Sunday, March 13, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.43



मूलम्-

नाद्रव्ये निहिता काचित् क्रिया फलवती भवेत् ।

न व्यापारशतेनापि शुकवत् पाठ्यते बकः॥४३॥



पदविभागः-

न अद्रव्ये निहिता काचित् क्रिया फलवती भवेत् । न व्यापार-शतेन अपि शुकवत् पाठ्यते बकः॥४३॥



अन्वयः-

अद्रव्ये निहिता काचित् क्रिया फलवती न भवेत् । व्यापार-शतेन अपि बकः शुकवत् न पाठ्यते ॥४३॥



प्रतिपदार्थः-

देव = हे राजन् ; अद्रव्ये = अयोग्ये, अपात्रे च ; निहिता = योजिता, स्थापिता च ; क्रिया = संस्कारः, शिक्षा च = शिक्षणं ; फलवती = सफला ; व्यापार-शतेनापि = उपाय-शतेनापि ; बकः = पक्षिविशेषः ; न खलु ; पाठ्यते=पाठयितुं शक्यते॥४३॥



तात्पर्यम्-

अपात्रं शिक्षयित्वा संस्कारयितुं कृतानि प्रयतनानि न कदापि सफलानि भवन्ति। बकः शुकवत् भणितुं न पारयति। अतः तं शिक्षयितुं प्रयत्नः व्यर्थो भवति।