Sunday, May 22, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.18

मूलम्-
अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया ।
दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥१.१८॥

पदविभागः-
अवश-इन्द्रिय-चित्तानां हस्ति-स्नानम् इव क्रिया । दुर्भग-आभरण-प्रायः ज्ञानं भारः क्रियां विना ॥१.१८॥

अन्वयः-
अवश-इन्द्रिय-चित्तानां क्रिया हस्ति-स्नानम् इव । क्रियां विना ज्ञानं भारः। दुर्भग-आभरण-प्रायः। ॥१.१८॥

प्रतिपदार्थः-
अवशेन्द्रिय-चित्तानां ~ अवशानि इन्द्रियाणि, चित्तं च येषान्ते, तेषाम्-अवशेन्द्रिय-चित्तानाम् = निरवग्रहेन्द्रिय-स्वान्तानां पुंसाम् ; क्रिया = धर्माचरणादिकं कर्म ; हस्तिस्नानम् इव = गजस्नानमिव, निष्फलम् ; दुर्भगाया आभरणानीव- दुर्भगाभरणप्रायः = दुष्ट-दुर्भाग्य-स्त्रीधारित-भूषणवत्, ज्ञानं = विद्या ; क्रियां विना = तद्विहिताचरणं विना, भार एव ॥१.१८॥

तात्पर्यम्-
येषां चित्तं स्वाधीनं नास्ति, तैराचरितं धर्माचरणादिकं कर्म व्यर्थं भवति। यथा- गजाः स्नानं कृत्वा स्नानानन्तरमेव धूलिप्रक्षेपादिना पुनरात्मनो मलिनतामापादयन्ति। अपि च- आचरणं विना शुष्कज्ञानं भारभूतं भवति। यथा- दुर्भाग्यवत्याः स्त्रियः आभरणैः शोभा न वर्धते, केवलं भारवत्त्वमेव तथा।

[दुर्भगाधृताभरणैः पत्यादिमनोरञ्जनाऽभावाद् भारवत्तत्सर्वं तस्याः क्लेशप्रदमेव । यथा नानाभरणभूषिताऽपि खलु वन्ध्या, दुष्टा कुरूपा वा स्त्री न शोभते, न वा सा पत्युर्मनः प्रीणाति, एवं ज्ञानवानपि तदुक्ताचारशून्यो नैव शोभते, इत्याशयः । अत्र प्रायश्शब्दो बाहुल्येऽव्ययम्। अकारान्तो वा प्रायशब्दः पुंसि । दुर्भगाया भरणं पालन, तत्तुल्यं निष्फलमिति वाऽर्थः।]☘

हितोपदेश-सुभाषित-श्लोकाः - 1.17



मूलम्-
न धर्मशास्त्रं पठतीति कारणं
न चापि वेदाध्ययनं दुरात्मनः ।
स्वभाव एवात्र तथातिरिच्यते
यथा प्रकृत्या मधुरं गवां पयः ॥१.१७॥

पदविभागः-
न धर्मशास्त्रं पठति इति कारणं न च अपि वेद-अध्ययनं दुरात्मनः । स्वभावः एव अत्र तथा अतिरिच्यते यथा प्रकृत्या मधुरं गवां पयः ॥१.१७॥

अन्वयः-
धर्मशास्त्रं पठति इति कारणं न ; वेद-अध्ययनं न च अपि (कारणं)। दुरात्मनः स्वभावः एव अत्र- यथा प्रकृत्या मधुरं गवां पयः- तथा अतिरिच्यते ॥१.१७॥

प्रतिपदार्थः-
धर्मशास्त्रं = पुराणस्मृत्यादीनि ; पठति = अध्ययनं करोति ; दुरात्मनः = दुष्टस्वभावस्य ; (स्वभावपरिवर्तने) कारणं = हेतुः ;वेदाध्ययनं = वेदस्य गुरुमुखतः अध्ययनं ; स्वभावः = स्वतःसिद्धः, स्वकीयभावः ; अतिरिच्यते = सर्वोन्नतं, सर्वत्र बलवत् ; गवां पयः = दुग्धं ; प्रकृत्या = संसिद्ध्या ; मधुरं = गुड-इक्ष्वादिस्थः मिष्टस्वादुभावः ॥१.१७॥

