Monday, May 16, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.14



मूलम्-
मातृवत् परदारेषु परद्रव्येषु लोष्टवत् ।
आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः ॥१.१४॥

पदाविभागः-
मातृवत् परदारेषु परद्रव्येषु लोष्टवत् । आत्मवत् सर्वभूतेषु यः पश्यति सः पण्डितः ॥१.१४॥

अन्वयः-
परदारेषु मातृवत्, परद्रव्येषु लोष्टवत्, सर्वभूतेषु आत्मवत् (च) यः पश्यति सः पण्डितः ॥१.१४॥

प्रतिपदार्थः-
परदारेषु = परकलत्रेषु, परेषां भार्याविषये ; मातृवत् = मातृभावेन यः पश्यति ; लोष्टवत् = मृत्खण्डवत्, पाषाणपिण्डवत् वा ; पश्यतीति शेषः ; पण्डितः = तत्त्वज्ञः ॥१.१४॥

तात्पर्यम्-
परनराणां पत्नीः स्वस्य जननी इति भावनया, परेषां धनानि पाषाणखण्डा इति धिया, सर्वान् प्राणिनः आत्मा इति बुद्ध्या- यः भावयति, सः विद्वान् भवति॥

हितोपदेश-सुभाषित-श्लोकाः - 1.13




मूलम्-
प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये ।
आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति ॥१.१३॥

पदविभागः-
प्रत्याख्याने च दाने च सुख-दुःखे प्रिय-अप्रिये । आत्मा-औपम्येन पुरुषः प्रमाणम् अधिगच्छति ॥१.१३॥

अन्वयः-
पुरुषः प्रत्याख्याने च दाने च सुख-दुःखे प्रिय-अप्रिये आत्मा-औपम्येन प्रमाणम् अधिगच्छति ॥१.१३॥

प्रतिपदार्थः-
प्रत्याख्याने = प्रार्थनाभङ्गे, परतिरस्कारे वा ; सुखे = सुखप्रदाने, दुःखे = क्लेशदाने, दुःखोत्पादने च । प्रिये = इष्टाचरणे, अप्रिये = अनिष्टाचरणे च ; आत्नौपम्येन = आत्मानमेव निदर्शनं कृत्वा ; प्रमाणं = निश्चयम् ; अधिगच्छति = लभते ; ॥१.१३॥

तात्पर्यम्-
परैः तिरस्कारे प्राप्ते, सुखे लब्धे, दुःखे अनुभूते वा, प्रिये घटिते, अप्रिये सम्भूते वा- किंविध अनुभवः भवतीति नरः कथं जानीयात्? तत्तदनुभवप्राप्तौ स्वस्मिन् यथा भावना जागर्ति, तथैवान्येषामपि भवतीति आत्मनः उपमानेन अवगच्छेत्। (इष्टात् सुखम् अनिष्टाद् दुःखञ्चोत्पद्यते इत्यादिकं स्वात्मौपम्येन ज्ञातुं शक्यते इति यावत्)॥

हितोपदेश-सुभाषित-श्लोकाः - 1.12




मूलम्
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ।
आत्मौपम्येन भूतानां दयां कुर्वन्ति साधवः ॥१.१२॥

पदविभागः-
प्राणाः यथा आत्मनः अभीष्टाः भूतानाम् अपि ते तथा । आत्मा-औपम्येन भूतानां दयां कुर्वन्ति साधवः ॥१.१२॥

अन्वयः-
यथा आत्मनः प्राणाः अभीष्टाः ते भूतानाम् अपि तथा । साधवः आत्मा-औपम्येन भूतानां दयां कुर्वन्ति ॥१.१२॥

प्रतिपदार्थः-
आत्मनः = स्वस्य ; अभीष्टाः = प्रियाः ; भूतानां = स्वातिरिक्तानां सर्वेषां जीवानामपि ; ते = प्राणाः ; तथा = तथैव प्रियाः ; अत आत्मौपम्येन = स्वात्मानम् उपमानं कृत्वा ; साधवः = सज्जनाः, दयालवः ; भूतानां = जीवानां, प्राणिनां ; दयां कुर्वन्ति = अनुकम्पां, करुणां, कृपां वा दर्शयन्ति॥१.१२॥

