भवन्ति।

हितोपदेश-सुभाषित-श्लोकाः - 1.21

मूलम्-
स हि गगनविहारी कल्मषध्वंसकारी
दशशतकरधारी ज्योतिषां मध्यचारी ।
विधुरपि विधियोगाद् ग्रस्यते राहुणासौ
लिखितमपि ललाटे प्रोज्झितुं कः समर्थः ॥१.२१॥

पदविभागः-
सः हि गगन-विहारी कल्मष-ध्वंस-कारी दश-शतकर-धारी ज्योतिषां मध्यचारी । विधुः अपि विधि-योगाद् ग्रस्यते राहुणा असौ लिखितम् अपि ललाटे प्रोज्झितुं कः समर्थः ॥१.२१॥

अन्वयः-
सः (विधुः) हि गगन-विहारी, कल्मष-ध्वंस-कारी, दश-शतकर-धारी, ज्योतिषां मध्यचारी, (अस्ति, तथापि तादृशः) असौ विधुः अपि विधि-योगाद् राहुणा ग्रस्यते । ललाटे लिखितम् अपि प्रोज्झितुं कः समर्थः ॥१.२१॥

प्रतिपदार्थः-
सः = त्रिलोकीप्रसिद्धः ; गगन-विहारी = आकाश-सञ्चारी ; कल्मष-ध्वंस-कारी = अन्धकार-विनाशकः ; दशशत-कर-धारी = सहस्र-किरणः ; ज्योतिषां = ताराणां ; मध्यचारी = मध्यवर्ती ; असौ विधुरपि = चन्द्रोऽपि ; विधियोगात् = दैवविपर्ययात् ; ग्रस्यते = गृह्यते ; राहुणा = ग्रहविशेषेण ; लिखितं = विधात्रा लिखितम् ; ललाटे = फालभागे ; प्रोज्झितुं = त्यक्तुं, परिहर्तुं, पारं गन्तुं ॥१.२१॥

तात्पर्यम्-
चन्द्रः आकाशे विहरति, तमः विनाशयति, अनन्तकिरणान् धरति, ताराणां मध्ये भ्रमति। तथापि सः राहुग्रहेण प्रतिगृह्यते। भाग्यं अतिक्रान्तुं कः वा शक्नोति? 💥

Tuesday, May 24, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.20



मूलम्-
सर्वस्य हि परीक्ष्यन्ते स्वभावो नेतरे गुणाः ।
अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥१.२०॥

पदविभागः-
सर्वस्य हि परीक्ष्यन्ते स्वभावः न इतरे गुणाः । अतीत्य हि गुणान् सर्वान् स्वभावः मूर्ध्नि वर्तते ॥१.२०॥

अन्वयः-
सर्वस्य हि स्वभावः (परीक्ष्यते) न इतरे गुणाः परीक्ष्यन्ते । सर्वान् गुणान् अतीत्य हि स्वभावः मूर्ध्नि वर्तते ॥१.२०॥

प्रतिपदार्थः-
सकलस्यापि = गुणिनः, निर्गुणस्य वा, स्वभावाः = प्रकृतिः, संस्कारादयः ; इतरे = विद्वत्त्-औदार्य- कुशलत्वादयः गुणाः ; 'न परीक्ष्यन्ते' इति शेषः ; कुत एतदत आह- अतीत्येति ; सर्वान् गुणान् = सल्लक्षणान् ; अतीत्य = अतिक्रम्य ; स्वभावः = प्रकृतिरेव ;मूर्ध्नि = सर्वेषां गुणानामुपरि, वर्तते = प्रभवतीत्यर्थः ॥१.२०॥

तात्पर्यम्-
सर्वेषां मनुष्याणां स्वभावः परीक्ष्यते। इतरे गुणाः न परीक्ष्यन्ते। सर्वान् गुणान् अतिक्रम्य स्वभावः शिरःस्थायी विराजते।