तात्पर्यम्-
धर्मशास्त्रं पठति, वेदाध्ययनं करोति इति कारणेन (स्वभावः) न परिवर्तते। दुर्जनस्य स्वभावः सर्वस्मात् अतिक्रम्य भवति। धेनूनां दुग्धं स्वभावत- एव मधुरं भवति (तत्र न कोऽपि बाह्यप्रयत्नः आवश्यकः इति यावत्।)☘
[धर्मशास्त्र-पठनं, वेदाध्ययनं वा दुष्टानां खलानां दुरात्मनां स्वभावपरिवर्तने न शक्तं भवति, स्वभावस्य सर्वतो बलवत्त्वात् । अत एव हि कटुकषाय-प्राय-तृणादि-भक्षणेऽपि, दुग्धं स्वभावेनैव मधुरं भवति, एवं- मधुरपयःपानेऽपि भुजङ्गानां स्वभावतो विषमेव भवति,नाऽमृतमिति भावः]

Tuesday, May 17, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.16




मूलम्-
दातव्यमिति यद् दानं दीयतेऽनुपकारिणि ।
देशे काले च पात्रे च तद्दानं सात्त्विकं विदुः ॥१.१६॥

पदविभागः-
दातव्यम् इति यद् दानं दीयते अनुपकारिणि । देशे काले च पात्रे च तद् दानं सात्त्विकं विदुः ॥१.१६॥

अन्वयः-
यद् दानं अनुपकारिणि ‘दातव्यम्’ इति देशे काले च पात्रे च दीयते, तद् सात्त्विकं दानं विदुः ॥१.१६॥

प्रतिपदार्थः-
दातव्यमिति = मया अवश्यमिदं कस्मैचन सत्पात्राय देयम् ; इति = इति बुद्ध्या ; दीयते = अर्पयते ; अनुपकारिणि = यस्मिन् पुरुषे आत्मनः लाभप्रत्यपेक्षा नास्ति, यस्मात् न किमपि स्वार्थं न साध्यते ; देशे = तीर्थादौ, सुक्षेत्रेषु ; काले = सूर्येन्दुग्रहणादौ, सत्काले ; पात्रे = योग्ये, सत्पात्रे, विदुषि ; (यद्दानं दीयते) तत् सात्त्विकमित्यन्वयः ॥१.१६॥

तात्पर्यम्-
‘मया अवश्यं कस्मैचन सत्पात्राय धनं देयम्’ इति (निःस्वार्थबुद्ध्या) प्रतिफलानापेक्षया साधुस्थले, साधुकाले, साधुपुरुषाय दत्तं दानं सात्विकं दानमिति व्यपदिश्यते॥🌻

हितोपदेश-सुभाषित-श्लोकाः - 1.15



मूलम्-
दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् ।
व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥१.१५॥

पदविभागः-
दरिद्रान् भर कौन्तेय मा प्रयच्छ ईश्वरे धनम् । व्याधितस्य औषधं पथ्यं नीरुजस्य किम् औषधैः ॥१.१५॥

अन्वयः-
कौन्तेय, दरिद्रान् भर। ईश्वरे धनं मा प्रयच्छ । व्याधितस्य औषधं पथ्यं (भवति)। नीरुजस्य किम् औषधैः (प्रयोजनम्?)॥१.१५॥

प्रतिपदार्थः-
कौन्तेय = हे कुन्ती-पुत्र, युधिष्ठिर ; दरिद्रान् = धनहीनान् ; भर = पालय ; ईश्वरे = धनिनि, ऐश्वर्यवति ; धनं = वित्तं ; मा प्रयच्छ = मा देहि ;व्याधितस्य = रुग्णस्य, शरीरबाधया पीडितस्य ; पथ्यं = हितकारकम् ; नीरुजस्य = रोगशून्यस्य, स्वस्थस्य तु ; औषधैः = भैषजैः, अगदैः ; किं = किं फलं ; न किमपीत्यर्थः ॥१.१५॥

तात्पर्यम्-
हे कुन्तीपुत्र, निर्धनान् (धनेन) पोषय। यः पूर्वमेव धनवान्, तस्मै धनं मा देहि। अस्य उदाहरणं दीयते। यथा- यः रोगपीडितः सः औषधेन हितं प्राप्नोति। यः पूर्वमेव स्वस्थः तस्य औषधसेवनं कुतः?