तात्पर्यम्-
यथा स्वस्य प्राणाः स्वस्य अत्यन्तमिष्टाः भवन्ति, तथैव अन्येषां जीवानामपि ते अभीप्सिता भवन्ति। अतः साधवः अन्यानपि जीवान् आत्मनः समानमेव पश्यन्ति।

Friday, May 13, 2016

हितोपदेश-सुभाषित-श्लोकाः - 1.11




मूलम्-

मरुस्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा ।

दरिद्रे दीयते दानं सफलं पाण्डुनन्दन ॥१.११॥



पदविभागः-

मरु-स्थल्यां यथा वृष्टिः क्षुधा-आर्ते भोजनं तथा । दरिद्रे दीयते दानं सफलं पाण्डु-नन्दन ॥१.११॥



अन्वयः-

पाण्डु-नन्दन, यथा मरु-स्थल्यां वृष्टिः, क्षुधा-आर्ते भोजनं, तथा दरिद्रे (यत्) दानं दीयते (तत्) सफलं (भवति) ॥१.११॥



प्रतिपदार्थः-

पाण्डुनन्दन = हे युधिष्ठिर! ; मरुस्थल्यां = मरुभूमौ, निर्जलप्रदेशे ; यथा वृष्टिः = यथा वृष्टिः सफला, नितरामुचिता ; क्षुधार्ते = बुभुक्षया पीडिताय ; तथा = तथैव ; दरिद्रे = धनहीनाय ; यद्दानं दीयते तदपि सफलमित्यन्वयः ॥१.११॥



तात्पर्यम्-

हे युधिष्ठिर, यथा जलरहितदेशे वर्षणेन वृष्टिः सफला भवति, भोजनेच्छोः अन्नदानेन क्षुधानिवारणेन च अनन्दानं सफलं भवति, तथैव निर्धनाय दत्तं दानं सफलं भवति। (जलं यत्र प्रभूतं तत्र वृष्टये न कोऽपि आर्तः। अन्नं खादित्वा यः तृप्तः तस्य अन्नस्यावश्यकता नास्ति। तथैव धनिकाय धनदानेन न लाभः। यत्र यन्नास्ति, तत्र तद्दातव्यम् इति यावत्।)

Thursday, May 12, 2016

हितोपदेश-सुभाषित-श्लोकाः- 1.9




मूलम्-
तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते ।
उत्तरस्तु चतुर्वर्गो महात्मन्येव तिष्ठति ॥१.९॥

पदविभागः-अन्वयः-
तत्र पूर्वः चतुर्वर्गः दम्भार्थम् अपि सेव्यते । उत्तरः तु चतुर्वर्गः महात्मनि एव तिष्ठति ॥१.९॥

प्रतिपदार्थः-
तत्र = अष्टविधे पूर्वोक्ते धर्ममार्गे ;
पूर्वश्चतुर्वर्गः = इज्याध्ययनतपो-दानात्मकः ;
दम्भार्थं = लोकसङ्ग्रह-लोकवञ्चनाद्यर्थमपि
;
सेव्यते = आश्रीयते ; 'लोकै'रिति शेषः ;
उत्तरः चतुर्वर्गः तु = सत्य-धृति-क्षमा-अलोभात्मको धर्ममार्गस्तु
महात्मस्वेव सम्भवति
, न क्षुद्राशयेषु ॥१.९॥

तात्पर्यम्-
(इज्याध्ययनतपोदानाः, सत्यधृतिक्षमालोभाश्च धर्मोपार्जनमार्गाः।) तत्र पूर्वगणं न केवलं धर्माय, अपि तु दम्भप्रदर्शनादि-लौकिकप्रयोजनार्थमपि भजते नरः। अपरगणे स्थिताः गुणास्तु महापुरुषेषु, सन्तजनेषु एव दृश्यन्ते।